नलौ द्वाव् एव विख्यातौ पुराणे मुनिसत्तमाः वीरसेनात्मजश् चैव यश् चेक्ष्वाकुकुलोद्वहः
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः एते विवस्वतो वंशे राजानो भूरितेजसः
पठन् सम्यग् इमां सृष्टिम् आदित्यस्य विवस्वतः श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च प्रजावान् एति सायुज्यम् आदित्यस्य विवस्वतः
पिता सोमस्य भो विप्रा जज्ञे ऽत्रिर् भगवान् ऋषिः ब्रह्मणो मानसात् पूर्वं प्रजासर्गं विधित्सतः
अनुत्तरं नाम तपो येन तप्तं हि तत् पुरा त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम्
ऊर्ध्वम् आचक्रमे तस्य रेतः सोमत्वम् ईयिवत् नेत्राभ्यां वारि सुस्राव दशधा द्योतयन् दिशः
तं गर्भं विधिनादिष्टा दश देव्यो दधुस् ततः समेत्य धारयाम् आसुर् न च ताः समशक्नुवन्
यदा न धारणे शक्तास् तस्य गर्भस्य ता दिशः ततस् ताभिः स त्यक्तस् तु निपपात वसुंधराम्
पतितं सोमम् आलोक्य ब्रह्मा लोकपितामहः रथम् आरोपयाम् आस लोकानां हितकाम्यया
तस्मिन् निपतिते देवाः पुत्रे ऽत्रेः परमात्मनि तुष्टुवुर् ब्रह्मणः पुत्रास् तथान्ये मुनिसत्तमाः
तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः आप्यायनाय लोकानां भावयाम् आस सर्वतः
स तेन रथमुख्येन सागरान्तां वसुंधराम् त्रिःसप्तकृत्वो ऽतियशाश् चकाराभिप्रदक्षिणाम्
तस्य यच् चरितं तेजः पृथिवीम् अन्वपद्यत ओषध्यस् ताः समुद्भूता याभिः संधार्यते जगत्
स लब्धतेजा भगवान् संस्तवैश् च स्वकर्मभिः तपस् तेपे महाभागः पद्मानां दर्शनाय सः
ततस् तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः बीजौषधीनां विप्राणाम् अपां च मुनिसत्तमाः
स तत् प्राप्य महाराज्यं सोमः सौम्यवतां वरः समाजह्रे राजसूयं सहस्रशतदक्षिणम्
दक्षिणाम् अददात् सोमस् त्रींल् लोकान् इति नः श्रुतम् तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश् च भो द्विजाः
हिरण्यगर्भो ब्रह्मात्रिर् भृगुश् च ऋत्विजो ऽभवत् सदस्यो ऽभूद् धरिस् तत्र मुनिभिर् बहुभिर् वृतः
तं सिनीश् च कुहूश् चैव द्युतिः पुष्टिः प्रभा वसुः कीर्तिर् धृतिश् च लक्ष्मीश् च नव देव्यः सिषेविरे
प्राप्यावभृथम् अप्य् अग्र्यं सर्वदेवर्षिपूजितः विरराजाधिराजेन्द्रो दशधा भासयन् दिशः
तस्य तत् प्राप्य दुष्प्राप्यम् ऐश्वर्यम् ऋषिसत्कृतम् विबभ्राम मतिस् ताताविनयाद् अनयाहृता
बृहस्पतेः स वै भार्याम् ऐश्वर्यमदमोहितः जहार तरसा सोमो विमत्याङ्गिरसः सुतम्
स याच्यमानो देवैश् च तथा देवर्षिभिर् मुहुः नैव व्यसर्जयत् तारां तस्माय् अङ्गिरसे तदा
उशना तस्य जग्राह पार्ष्णिम् अङ्गिरसस् तदा रुद्रश् च पार्ष्णिं जग्राह गृहीत्वाजगवं धनुः
तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना उद्दिश्य देवान् उत्सृष्टं येनैषां नाशितं यशः
तत्र तद् युद्धम् अभवत् प्रख्यातं तारकामयम् देवानां दानवानां च लोकक्षयकरं महत्
तत्र शिष्टास् तु ये देवास् तुषिताश् चैव ये द्विजाः ब्रह्माणं शरणं जग्मुर् आदिदेवं सनातनम्
तदा निवार्योशनसं तं वै रुद्रं च शंकरम् ददाव् अङ्गिरसे तारां स्वयम् एव पितामहः
ताम् अन्तःप्रसवां दृष्ट्वा क्रुद्धः प्राह बृहस्पतिः मदीयायां न ते योनौ गर्भो धार्यः कथंचन
इषीकास्तम्बम् आसाद्य गर्भं सा चोत्ससर्ज ह जातमात्रः स भगवान् देवानाम् आक्षिपद् वपुः