स्वर्गस्य मोक्षस्य जगन्निवास सोपानपङ्क्तिस् तव भक्तिर् एषा त्वत्पादसंप्राप्तिफलाप्तये तु सोपानपङ्क्तिं न वदन्ति धीराः
तस्माद् दयालो मम भक्तिर् अस्तु नैवास्त्य् उपायस् तव रूपसेवा आत्मीयम् आलोक्य महत्त्वम् ईश पापेषु चास्मासु कुरु प्रसादम्
स्थूलं च सूक्ष्मं त्वम् अनादि नित्यं पिता च माता यद् असच् च सच् च एवं स्तुतो यः श्रुतिभिः पुराणैर् नमामि सोमेश्वरम् ईशितारम्
ततः प्रीतौ हरिहराव् ऊचतुस् त्रिदशेश्वरौ
व्रियतां यन् मनोभीष्टं यद् वरं चातिदुर्लभम्
इन्द्रः प्राह सुरेशानं मद्राज्यं तु पुनः पुनः जायते भ्रश्यते चैव तत् पापम् उपशाम्यताम्
यथा स्थिरो ऽहं राज्ये स्यां सर्वं स्यान् निश्चलं मम सुप्रीतौ यदि देवेशौ सर्वं स्यान् निश्चलं सदा
तथेति हरिवाक्यं ताव् अभिनन्द्येदम् ऊचतुः परं प्रसादम् आपन्नौ ताव् आलोक्य स्मिताननौ
निरपायनिराधारनिर्विकारस्वरूपिणौ शरण्यौ सर्वलोकानां भुक्तिमुक्तिप्रदाव् उभौ
त्रिदैवत्यं महातीर्थं गौतमी वाञ्छितप्रदा तस्याम् अनेन मन्त्रेण कुरुतां स्नानम् आदरात्
अभिषेकं महेन्द्रस्य मङ्गलाय बृहस्पतिः करोतु संस्मरन्न् आवां संपदां स्थैर्यसिद्धये
इह जन्मनि पूर्वस्मिन् यत् किंचित् सुकृतं कृतम् तत् सर्वं पूर्णताम् एतु गोदावरि नमो ऽस्तु ते
एवं स्मृत्वा तु यः कश्चिद् गौतम्यां स्नानम् आचरेत् आवाभ्यां तु प्रसादेन धर्मः संपूर्णताम् इयात् पूर्वजन्मकृताद् दोषात् स मुक्तः पुण्यवान् भवेत्
तथेति चक्रतुः प्रीतौ सुरेन्द्रधिषणौ ततः महाभिषेकम् इन्द्रस्य चकार द्युसदां गुरुः
तेनाभूद् या नदी पुण्या मङ्गलेत्य् उदिता तु सा तया च संगमः पुण्यो गङ्गायाः शुभदस् त्व् असौ
इन्द्रेण संस्तुतो विष्णुः प्रत्यक्षो ऽभूज् जगन्मयः त्रिलोकसंमितां शक्रो भूमिं लेभे जगत्पतेः
तन्नाम्ना चापि विख्यातो गोविन्द इति तत्र च त्रिलोकसंमिता लब्धा तेन गौर् वज्रधारिणा
दत्ता च हरिणा तत्र गोविन्दस् तद् अभूद् धरिः त्रैलोक्यराज्यं यत् प्राप्तं हरिणा च हरेर् मुने
निश्चलं येन संजातं देवदेवान् महेश्वरात् बृहस्पतिर् देवगुरुर् यत्रास्तौषीन् महेश्वरम्
राज्यस्य स्थिरभावाय देवेन्द्रस्य महात्मनः सिद्धेश्वरस् तत्र देवो लिङ्गं तु त्रिदशार्चितम्
ततः प्रभृति तत् तीर्थं गोविन्दम् इति विश्रुतम् मङ्गलासंगमं चैव पूर्णतीर्थं ततः परम्
इन्द्रतीर्थम् इति ख्यातं बार्हस्पत्यं च विश्रुतम् यत्र सिद्धेश्वरो देवो विष्णुर् गोविन्द एव च
तेषु स्नानं च दानं च यत् किंचित् सुकृतार्जनम् सर्वं तद् अक्षयं विद्यात् पितॄणाम् अतिवल्लभम्
शृणोति यश् चापि पठेद् यश् च स्मरति नित्यशः तस्य तीर्थस्य माहात्म्यं भ्रष्टराज्यप्रदायकम्
सप्तत्रिंशत् सहस्राणि तीर्थानां तीरयोर् द्वयोः उभयोर् मुनिशार्दूल सर्वसिद्धिप्रदायिनाम्
न पूर्णतीर्थसदृशं तीर्थम् अस्ति महाफलम् निष्फलं तस्य जन्मादि यो न सेवेत तन् नरः
रामतीर्थम् इति ख्यातं भ्रूणहत्याविनाशनम् तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते
इक्ष्वाकुवंशप्रभवः क्षत्रियो लोकविश्रुतः बलवान् मतिमाञ् शूरो यथा शक्रः पुरंदरः
पितृपैतामहं राज्यं कुर्वन्न् आस्ते यथा बलिः तस्य तिस्रो महिष्यः स्यू राज्ञो दशरथस्य हि
कौशल्या च सुमित्रा च कैकेयी च महामते एताः कुलीनाः सुभगा रूपलक्षणसंयुताः