ब्रह्मपुराणम्
श्रूयते सर्वशास्त्रेषु यद् राम शृणु यत्नतः यदन्नः पुरुषो राजंस् तदन्नास् तस्य देवताः
पिण्डे निपतिते भूमौ नापश्यत् पितरं तदा शवं च पतितं यत्र शवतीर्थम् अनुत्तमम्
महापातकसंघातविघातकृद् अनुस्मृतिः तत्रागच्छंल् लोकपाला रुद्रादित्यास् तथाश्विनौ
स्वं स्वं विमानम् आरूढास् तेषां मध्ये ऽतिदीप्तिमान् विमानवरम् आरूढः स्तूयमानश् च किंनरैः
आदित्यसदृशाकारस् तेषां मध्ये बभौ पिता तम् अदृष्ट्वा स्वपितरं देवान् दृष्ट्वा विमानिनः
कृताञ्जलिपुटो रामः पिता मे क्वेत्य् अभाषत इति दिव्याभवद् वाणी रामं संबोध्य सीतया
तिसृभिर् ब्रह्महत्याभिर् मुक्तो दशरथो नृपः वृतं पश्य सुरैस् तात देवा अप्य् ऊचिरे च तम्
धन्यो ऽसि कृतकृत्यो ऽसि राम स्वर्गं गतः पिता नानानिरयसंघातात् पूर्वजान् उद्धरेत् तु यः
स धन्यो ऽलंकृतं तेन कृतिना भुवनत्रयम् एनं पश्य महाबाहो मुक्तपापं रविप्रभम्
सर्वसंपत्तियुक्तो ऽपि पापी दग्धद्रुमोपमः निष्किंचनो ऽपि सुकृती दृश्यते चन्द्रमौलिवत्
दृष्ट्वाब्रवीत् सुतं राजा आशीर्भिर् अभिनन्द्य च
कृतकृत्यो ऽसि भद्रं ते तारितो ऽहं त्वयानघ धन्यः स पुत्रो लोके ऽस्मिन् पितॄणां यस् तु तारकः
ततः सुरगणाः प्रोचुर् देवानां कार्यसिद्धये रामं च पुरुषश्रेष्ठं गच्छ तात यथासुखम् ततस् तद्वचनं श्रुत्वा रामस् तान् अब्रवीत् सुरान्
गुरौ पितरि मे देवाः किं कृत्यम् अवशिष्यते
नदी न गङ्गया तुल्या न त्वया सदृशः सुतः न शिवेन समो देवो न तारेण समो मनुः
त्वया राम गुरूणां च कार्यं सर्वम् अनुष्ठितम् तारिताः पितरो राम त्वया पुत्रेण मानद गच्छन्तु सर्वे स्वस्थानं त्वं च गच्छ यथासुखम्
तद् देववचनाद् धृष्टः सीतया लक्ष्मणाग्रजः तद् दृष्ट्वा गङ्गामाहात्म्यं विस्मितो वाक्यम् अब्रवीत्
अहो गङ्गाप्रभावो ऽयं त्रैलोक्ये नोपमीयते वयं धन्या यतो गङ्गा दृष्टास्माभिस् त्रिपावनी
हर्षेण महता युक्तो देवं स्थाप्य महेश्वरम् तं षोडशभिर् ईशानम् उपचारैः प्रयत्नतः
संपूज्यावरणैर् युक्तं षट्त्रिंशत्कलम् ईश्वरम् कृताञ्जलिपुटो भूत्वा रामस् तुष्टाव शंकरम्
नमामि शंभुं पुरुषं पुराणं नमामि सर्वज्ञम् अपारभावम् नमामि रुद्रं प्रभुम् अक्षयं तं नमामि शर्वं शिरसा नमामि
नमामि देवं परम् अव्ययं तम् उमापतिं लोकगुरुं नमामि नमामि दारिद्र्यविदारणं तं नमामि रोगापहरं नमामि
नमामि कल्याणम् अचिन्त्यरूपं नमामि विश्वोद्भवबीजरूपम् नमामि विश्वस्थितिकारणं तं नमामि संहारकरं नमामि
नमामि गौरीप्रियम् अव्ययं तं नमामि नित्यं क्षरम् अक्षरं तम् नमामि चिद्रूपम् अमेयभावं त्रिलोचनं तं शिरसा नमामि
नमामि कारुण्यकरं भवस्य भयंकरं वापि सदा नमामि नमामि दातारम् अभीप्सितानां नमामि सोमेशम् उमेशम् आदौ
नमामि वेदत्रयलोचनं तं नमामि मूर्तित्रयवर्जितं तम् नमामि पुण्यं सदसद्व्यतीतं नमामि तं पापहरं नमामि
नमामि विश्वस्य हिते रतं तं नमामि रूपाणि बहूनि धत्ते यो विश्वगोप्ता सदसत्प्रणेता नमामि तं विश्वपतिं नमामि
यज्ञेश्वरं संप्रति हव्यकव्यं तथा गतिं लोकसदाशिवो यः आराधितो यश् च ददाति सर्वं नमामि दानप्रियम् इष्टदेवम्
नमामि सोमेश्वरम् अस्वतन्त्रम् उमापतिं तं विजयं नमामि नमामि विघ्नेश्वरनन्दिनाथं पुत्रप्रियं तं शिरसा नमामि
नमामि देवं भवदुःखशोक विनाशनं चन्द्रधरं नमामि नमामि गङ्गाधरम् ईशम् ईड्यम् उमाधवं देववरं नमामि