वज्राद् अपि कठोरं वा जीवितं तम् अपश्यतोः शीघ्रं न यान्ति यत् प्राणास् तदेकायत्तजीवयोः
एवं बहुविधा वाचो वृद्धयोर् वदतोर् वने तदा दशरथो राजा शनैस् तं देशम् अभ्यगात्
पादसंचारशब्देन मेनाते सुतम् आगतम्
कुतो वत्स चिरात् प्राप्तस् त्वं दृष्टिस् त्वं परायणम् न ब्रूषे किंतु रुष्टो ऽसि वृद्धयोर् अन्धयोः सुतः
सशल्य इव दुःखार्तः शोचन् दुष्कृतम् आत्मनः स भीत इव राजेन्द्रस् ताव् उवाचाथ नारद
उदपानं च कुरुतां तच् छ्रुत्वा नृपभाषितम् नायं वक्ता सुतो ऽस्माकं को भवांस् तत् पुरा वद
पश्चात् पिबावः पानीयं ततो राजाब्रवीच् च तौ
तत्र तिष्ठति वां पुत्रो यत्र वारिसमाश्रयः
तच् छ्रुत्वोचतुर् आर्तौ तौ सत्यं ब्रूहि न चान्यथा आचचक्षे ततो राजा सर्वम् एव यथातथम्
ततस् तु पतितौ वृद्धौ तत्रावां नय मा स्पृश ब्रह्मघ्नस्पर्शनं पापं न कदाचिद् विनश्यति
निन्ये वै श्रवणं वृद्धं सभार्यं नृपसत्तमः यत्रासौ पतितः पुत्रस् तं स्पृष्ट्वा तौ विलेपतुः
यथा पुत्रवियोगेन मृत्युर् नौ विहितस् तथा त्वं चापि पाप पुत्रस्य वियोगान् मृत्युम् आप्स्यसि
एवं तु जल्पतोर् ब्रह्मन् गताः प्राणास् ततो नृपः अग्निना योजयाम् आस वृद्धौ च ऋषिपुत्रकम्
ततो जगाम नगरं दुःखितो नृपतिर् मुने वसिष्ठाय च तत् सर्वं न्यवेदयद् अशेषतः
नृपाणां सूर्यवंश्यानां वसिष्ठो हि परा गतिः वसिष्ठो ऽपि द्विजश्रेष्ठैः संमन्त्र्याह च निष्कृतिम्
गालवं वामदेवं च जाबालिम् अथ कश्यपम् एतान् अन्यान् समाहूय हयमेधाय यत्नतः
यजस्व हयमेधैश् च बहुभिर् बहुदक्षिणैः
अकरोद् धयमेधांश् च राजा दशरथो द्विजैः एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी
पूतं शरीरम् अभवद् राज्ञो दशरथस्य हि व्यवहार्यश् च भविता भविष्यन्ति तथा सुताः ज्येष्ठपुत्रप्रसादेन राजापापो भविष्यति
ततो बहुतिथे काले ऋष्यशृङ्गान् मुनीश्वरात् देवानां कार्यसिद्ध्यर्थं सुता आसन् सुरोपमाः
कौशल्यायां तथा रामः सुमित्रायां च लक्ष्मणः शत्रुघ्नश् चापि कैकेय्यां भरतो मतिमत्तरः
ते सर्वे मतिमन्तश् च प्रिया राज्ञो वशे स्थिताः तं राजानम् ऋषिः प्राप्य विश्वामित्रः प्रजापतिः
रामं च लक्ष्मणं चापि अयाचत महामते यज्ञसंरक्षणार्थाय ज्ञाततन्महिमा मुनिः
चिरप्राप्तसुतो वृद्धो राजा नैवेत्य् अभाषत
महता दैवयोगेन कथंचिद् वार्धके मुने जाताव् आनन्दसंदोहदायकौ मम बालकौ
सशरीरम् इदं राज्यं दास्ये नैव सुताव् इमौ
वसिष्ठेन तदा प्रोक्तो राजा दशरथस् त्व् इति
रघवः प्रार्थनाभङ्गं न राजन् क्वापि शिक्षिताः
रामं च लक्ष्मणं चैव कथंचिद् अवदन् नृपः
विश्वामित्रस्य ब्रह्मर्षेः कुरुतां यज्ञरक्षणम्