राजा दशरथः श्रीमान् विवाहम् अकरोन् मुने ततो बहुतिथे काले राज्यं तस्य प्रयच्छति
नृपतौ सर्वलोकानाम् अनुमत्या गुरोर् अपि मन्थरात्मकदुर्दैवप्रेरिता मत्सराकुला
कैकेयी विघ्नम् आतस्थे वनप्रव्राजनं तथा भरतस्य च तद् राज्यं राजा नैव च दत्तवान्
पितरं सत्यवाक्यं तं कुर्वन् रामो महावनम् विवेश सीतया सार्धं तथा सौमित्रिणा सह
सतां च मानसं शुद्धं स विवेश स्वकैर् गुणैः तस्मिन् विनिर्गते रामे वनवासाय दीक्षिते
समं लक्ष्मणसीताभ्यां राज्यतृष्णाविवर्जिते तं रामं चापि सौमित्रिं सीतां च गुणशालिनीम्
दुःखेन महताविष्टो ब्रह्मशापं च संस्मरन् तदा दशरथो राजा प्राणांस् तत्याज दुःखितः
कृतकर्मविपाकेन राजा नीतो यमानुगैः तस्मै राज्ञे महाप्राज्ञ यावत् स्थावरजङ्गमे
यमसद्मन्य् अनेकानि तामिस्रादीनि नारद नरकाण्य् अथ घोराणि भीषणानि बहूनि च
तत्र क्षिप्तस् तदा राजा नरकेषु पृथक् पृथक् पच्यते छिद्यते राजा पिष्यते चूर्ण्यते तथा
शोष्यते दश्यते भूयो दह्यते च निमज्ज्यते एवमादिषु घोरेषु नरकेषु स पच्यते
रामो ऽपि गच्छन्न् अध्वानं चित्रकूटम् अथागमत् तत्रैव त्रीणि वर्षाणि व्यतीतानि महामते
पुनः स दक्षिणाम् आशाम् आक्रामद् दण्डकं वनम् विख्यातं त्रिषु लोकेषु देशानां तद् धि पुण्यदम्
प्राविशत् तन् महारण्यं भीषणं दैत्यसेवितम् तद्भयाद् ऋषिभिस् त्यक्तं हत्वा दैत्यांस् तु राक्षसान्
विचरन् दण्डकारण्ये ऋषिसेव्यम् अथाकरोत् तत्रेदं वृत्तम् आख्यास्ये शृणु नारद यत्नतः
तावच् छनैस् त्व् अगाद् रामो यावद् योजनपञ्चकम् गौतमीं समनुप्राप्तो राजापि नरके स्थितः
यमः स्वकिंकरान् आह रामो दशरथात्मजः गौतमीम् अभितो याति पितरं तस्य धीमतः
आकर्षन्त्व् अथ राजानं नरकान् नात्र संशयः उत्तीर्य गौतमीं याति यावद् योजनपञ्चकम्
रामस् तावत् तस्य पिता नरके नैव पच्यताम् यद् एतन् मद्वचः पुण्यं न कुर्युर् यदि दूतकाः
ततश् च नरके घोरे यूयं सर्वे निमज्जथ या काप्य् उक्ता परा शक्तिः शिवस्य समवायिनी
ताम् एव गौतमीं सन्तो वदन्त्य् अम्भःस्वरूपिणीम् हरिब्रह्ममहेशानां मान्या वन्द्या च सैव यत्
निस्तीर्यते न केनापि तद् अतिक्रमजं त्व् अघम् पापिनो ऽप्य् आत्मजः कश्चिद् यश् च गङ्गाम् अनुस्मरेत्
सो ऽनेकदुर्गनिरयान् निर्गतो मुक्ततां व्रजेत् किं पुनस् तादृशः पुत्रो गौतमीनिकटे स्थितः
यस्यासौ नरके पक्तुं न कैरपि हि शक्यते दक्षिणाशापतेर् वाक्यं निशम्य यमकिंकराः
नरके पच्यमानं तम् अयोध्याधिपतिं नृपम् उत्तार्य घोरनरकाद् वचनं चेदम् अब्रुवन्
धन्यो ऽसि नृपशार्दूल यस्य पुत्रः स तादृशः इह चामुत्र विश्रान्तिः सुपुत्रः केन लभ्यते
स विश्रान्तः शनै राजा किंकरान् वाक्यम् अब्रवीत्
नरकेष्व् अथ घोरेषु पच्यमानः पुनः पुनः कथं त्व् आकर्षितः शीघ्रं तन् मे वक्तुम् इहार्हथ
तत्र कश्चिच् छान्तमना राजानम् इदम् अब्रवीत्
वेदशास्त्रपुराणादाव् एतद् गोप्यं प्रयत्नतः प्रकाश्यते तद् अपि ते सामर्थ्यं पुत्रतीर्थयोः