शोष्यते दश्यते भूयो दह्यते च निमज्ज्यते एवमादिषु घोरेषु नरकेषु स पच्यते
रामो ऽपि गच्छन्न् अध्वानं चित्रकूटम् अथागमत् तत्रैव त्रीणि वर्षाणि व्यतीतानि महामते
पुनः स दक्षिणाम् आशाम् आक्रामद् दण्डकं वनम् विख्यातं त्रिषु लोकेषु देशानां तद् धि पुण्यदम्
प्राविशत् तन् महारण्यं भीषणं दैत्यसेवितम् तद्भयाद् ऋषिभिस् त्यक्तं हत्वा दैत्यांस् तु राक्षसान्
विचरन् दण्डकारण्ये ऋषिसेव्यम् अथाकरोत् तत्रेदं वृत्तम् आख्यास्ये शृणु नारद यत्नतः
तावच् छनैस् त्व् अगाद् रामो यावद् योजनपञ्चकम् गौतमीं समनुप्राप्तो राजापि नरके स्थितः
यमः स्वकिंकरान् आह रामो दशरथात्मजः गौतमीम् अभितो याति पितरं तस्य धीमतः
आकर्षन्त्व् अथ राजानं नरकान् नात्र संशयः उत्तीर्य गौतमीं याति यावद् योजनपञ्चकम्
रामस् तावत् तस्य पिता नरके नैव पच्यताम् यद् एतन् मद्वचः पुण्यं न कुर्युर् यदि दूतकाः
ततश् च नरके घोरे यूयं सर्वे निमज्जथ या काप्य् उक्ता परा शक्तिः शिवस्य समवायिनी
ताम् एव गौतमीं सन्तो वदन्त्य् अम्भःस्वरूपिणीम् हरिब्रह्ममहेशानां मान्या वन्द्या च सैव यत्
निस्तीर्यते न केनापि तद् अतिक्रमजं त्व् अघम् पापिनो ऽप्य् आत्मजः कश्चिद् यश् च गङ्गाम् अनुस्मरेत्
सो ऽनेकदुर्गनिरयान् निर्गतो मुक्ततां व्रजेत् किं पुनस् तादृशः पुत्रो गौतमीनिकटे स्थितः
यस्यासौ नरके पक्तुं न कैरपि हि शक्यते दक्षिणाशापतेर् वाक्यं निशम्य यमकिंकराः
नरके पच्यमानं तम् अयोध्याधिपतिं नृपम् उत्तार्य घोरनरकाद् वचनं चेदम् अब्रुवन्
धन्यो ऽसि नृपशार्दूल यस्य पुत्रः स तादृशः इह चामुत्र विश्रान्तिः सुपुत्रः केन लभ्यते
स विश्रान्तः शनै राजा किंकरान् वाक्यम् अब्रवीत्
नरकेष्व् अथ घोरेषु पच्यमानः पुनः पुनः कथं त्व् आकर्षितः शीघ्रं तन् मे वक्तुम् इहार्हथ
तत्र कश्चिच् छान्तमना राजानम् इदम् अब्रवीत्
वेदशास्त्रपुराणादाव् एतद् गोप्यं प्रयत्नतः प्रकाश्यते तद् अपि ते सामर्थ्यं पुत्रतीर्थयोः
रामस् तव सुतः श्रीमान् गौतमीतीरम् आगतः तस्मात् त्वं नरकाद् घोराद् आकृष्टो ऽसि नरोत्तम
यदि त्वां तत्र गौतम्यां स्मरेद् रामः सलक्ष्मणः स्नानं कृत्वाथ पिण्डादि ते दद्यात् स नृपोत्तम ततस् त्वं सर्वपापेभ्यो मुक्तो यासि त्रिविष्टपम्
तत्र गत्वा भवद्वाक्यम् आख्यास्ये स्वसुतौ प्रति भवन्त एव शरणम् अनुज्ञां दातुम् अर्हथ
तद् राजवचनं श्रुत्वा कृपया यमकिंकराः आज्ञां च प्रददुस् तस्मै राजा प्रागात् सुतौ प्रति
भीषणं यातनादेहम् आपन्नो निःश्वसन् मुहुः निरीक्ष्य स्वं लज्जमानः कृतं कर्म च संस्मरन्
स्वेच्छया विहरन् गङ्गाम् आससाद च राघवः गौतम्यास् तटम् आश्रित्य रामो लक्ष्मण एव च
सीतया सह वैदेह्या सस्नौ चैव यथाविधि नैव तत्राभवद् भोज्यं भक्ष्यं वा गौतमीतटे
तद्दिने तत्र वसतां गौतमीतीरवासिनाम् तद् दृष्ट्वा दुःखितो भ्राता लक्ष्मणो रामम् अब्रवीत्
पुत्रौ दशरथस्यावां तवापि बलम् ईदृशम् नास्ति भोज्यम् अथास्माकं गङ्गातीरनिवासिनाम्
भ्रातर् यद् विहितं कर्म नैव तच् चान्यथा भवेत् पृथिव्याम् अन्नपूर्णायां वयम् अन्नाभिलाषिणः