नमामि शंभुं पुरुषं पुराणं नमामि सर्वज्ञम् अपारभावम् नमामि रुद्रं प्रभुम् अक्षयं तं नमामि शर्वं शिरसा नमामि
नमामि देवं परम् अव्ययं तम् उमापतिं लोकगुरुं नमामि नमामि दारिद्र्यविदारणं तं नमामि रोगापहरं नमामि
नमामि कल्याणम् अचिन्त्यरूपं नमामि विश्वोद्भवबीजरूपम् नमामि विश्वस्थितिकारणं तं नमामि संहारकरं नमामि
नमामि गौरीप्रियम् अव्ययं तं नमामि नित्यं क्षरम् अक्षरं तम् नमामि चिद्रूपम् अमेयभावं त्रिलोचनं तं शिरसा नमामि
नमामि कारुण्यकरं भवस्य भयंकरं वापि सदा नमामि नमामि दातारम् अभीप्सितानां नमामि सोमेशम् उमेशम् आदौ
नमामि वेदत्रयलोचनं तं नमामि मूर्तित्रयवर्जितं तम् नमामि पुण्यं सदसद्व्यतीतं नमामि तं पापहरं नमामि
नमामि विश्वस्य हिते रतं तं नमामि रूपाणि बहूनि धत्ते यो विश्वगोप्ता सदसत्प्रणेता नमामि तं विश्वपतिं नमामि
यज्ञेश्वरं संप्रति हव्यकव्यं तथा गतिं लोकसदाशिवो यः आराधितो यश् च ददाति सर्वं नमामि दानप्रियम् इष्टदेवम्
नमामि सोमेश्वरम् अस्वतन्त्रम् उमापतिं तं विजयं नमामि नमामि विघ्नेश्वरनन्दिनाथं पुत्रप्रियं तं शिरसा नमामि
नमामि देवं भवदुःखशोक विनाशनं चन्द्रधरं नमामि नमामि गङ्गाधरम् ईशम् ईड्यम् उमाधवं देववरं नमामि
नमाम्य् अजादीशपुरंदरादि सुरासुरैर् अर्चितपादपद्मम् नमामि देवीमुखवादनानाम् ईक्षार्थम् अक्षित्रितयं य ऐच्छत्
पञ्चामृतैर् गन्धसुधूपदीपैर् विचित्रपुष्पैर् विविधैश् च मन्त्रैः अन्नप्रकारैः सकलोपचारैः संपूजितं सोमम् अहं नमामि
ततः स भगवान् आह रामं शंभुः सलक्ष्मणम् वरान् वृणीष्व भद्रं ते रामः प्राह वृषध्वजम्
स्तोत्रेणानेन ये भक्त्या तोष्यन्ति त्वां सुरोत्तम तेषां सर्वाणि कार्याणि सिद्धिं यान्तु महेश्वर
येषां च पितरः शंभो पतिता नरकार्णवे तेषां पिण्डादिदानेन पूता यान्तु त्रिविष्टपम्
जन्मप्रभृति पापानि मनोवाक्कायिकं त्व् अघम् अत्र तु स्नानमात्रेण तत् सद्यो नाशम् आप्नुयात्
अत्र ये भक्तितः शंभो ददत्य् अर्थिभ्य अण्व् अपि सर्वं तद् अक्षयं शंभो दातॄणां फलकृद् भवेत्
एवम् अस्त्व् इति तं रामं शंकरो हृषितो ऽब्रवीत् गते तस्मिन् सुरश्रेष्ठे रामो ऽप्य् अनुचरैः सह
गौतमी यत्र चोत्पन्ना शनैस् तं देशम् अभ्यगात् ततः प्रभृति तत् तीर्थं रामतीर्थम् उदाहृतम्
दयालोर् अपतत् तत्र लक्ष्मणस्य कराच् छरः तद् बाणतीर्थम् अभवत् सर्वापद्विनिवारणम्
यत्र सौमित्रिणा स्नानं शंकरस्यार्चनं कृतम् तत् तीर्थं लक्ष्मणं जातं तथा सीतासमुद्भवम्
नानाविधाशेषपापसंघनिर्मूलनक्षमम् यद् अङ्घ्रिसंगाद् अभवद् गङ्गा त्रैलोक्यपावनी
स यत्र स्नानम् अकरोत् तद् वैशिष्ट्यं किम् उच्यते तद् रामतीर्थसदृशं तीर्थं क्वापि न विद्यते
पुत्रतीर्थम् इति ख्यातं पुण्यतीर्थं तद् उच्यते सर्वान् कामान् अवाप्नोति यन्महिम्नः श्रुतेर् अपि
तस्य स्वरूपं वक्ष्यामि शृणु यत्नेन नारद दितेः पुत्राश् च दनुजाः परिक्षीणा यदाभवन् अदितेस् तु सुता ज्येष्ठाः सर्वभावेन नारद
क्षीणाः सुता आवयोर् एव भद्रे किं कुर्महे कर्म लोके गरीयः पश्यादितेर् वंशम् अभिन्नम् उत्तमं सौराज्ययुक्तं यशसा जयश्रिया
जितारिम् अभ्युन्नतकीर्तिधर्मं मच्चित्तसंहर्षविनाशदक्षम् समानभर्तृत्वसमानधर्मे समानगोत्रे ऽपि समानरूपे
न जीवयेयं श्रियम् उन्नतिं च जीर्णास्मि दृष्ट्वा त्व् अदितिप्रसूतान् काम् अप्य् अवस्थाम् अनुयामि दुःस्था ऽदितेर् विलोक्याथ परां समृद्धिम्
एवं ब्रुवाणाम् अतिदीनवक्त्रां विनिश्वसन्तीं परमेष्ठिपुत्रः कृताभिपूजो विगतश्रमस् तां स सान्त्वयन्न् आह मनोभिरामाम्
खेदो न कार्यः समभीप्सितं यत् तत् प्राप्यते पुण्यत एव भद्रे तत्साधनं वेत्ति महानुभावः प्रजापतिस् ते स तु वक्ष्यतीति