स्मारं स्मारं तत् तद् इन्द्रश् चिन्तासंतापदुर्मनाः ततः सुरपतिः प्राह वाचस्पतिम् इदं वचः
हेतुना केन वागीश भ्रष्टराज्यो भवाम्य् अहम् मध्ये मध्ये पदभ्रंशाद् वरं निःश्रीकता नृणाम्
गहनां कर्मणां जीवगतिं को वेत्ति तत्त्वतः रहस्यं सर्वभावानां ज्ञातुं नान्यः प्रगल्भते
बृहस्पतिर् हरिं प्राह ब्रह्माणं पृच्छ गच्छ तम् स तु जानाति यद् भूतं भविष्यच् चापि वर्तनम्
स तु वक्ष्यति येनेदं जातं तच् च महामते ताव् आगत्य महाप्राज्ञौ नमस्कृत्य ममान्तिकम् कृताञ्जलिपुटो भूत्वा माम् ऊचतुर् इदं वचः
भगवन् केन दोषेण शचीभर्ता उदारधीः राज्यात् प्रभ्रश्यते नाथ संशयं छेत्तुम् अर्हसि
तदाहम् अब्रवं ब्रह्मंश् चिरं ध्यात्वा बृहस्पतिम् खण्डधर्माख्यदोषेण तेन राज्यपदाच् च्युतः
देशकालादिदोषेण श्रद्धामन्त्रविपर्ययात् यथावद्दक्षिणादानाद् असद्द्रव्यप्रदानतः
देवभूदेवतावज्ञापातकाच् च विशेषतः यत् खण्डत्वं स्वधर्मस्य देहिनाम् उपजायते
तेनातिमानसस् तापः पदहानिश् च दुस्त्यजा कृतो ऽपि धर्मो ऽनिष्टाय जायते क्षुब्धचेतसा
कार्यस्य न भवेत् सिद्ध्यै तस्माद् अव्याकुलाय च असंपूर्णे स्वधर्मे हि किम् अनिष्टं न जायते
ताभ्यां यत् पूर्ववृत्तान्तं तद् अप्य् उक्तं मयानघ आयुषस् तु सुतः श्रीमान् धन्वन्तरिर् उदारधीः
तमसा च कृतं विघ्नं विष्णुना तच् च नाशितम् पूर्वजन्मसु वृत्तान्तम् इत्यादि परिकीर्तितम्
तच् छ्रुत्वा विस्मितौ चोभौ माम् एव पुनर् ऊचतुः
तद्दोषप्रतिबन्धस् तु केन स्यात् सुरसत्तम
पुनर् ध्यात्वा ताव् अवदं श्रूयतां दोषकारकम् कारणं सर्वसिद्धीनां दुःखसंसारतारणम्
शरणं तप्तचित्तानां निर्वाणं जीवताम् अपि गत्वा तु गौतमीं देवीं स्तूयेतां हरिशंकरौ
नोपायो ऽन्यो ऽस्ति संशुद्ध्यै तौ तां हित्वा जगत्त्रये तदैव जग्मतुर् उभौ गौतमीं मुनिसत्तम स्नातौ कृतक्षणौ चोभौ देवौ तुष्टुवतुर् मुदा
नमो मत्स्याय कूर्माय वराहाय नमो नमः नरसिंहाय देवाय वामनाय नमो नमः
नमो ऽस्तु हयरूपाय त्रिविक्रम नमो ऽस्तु ते नमो ऽस्तु बुद्धरूपाय रामरूपाय कल्किने
अनन्तायाच्युतायेश जामदग्न्याय ते नमः वरुणेन्द्रस्वरूपाय यमरूपाय ते नमः
परमेशाय देवाय नमस् त्रैलोक्यरूपिणे बिभ्रत्सरस्वतीं वक्त्रे सर्वज्ञो ऽसि नमो ऽस्तु ते
लक्ष्मीवान् अस्य् अतो लक्ष्मीं बिभ्रद् वक्षसि चानघ बहुबाहूरुपादस् त्वं बहुकर्णाक्षिशीर्षकः त्वाम् एव सुखिनं प्राप्य बहवः सुखिनो ऽभवन्
तावन् निःश्रीकता पुंसां मालिन्यं दैन्यम् एव वा यावन् न यान्ति शरणं हरे त्वां करुणार्णवम्
सूक्ष्मं परं जोतिर् अनन्तरूपम् ओंकारमात्रं प्रकृतेः परं यत् चिद्रूपम् आनन्दमयं समस्तम् एवं वदन्तीश मुमुक्षवस् त्वाम्
आराधयन्त्य् अत्र भवन्तम् ईशं महामखैः पञ्चभिर् अप्य् अकामाः संसारसिन्धोः परम् आप्तकामा विशन्ति दिव्यं भुवनं वपुस् ते
सर्वेषु सत्त्वेषु समत्वबुद्ध्या संवीक्ष्य षट्सूर्मिषु शान्तभावाः ज्ञानेन ते कर्मफलानि हित्वा ध्यानेन ते त्वां प्रविशन्ति शंभो
न जातिधर्माणि न वेदशास्त्रं न ध्यानयोगो न समाधिधर्मः रुद्रं शिवं शंकरं शान्तिचित्तं भक्त्या देवं सोमम् अहं नमस्ये
मूर्खो ऽपि शंभो तव पादभक्त्या समाप्नुयान् मुक्तिमयीं तनुं ते ज्ञानेषु यज्ञेषु तपःसु चैव ध्यानेषु होमेषु महाफलेषु
संपन्नम् एतत् फलम् उत्तमं यत् सोमेश्वरे भक्तिर् अहर्निशं यत् सर्वस्य जीवस्य सदा प्रियस्य फलस्य दृष्टस्य तथा श्रुतस्य