हस्ते गृहीत्वा कलशं जगाम ऋषिपुत्रकः स ऋषिर् न तु राजानं जानाति नृपतिर् द्विजम्
उभौ सरभसौ तत्र द्विजो वारि समाविशत् सत्वरं कलशे न्युब्जे वारि गृह्णन्तम् आशुगैः
द्विजं राजा द्विपं मत्वा विव्याध निशितैः शरैः वनद्विपो ऽपि भूपानाम् अवध्यस् तद् विदन्न् अपि
विव्याध तं नृपः कुर्यान् न किं किं विधिवञ्चितः स विद्धो मर्मदेशे तु दुःखितो वाक्यम् अब्रवीत्
केनेदं दुःखदं कर्म कृतं सद्ब्राह्मणस्य मे मैत्रो ब्राह्मण इत्य् उक्तो नापराधो ऽस्ति कश्चन
तद् एतद् वचनं श्रुत्वा मुनेर् आर्तस्य भूपतिः निश्चेष्टश् च निरुत्साहो शनैस् तं देशम् अभ्यगात्
तं तु दृष्ट्वा द्विजवरं ज्वलन्तम् इव तेजसा असाव् अप्य् अभवत् तत्र सशल्य इव मूर्च्छितः
आत्मानम् आत्मना कृत्वा स्थिरं राजाब्रवीद् इदम्
को भवान् द्विजशार्दूल किमर्थम् इह चागतः वद पापकृते मह्यं वद मे निष्कृतिं पराम्
ब्रह्महा वर्णिभिः किंतु श्वपचैर् अपि जातुचित् न स्प्रष्टव्यो महाबुद्धे द्रष्टव्यो न कदाचन
तद् राजवचनं श्रुत्वा मुनिपुत्रो ऽब्रवीद् वचः
उत्क्रमिष्यन्ति मे प्राणा अतो वक्ष्यामि किंचन स्वच्छन्दवृत्तिताज्ञाने विद्धि पाकं च कर्मणाम्
आत्मार्थं तु न शोचामि वृद्धौ तु पितरौ मम तयोः शुश्रूषकः कः स्याद् अन्धयोर् एकपुत्रयोः
विना मया महारण्ये कथं तौ जीवयिष्यतः ममाभाग्यम् अहो कीदृक् पितृशुश्रूषणे क्षतिः
जाता मे ऽद्य विना प्राणैर् हा विधे किं कृतं त्वया तथापि गच्छ तत्र त्वं गृहीतकलशस् त्वरन्
ताभ्यां देह्य् उदपानं त्वं यथा तौ न मरिष्यतः
इत्य् एवं ब्रुवतस् तस्य गताः प्राणा महावने विसृज्य सशरं चापम् आदाय कलशं नृपः
तत्रागात् स तु वेगेन यत्र वृद्धौ महावने वृद्धौ चापि तदा रात्रौ ताव् अन्योन्यं समूचतुः
उद्विग्नः कुपितो वा स्याद् अथवा भक्षितः कथम् न प्राप्तश् चावयोर् यष्टिः किं कुर्मः का गतिर् भवेत्
न कोपि तादृशः पुत्रो विद्यते सचराचरे यः पित्रोर् अन्यथा वाक्यं न करोत्य् अपि निन्दितः
वज्राद् अपि कठोरं वा जीवितं तम् अपश्यतोः शीघ्रं न यान्ति यत् प्राणास् तदेकायत्तजीवयोः
एवं बहुविधा वाचो वृद्धयोर् वदतोर् वने तदा दशरथो राजा शनैस् तं देशम् अभ्यगात्
पादसंचारशब्देन मेनाते सुतम् आगतम्
कुतो वत्स चिरात् प्राप्तस् त्वं दृष्टिस् त्वं परायणम् न ब्रूषे किंतु रुष्टो ऽसि वृद्धयोर् अन्धयोः सुतः
सशल्य इव दुःखार्तः शोचन् दुष्कृतम् आत्मनः स भीत इव राजेन्द्रस् ताव् उवाचाथ नारद
उदपानं च कुरुतां तच् छ्रुत्वा नृपभाषितम् नायं वक्ता सुतो ऽस्माकं को भवांस् तत् पुरा वद
पश्चात् पिबावः पानीयं ततो राजाब्रवीच् च तौ
तत्र तिष्ठति वां पुत्रो यत्र वारिसमाश्रयः
तच् छ्रुत्वोचतुर् आर्तौ तौ सत्यं ब्रूहि न चान्यथा आचचक्षे ततो राजा सर्वम् एव यथातथम्
ततस् तु पतितौ वृद्धौ तत्रावां नय मा स्पृश ब्रह्मघ्नस्पर्शनं पापं न कदाचिद् विनश्यति