सौमित्रे नूनम् अस्माभिर् न ब्राह्मणमुखे हुतम् अवज्ञया महीदेवांस् तर्पयन्त्य् अर्चयन्ति न
ते ये लक्ष्मण जायन्ते सर्वदैव बुभुक्षिताः स्नात्वा देवान् अथाभ्यर्च्य होतव्यश् च हुताशनः ततः स्वसमये देवो विधास्यत्य् अशनं तु नौ
भ्रात्रोः संजल्पतोर् एवं पश्यतोः कर्मणो गतिम् शनैर् दशरथो राजा तं देशम् उपजग्मिवान्
तं दृष्ट्वा लक्ष्मणः शीघ्रं तिष्ठ तिष्ठेति चाब्रवीत् धनुर् आकृष्य कोपेन रक्षस् त्वं दानवो ऽथवा
आसन्नं च पुनर् दृष्ट्वा याहि याह्य् अत्र पुण्यभाक् रामो दाशरथी राजा धर्मभाक् पश्य वर्तते
गुरुभक्तः सत्यसंधो देवब्राह्मणसेवकः त्रैलोक्यरक्षादक्षो ऽसौ वर्तते यत्र राघवः
न तत्र त्वादृशाम् अस्ति प्रवेशः पापकर्मणाम् यदि प्रविशसे पाप ततो वधम् अवाप्स्यसि
तत् पुत्रवचनं श्रुत्वा शनैर् आहूय वाचया उवाचाधोमुखो भूत्वा स्नुषां पुत्रौ कृताञ्जलिः मुहुर् अन्तर् विनिध्यायन् गतिं दुष्कृतकर्मणः
अहं दशरथो राजा पुत्रौ मे शृणुतं वचः तिसृभिर् ब्रह्महत्याभिर् वृतो ऽहं दुःखम् आगतः छिन्नं पश्यत मे देहं नरकेषु च पातितम्
ततः कृताञ्जली रामः सीतया लक्ष्मणेन च भूमौ प्रणेमुस् ते सर्वे वचनं चैतद् अब्रुवन्
कस्येदं कर्मणस् तात फलं नृपतिसत्तम
स च प्राह यथावृत्तं ब्रह्महत्यात्रयं तथा
निष्कृतिर् ब्रह्महन्तॄणां पुत्रौ क्वापि न विद्यते
ततो दुःखेन महतावृताः सर्वे भुवं गताः राजानं वनवासं च मातरं पितरं तथा
दुःखागमं कर्मगतिं नरके पातनं तथा एवमाद्य् अथ संस्मृत्य मुमोह नृपतेः सुतः विसंज्ञं नृपतिं दृष्ट्वा सीता वाक्यम् अथाब्रवीत्
न शोचन्ति महात्मानस् त्वादृशा व्यसनागमे चिन्तयन्ति प्रतीकारं दैव्यम् अप्य् अथ मानुषम्
शोचद्भिर् युगसाहस्रं विपत्तिर् नैव तीर्यते व्यामोहम् आप्नुवन्तीह न कदाचिद् विचक्षणाः
किम् अनेनात्र दुःखेन निष्फलेन जनेश्वर देहि हत्यां प्रथमतो या जाता ह्य् अतिभीषणा
पितृभक्तः पुण्यशीलो वेदवेदाङ्गपारगः अनागा यो हतो विप्रस् तत्पापस्यात्र निष्कृतिम्
आचरामि यथाशास्त्रं मा शोकं कुरुतं युवाम् द्वितीयां लक्ष्मणो हत्यां गृह्णातु त्व् अपरां भवान्
एतद् धर्मयुतं वाक्यं सीतया भाषितं दृढम् तथेति चाहतुर् उभौ ततो दशरथो ऽब्रवीत्
त्वं हि ब्रह्मविदः कन्या जनकस्य त्व् अयोनिजा भार्या रामस्य किं चित्रं यद् युक्तम् अनुभाषसे
न कोपि भवतां किंतु श्रमः स्वल्पो ऽपि विद्यते गौतम्यां स्नानदानेन पिण्डनिर्वपणेन च
तिसृभिर् ब्रह्महत्याभिर् मुक्तो यामि त्रिविष्टपम् त्वया जनकसंभूते स्वकुलोचितम् ईरितम्
प्रापयन्ति परं पारं भवाब्धेः कुलयोषितः गोदावर्याः प्रसादेन किं नामास्त्य् अत्र दुर्लभम्
तथेति क्रियमाणे तु पिण्डदानाय शत्रुहा नैवापश्यद् भक्ष्यभोज्यं ततो लक्ष्मणम् अब्रवीत्
लक्ष्मणः प्राह विनयाद् इङ्गुद्याश् च फलानि च सन्ति तेषां च पिण्याकम् आनीतं तत्क्षणाद् इव
पिण्याकेनाथ गङ्गायां पिण्डं दातुं तथा पितुः मनः कुर्वंस् ततो रामो मन्दो ऽभूद् दुःखितस् तदा
दैवी वाग् अभवत् तत्र दुःखं त्यज नृपात्मज राज्यभ्रष्टो वनं प्राप्तः किं वै निष्किंचनो भवान्
अशठो धर्मनिरतो न शोचितुम् इहार्हसि वित्तशाठ्येन यो धर्मं करोति स तु पातकी