दृष्ट्वाब्रवीत् सुतं राजा आशीर्भिर् अभिनन्द्य च
कृतकृत्यो ऽसि भद्रं ते तारितो ऽहं त्वयानघ धन्यः स पुत्रो लोके ऽस्मिन् पितॄणां यस् तु तारकः
ततः सुरगणाः प्रोचुर् देवानां कार्यसिद्धये रामं च पुरुषश्रेष्ठं गच्छ तात यथासुखम् ततस् तद्वचनं श्रुत्वा रामस् तान् अब्रवीत् सुरान्
गुरौ पितरि मे देवाः किं कृत्यम् अवशिष्यते
नदी न गङ्गया तुल्या न त्वया सदृशः सुतः न शिवेन समो देवो न तारेण समो मनुः
त्वया राम गुरूणां च कार्यं सर्वम् अनुष्ठितम् तारिताः पितरो राम त्वया पुत्रेण मानद गच्छन्तु सर्वे स्वस्थानं त्वं च गच्छ यथासुखम्
तद् देववचनाद् धृष्टः सीतया लक्ष्मणाग्रजः तद् दृष्ट्वा गङ्गामाहात्म्यं विस्मितो वाक्यम् अब्रवीत्
अहो गङ्गाप्रभावो ऽयं त्रैलोक्ये नोपमीयते वयं धन्या यतो गङ्गा दृष्टास्माभिस् त्रिपावनी
हर्षेण महता युक्तो देवं स्थाप्य महेश्वरम् तं षोडशभिर् ईशानम् उपचारैः प्रयत्नतः
संपूज्यावरणैर् युक्तं षट्त्रिंशत्कलम् ईश्वरम् कृताञ्जलिपुटो भूत्वा रामस् तुष्टाव शंकरम्
नमामि शंभुं पुरुषं पुराणं नमामि सर्वज्ञम् अपारभावम् नमामि रुद्रं प्रभुम् अक्षयं तं नमामि शर्वं शिरसा नमामि
नमामि देवं परम् अव्ययं तम् उमापतिं लोकगुरुं नमामि नमामि दारिद्र्यविदारणं तं नमामि रोगापहरं नमामि
नमामि कल्याणम् अचिन्त्यरूपं नमामि विश्वोद्भवबीजरूपम् नमामि विश्वस्थितिकारणं तं नमामि संहारकरं नमामि
नमामि गौरीप्रियम् अव्ययं तं नमामि नित्यं क्षरम् अक्षरं तम् नमामि चिद्रूपम् अमेयभावं त्रिलोचनं तं शिरसा नमामि
नमामि कारुण्यकरं भवस्य भयंकरं वापि सदा नमामि नमामि दातारम् अभीप्सितानां नमामि सोमेशम् उमेशम् आदौ
नमामि वेदत्रयलोचनं तं नमामि मूर्तित्रयवर्जितं तम् नमामि पुण्यं सदसद्व्यतीतं नमामि तं पापहरं नमामि
नमामि विश्वस्य हिते रतं तं नमामि रूपाणि बहूनि धत्ते यो विश्वगोप्ता सदसत्प्रणेता नमामि तं विश्वपतिं नमामि
यज्ञेश्वरं संप्रति हव्यकव्यं तथा गतिं लोकसदाशिवो यः आराधितो यश् च ददाति सर्वं नमामि दानप्रियम् इष्टदेवम्
नमामि सोमेश्वरम् अस्वतन्त्रम् उमापतिं तं विजयं नमामि नमामि विघ्नेश्वरनन्दिनाथं पुत्रप्रियं तं शिरसा नमामि
नमामि देवं भवदुःखशोक विनाशनं चन्द्रधरं नमामि नमामि गङ्गाधरम् ईशम् ईड्यम् उमाधवं देववरं नमामि
नमाम्य् अजादीशपुरंदरादि सुरासुरैर् अर्चितपादपद्मम् नमामि देवीमुखवादनानाम् ईक्षार्थम् अक्षित्रितयं य ऐच्छत्
पञ्चामृतैर् गन्धसुधूपदीपैर् विचित्रपुष्पैर् विविधैश् च मन्त्रैः अन्नप्रकारैः सकलोपचारैः संपूजितं सोमम् अहं नमामि
ततः स भगवान् आह रामं शंभुः सलक्ष्मणम् वरान् वृणीष्व भद्रं ते रामः प्राह वृषध्वजम्
स्तोत्रेणानेन ये भक्त्या तोष्यन्ति त्वां सुरोत्तम तेषां सर्वाणि कार्याणि सिद्धिं यान्तु महेश्वर
येषां च पितरः शंभो पतिता नरकार्णवे तेषां पिण्डादिदानेन पूता यान्तु त्रिविष्टपम्
जन्मप्रभृति पापानि मनोवाक्कायिकं त्व् अघम् अत्र तु स्नानमात्रेण तत् सद्यो नाशम् आप्नुयात्
अत्र ये भक्तितः शंभो ददत्य् अर्थिभ्य अण्व् अपि सर्वं तद् अक्षयं शंभो दातॄणां फलकृद् भवेत्
एवम् अस्त्व् इति तं रामं शंकरो हृषितो ऽब्रवीत् गते तस्मिन् सुरश्रेष्ठे रामो ऽप्य् अनुचरैः सह
गौतमी यत्र चोत्पन्ना शनैस् तं देशम् अभ्यगात् ततः प्रभृति तत् तीर्थं रामतीर्थम् उदाहृतम्
दयालोर् अपतत् तत्र लक्ष्मणस्य कराच् छरः तद् बाणतीर्थम् अभवत् सर्वापद्विनिवारणम्