भिन्नाक्षं तं रथं राजा न जानाति स संभ्रमात् राजान्तिके स्थिता सुभ्रूः कैकेय्याज्ञायि नारद
न ज्ञापितं तया राज्ञे स्वयम् आलोक्य सुव्रता भग्नम् अक्षं समालक्ष्य चक्रे हस्तं तदा स्वकम्
अक्षवन् मुनिशार्दूल तद् एतन् महद् अद्भुतम् रथेन रथिनां श्रेष्ठस् तया दत्तकरेण च
जितवान् दैत्यदनुजान् देवैः प्राप्य वरान् बहून् ततो देवैर् अनुज्ञातस् त्व् अयोध्यां पुनर् अभ्यगात्
स तु मध्ये महाराजो मार्गे वीक्ष्य तदा प्रियाम् कैकेय्याः कर्म तद् दृष्ट्वा विस्मयं परमं गतः
ततस् तस्यै वरान् प्रादात् त्रींस् तु नारद सा अपि अनुमान्य नृपप्रोक्तं कैकेयी वाक्यम् अब्रवीत्
त्वयि तिष्ठन्तु राजेन्द्र त्वया दत्ता वरा अमी
विभूषणानि राजेन्द्रो दत्त्वा स प्रियया सह रथेन विजयी राजा ययौ स्वनगरं सुखी
योषितां किम् अदेयं हि प्रियाणाम् उचितागमे स कदाचिद् दशरथो मृगयाशीलिभिर् वृतः
अटन्न् अरण्ये शर्वर्यां वारिबन्धम् अथाकरोत् सप्तव्यसनहीनेन भवितव्यं तु भूभुजा
इति जानन्न् अपि च तच् चकार तु विधेर् वशात् गर्तं प्रविश्य पानार्थम् आगतान् निशितैः शरैः
मृगान् हन्ति महाबाहुः शृणु कालविपर्ययम् गर्तं प्रविष्टे नृपतौ तस्मिन्न् एव नगोत्तमे
वृद्धो वैश्रवणो नाम न शृणोति न पश्यति तस्य भार्या तथाभूता ताव् अब्रूतां तदा सुतम्
आवां तृषार्तौ रात्रिश् च कृष्णा चापि प्रवर्तते वृद्धानां जीवितं कृत्स्नं बालस् त्वम् असि पुत्रक
अन्धानां बधिराणां च वृद्धानां धिक् च जीवितम् जराजर्जरदेहानां धिग् धिक् पुत्रक जीवितम्
तावत् पुंभिर् जीवितव्यं यावल् लक्ष्मीर् दृढं वपुः यावद् आज्ञाप्रतिहता तीर्थादाव् अन्यथा मृतिः
इत्य् एतद् वचनं श्रुत्वा वृद्धयोर् गुरुवत्सलः पुत्रः प्रोवाच तद् दुःखं गिरा मधुरया हरन्
मयि जीवति किं नाम युवयोर् दुःखम् ईदृशम् न हरत्य् आत्मजः पित्रोर् यश् चरित्रैर् मनोरुजम्
तेन किं तनुजेनेह कुलोद्वेगविधायिना
इत्य् उक्त्वा पितरौ नत्वा ताव् आश्वास्य महामनाः तरुस्कन्धे समारोप्य वृद्धौ च पितरौ तदा
हस्ते गृहीत्वा कलशं जगाम ऋषिपुत्रकः स ऋषिर् न तु राजानं जानाति नृपतिर् द्विजम्
उभौ सरभसौ तत्र द्विजो वारि समाविशत् सत्वरं कलशे न्युब्जे वारि गृह्णन्तम् आशुगैः
द्विजं राजा द्विपं मत्वा विव्याध निशितैः शरैः वनद्विपो ऽपि भूपानाम् अवध्यस् तद् विदन्न् अपि
विव्याध तं नृपः कुर्यान् न किं किं विधिवञ्चितः स विद्धो मर्मदेशे तु दुःखितो वाक्यम् अब्रवीत्
केनेदं दुःखदं कर्म कृतं सद्ब्राह्मणस्य मे मैत्रो ब्राह्मण इत्य् उक्तो नापराधो ऽस्ति कश्चन
तद् एतद् वचनं श्रुत्वा मुनेर् आर्तस्य भूपतिः निश्चेष्टश् च निरुत्साहो शनैस् तं देशम् अभ्यगात्
तं तु दृष्ट्वा द्विजवरं ज्वलन्तम् इव तेजसा असाव् अप्य् अभवत् तत्र सशल्य इव मूर्च्छितः
आत्मानम् आत्मना कृत्वा स्थिरं राजाब्रवीद् इदम्
को भवान् द्विजशार्दूल किमर्थम् इह चागतः वद पापकृते मह्यं वद मे निष्कृतिं पराम्
ब्रह्महा वर्णिभिः किंतु श्वपचैर् अपि जातुचित् न स्प्रष्टव्यो महाबुद्धे द्रष्टव्यो न कदाचन