तस्मिन् राजनि राज्ये तु स्थिते ऽयोध्यापतौ मुने वसिष्ठे ब्रह्मविच्छ्रेष्ठे पुरोधसि विशेषतः
न च व्याधिर् न दुर्भिक्षं न चावृष्टिर् न चाधयः ब्रह्मक्षत्रविशां नित्यं शूद्राणां च विशेषतः
आश्रमाणां तु सर्वेषाम् आनन्दो ऽभूत् पृथक् पृथक् तस्मिञ् शासति राजेन्द्र इक्ष्वाकूणां कुलोद्वहे
देवानां दानवानां तु राज्यार्थे विग्रहो ऽभवत् क्वापि तत्र जयं प्रापुर् देवाः क्वापि तथेतरे
एवं प्रवर्तमाने तु त्रैलोक्यम् अतिपीडितम् अभून् नारद तत्राहम् अवदं दैत्यदानवान्
देवांश् चापि विशेषेण न कृतं तैर् मदीरितम् पुनश् च संगरस् तेषां बभूव सुमहान् मिथः
विष्णुं गत्वा सुराः प्रोचुस् तथेशानं जगन्मयम् ताव् ऊचतुर् उभौ देवान् असुरान् दैत्यदानवान्
तपसा बलिनो यान्तु पुनः कुर्वन्तु संगरम् तथेत्य् आहुर् ययुः सर्वे तपसे नियतव्रताः
ययुस् तु राक्षसान् देवाः पुनस् ते मत्सरान्विताः देवानां दानवानां च संगरो ऽभूत् सुदारुणः
न तत्र देवा जेतारो नैव दैत्याश् च दानवाः संयुगे वर्तमाने तु वाग् उवाचाशरीरिणी
येषां दशरथो राजा ते जेतारो न चेतरे
इति श्रुत्वा जयायोभौ जग्मतुर् देवदानवौ तत्र वायुस् त्वरन् प्राप्तो राजानम् अवदत् तदा
आगन्तव्यं त्वया राजन् देवदानवसंगरे यत्र राजा दशरथो जयस् तत्रेति विश्रुतम्
तस्मात् त्वं देवपक्षे स्या भवेयुर् जयिनः सुराः
तद् वायुवचनं श्रुत्वा राजा दशरथो नृपः आगम्यते मया सत्यं गच्छ वायो यथासुखम्
गते वायौ तदा दैत्या आजग्मुर् भूपतिं प्रति ते ऽप्य् ऊचुर् भगवन्न् अस्मत्साहाय्यं कर्तुम् अर्हसि
राजन् दशरथ श्रीमन् विजयस् त्वयि संस्थितः तस्मात् त्वं वै दैत्यपतेः साहाय्यं कर्तुम् अर्हसि
ततः प्रोवाच नृपतिर् वायुना प्रार्थितः पुरा प्रतिज्ञातं मया तच् च यान्तु दैत्याश् च दानवाः
स तु राजा तथा चक्रे गत्वा चैव त्रिविष्टपम् युद्धं चक्रे तथा दैत्यैर् दानवैः सह राक्षसैः
पश्यत्सु देवसंघेषु नमुचेर् भ्रातरस् तदा विविधुर् निशितैर् बाणैर् अथाक्षं नृपतेस् तथा
भिन्नाक्षं तं रथं राजा न जानाति स संभ्रमात् राजान्तिके स्थिता सुभ्रूः कैकेय्याज्ञायि नारद
न ज्ञापितं तया राज्ञे स्वयम् आलोक्य सुव्रता भग्नम् अक्षं समालक्ष्य चक्रे हस्तं तदा स्वकम्
अक्षवन् मुनिशार्दूल तद् एतन् महद् अद्भुतम् रथेन रथिनां श्रेष्ठस् तया दत्तकरेण च
जितवान् दैत्यदनुजान् देवैः प्राप्य वरान् बहून् ततो देवैर् अनुज्ञातस् त्व् अयोध्यां पुनर् अभ्यगात्
स तु मध्ये महाराजो मार्गे वीक्ष्य तदा प्रियाम् कैकेय्याः कर्म तद् दृष्ट्वा विस्मयं परमं गतः
ततस् तस्यै वरान् प्रादात् त्रींस् तु नारद सा अपि अनुमान्य नृपप्रोक्तं कैकेयी वाक्यम् अब्रवीत्
त्वयि तिष्ठन्तु राजेन्द्र त्वया दत्ता वरा अमी
विभूषणानि राजेन्द्रो दत्त्वा स प्रियया सह रथेन विजयी राजा ययौ स्वनगरं सुखी
योषितां किम् अदेयं हि प्रियाणाम् उचितागमे स कदाचिद् दशरथो मृगयाशीलिभिर् वृतः
अटन्न् अरण्ये शर्वर्यां वारिबन्धम् अथाकरोत् सप्तव्यसनहीनेन भवितव्यं तु भूभुजा