वदन्न् इति सुतौ सोष्णं निश्वसन् ग्लपिताधरः पुत्रौ समर्पयाम् आस विश्वामित्रस्य शास्त्रकृत्
तथेत्य् उक्त्वा दशरथं नमस्य च पुनः पुनः जग्मतू रक्षणार्थाय विश्वामित्रेण तौ मुदा
ततः प्रहृष्टः स मुनिर् मुदा प्रादात् तदोभयोः माहेश्वरीं महाविद्यां धनुर्विद्यापुरःसराम्
शास्त्रीम् आस्त्रीं लौकिकीं च रथविद्यां गजोद्भवाम् अश्वविद्यां गदाविद्यां मन्त्राह्वानविसर्जने
सर्वविद्याम् अथावाप्य उभौ तौ रामलक्ष्मणौ वनौकसां हितार्थाय जघ्नतुस् ताटकां वने
अहल्यां शापनिर्मुक्तां पादस्पर्शाच् च चक्रतुः यज्ञविध्वंसनायाताञ् जघ्नतुस् तत्र राक्षसान्
कृतविद्यौ धनुष्पाणी चक्रतुर् यज्ञरक्षणम् ततो महामखे वृत्ते विश्वामित्रो मुनीश्वरः
पुत्राभ्यां सहितो राज्ञो जनकं द्रष्टुम् अभ्यगात् चित्राम् अदर्शयत् तत्र राजमध्ये नृपात्मजः
रामः सौमित्रिसहितो धनुर्विद्यां गुरोर् मताम् तत्प्रीतो जनकः प्रादात् सीतां लक्ष्मीम् अयोनिजाम्
तथैव लक्ष्मणस्यापि भरतस्यानुजस्य च शत्रुघ्नभरतादीनां वसिष्ठादिमते स्थितः
राजा दशरथः श्रीमान् विवाहम् अकरोन् मुने ततो बहुतिथे काले राज्यं तस्य प्रयच्छति
नृपतौ सर्वलोकानाम् अनुमत्या गुरोर् अपि मन्थरात्मकदुर्दैवप्रेरिता मत्सराकुला
कैकेयी विघ्नम् आतस्थे वनप्रव्राजनं तथा भरतस्य च तद् राज्यं राजा नैव च दत्तवान्
पितरं सत्यवाक्यं तं कुर्वन् रामो महावनम् विवेश सीतया सार्धं तथा सौमित्रिणा सह
सतां च मानसं शुद्धं स विवेश स्वकैर् गुणैः तस्मिन् विनिर्गते रामे वनवासाय दीक्षिते
समं लक्ष्मणसीताभ्यां राज्यतृष्णाविवर्जिते तं रामं चापि सौमित्रिं सीतां च गुणशालिनीम्
दुःखेन महताविष्टो ब्रह्मशापं च संस्मरन् तदा दशरथो राजा प्राणांस् तत्याज दुःखितः
कृतकर्मविपाकेन राजा नीतो यमानुगैः तस्मै राज्ञे महाप्राज्ञ यावत् स्थावरजङ्गमे
यमसद्मन्य् अनेकानि तामिस्रादीनि नारद नरकाण्य् अथ घोराणि भीषणानि बहूनि च
तत्र क्षिप्तस् तदा राजा नरकेषु पृथक् पृथक् पच्यते छिद्यते राजा पिष्यते चूर्ण्यते तथा
शोष्यते दश्यते भूयो दह्यते च निमज्ज्यते एवमादिषु घोरेषु नरकेषु स पच्यते
रामो ऽपि गच्छन्न् अध्वानं चित्रकूटम् अथागमत् तत्रैव त्रीणि वर्षाणि व्यतीतानि महामते
पुनः स दक्षिणाम् आशाम् आक्रामद् दण्डकं वनम् विख्यातं त्रिषु लोकेषु देशानां तद् धि पुण्यदम्
प्राविशत् तन् महारण्यं भीषणं दैत्यसेवितम् तद्भयाद् ऋषिभिस् त्यक्तं हत्वा दैत्यांस् तु राक्षसान्
विचरन् दण्डकारण्ये ऋषिसेव्यम् अथाकरोत् तत्रेदं वृत्तम् आख्यास्ये शृणु नारद यत्नतः
तावच् छनैस् त्व् अगाद् रामो यावद् योजनपञ्चकम् गौतमीं समनुप्राप्तो राजापि नरके स्थितः
यमः स्वकिंकरान् आह रामो दशरथात्मजः गौतमीम् अभितो याति पितरं तस्य धीमतः
आकर्षन्त्व् अथ राजानं नरकान् नात्र संशयः उत्तीर्य गौतमीं याति यावद् योजनपञ्चकम्
रामस् तावत् तस्य पिता नरके नैव पच्यताम् यद् एतन् मद्वचः पुण्यं न कुर्युर् यदि दूतकाः
ततश् च नरके घोरे यूयं सर्वे निमज्जथ या काप्य् उक्ता परा शक्तिः शिवस्य समवायिनी