ततः प्रभृति तत् तीर्थं गोविन्दम् इति विश्रुतम् मङ्गलासंगमं चैव पूर्णतीर्थं ततः परम्
इन्द्रतीर्थम् इति ख्यातं बार्हस्पत्यं च विश्रुतम् यत्र सिद्धेश्वरो देवो विष्णुर् गोविन्द एव च
तेषु स्नानं च दानं च यत् किंचित् सुकृतार्जनम् सर्वं तद् अक्षयं विद्यात् पितॄणाम् अतिवल्लभम्
शृणोति यश् चापि पठेद् यश् च स्मरति नित्यशः तस्य तीर्थस्य माहात्म्यं भ्रष्टराज्यप्रदायकम्
सप्तत्रिंशत् सहस्राणि तीर्थानां तीरयोर् द्वयोः उभयोर् मुनिशार्दूल सर्वसिद्धिप्रदायिनाम्
न पूर्णतीर्थसदृशं तीर्थम् अस्ति महाफलम् निष्फलं तस्य जन्मादि यो न सेवेत तन् नरः
रामतीर्थम् इति ख्यातं भ्रूणहत्याविनाशनम् तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते
इक्ष्वाकुवंशप्रभवः क्षत्रियो लोकविश्रुतः बलवान् मतिमाञ् शूरो यथा शक्रः पुरंदरः
पितृपैतामहं राज्यं कुर्वन्न् आस्ते यथा बलिः तस्य तिस्रो महिष्यः स्यू राज्ञो दशरथस्य हि
कौशल्या च सुमित्रा च कैकेयी च महामते एताः कुलीनाः सुभगा रूपलक्षणसंयुताः
तस्मिन् राजनि राज्ये तु स्थिते ऽयोध्यापतौ मुने वसिष्ठे ब्रह्मविच्छ्रेष्ठे पुरोधसि विशेषतः
न च व्याधिर् न दुर्भिक्षं न चावृष्टिर् न चाधयः ब्रह्मक्षत्रविशां नित्यं शूद्राणां च विशेषतः
आश्रमाणां तु सर्वेषाम् आनन्दो ऽभूत् पृथक् पृथक् तस्मिञ् शासति राजेन्द्र इक्ष्वाकूणां कुलोद्वहे
देवानां दानवानां तु राज्यार्थे विग्रहो ऽभवत् क्वापि तत्र जयं प्रापुर् देवाः क्वापि तथेतरे
एवं प्रवर्तमाने तु त्रैलोक्यम् अतिपीडितम् अभून् नारद तत्राहम् अवदं दैत्यदानवान्
देवांश् चापि विशेषेण न कृतं तैर् मदीरितम् पुनश् च संगरस् तेषां बभूव सुमहान् मिथः
विष्णुं गत्वा सुराः प्रोचुस् तथेशानं जगन्मयम् ताव् ऊचतुर् उभौ देवान् असुरान् दैत्यदानवान्
तपसा बलिनो यान्तु पुनः कुर्वन्तु संगरम् तथेत्य् आहुर् ययुः सर्वे तपसे नियतव्रताः
ययुस् तु राक्षसान् देवाः पुनस् ते मत्सरान्विताः देवानां दानवानां च संगरो ऽभूत् सुदारुणः
न तत्र देवा जेतारो नैव दैत्याश् च दानवाः संयुगे वर्तमाने तु वाग् उवाचाशरीरिणी
येषां दशरथो राजा ते जेतारो न चेतरे
इति श्रुत्वा जयायोभौ जग्मतुर् देवदानवौ तत्र वायुस् त्वरन् प्राप्तो राजानम् अवदत् तदा
आगन्तव्यं त्वया राजन् देवदानवसंगरे यत्र राजा दशरथो जयस् तत्रेति विश्रुतम्
तस्मात् त्वं देवपक्षे स्या भवेयुर् जयिनः सुराः
तद् वायुवचनं श्रुत्वा राजा दशरथो नृपः आगम्यते मया सत्यं गच्छ वायो यथासुखम्
गते वायौ तदा दैत्या आजग्मुर् भूपतिं प्रति ते ऽप्य् ऊचुर् भगवन्न् अस्मत्साहाय्यं कर्तुम् अर्हसि
राजन् दशरथ श्रीमन् विजयस् त्वयि संस्थितः तस्मात् त्वं वै दैत्यपतेः साहाय्यं कर्तुम् अर्हसि
ततः प्रोवाच नृपतिर् वायुना प्रार्थितः पुरा प्रतिज्ञातं मया तच् च यान्तु दैत्याश् च दानवाः
स तु राजा तथा चक्रे गत्वा चैव त्रिविष्टपम् युद्धं चक्रे तथा दैत्यैर् दानवैः सह राक्षसैः
पश्यत्सु देवसंघेषु नमुचेर् भ्रातरस् तदा विविधुर् निशितैर् बाणैर् अथाक्षं नृपतेस् तथा