जय कीर्तिद कीर्तिस् त्वं जय मूर्तिद मूर्तिधृक् जय सौख्यद सौख्यात्मञ् जय पावनपावन
जय शान्तिद शान्तिस् त्वं जय शंकरसंभव जय पानद पानस् त्वं जय ज्योतिःस्वरूपिणे
जय वामन वित्तेश जय धूमपताकिने जय सर्वस्य जगतो दातृमूर्ते नमो ऽस्तु ते
त्वम् एव लोकत्रयवर्तिजीव निकायसंक्लेशविनाशदक्ष श्रीपुण्डरीकाक्ष कृपानिधे त्वं निधेहि पाणिं मम मूर्ध्नि विष्णो
एवं स्तुवन्तं भगवाञ् शङ्खचक्रगदाधरः वरेण च्छन्दयाम् आस सर्वकामसमृद्धिदः
धन्वन्तरिः प्रीतमना वरदानेन चक्रिणः वरदानाय देवेशं गोविन्दं संस्थितं पुरः
तम् आह नृपतिः प्रह्वः सुरराज्यं ममेप्सितम् तच् च दत्तं त्वया विष्णो प्राप्तो ऽस्मि कृतकृत्यताम्
स्तुतः संपूजितो विष्णुस् तत्रैवान्तरधीयत तथैव त्रिदशेशत्वम् अवाप नृपतिः क्रमात्
प्रागर्जितानेककर्मपरिपाकवशात् ततः त्रिःकृत्वो नाशम् अगमत् सहस्राक्षः स्वकात् पदात्
नहुषाद् वृत्रहत्यायाः सिन्धुसेनवधात् ततः अहल्यायां च गमनाद् येन केन च हेतुना
स्मारं स्मारं तत् तद् इन्द्रश् चिन्तासंतापदुर्मनाः ततः सुरपतिः प्राह वाचस्पतिम् इदं वचः
हेतुना केन वागीश भ्रष्टराज्यो भवाम्य् अहम् मध्ये मध्ये पदभ्रंशाद् वरं निःश्रीकता नृणाम्
गहनां कर्मणां जीवगतिं को वेत्ति तत्त्वतः रहस्यं सर्वभावानां ज्ञातुं नान्यः प्रगल्भते
बृहस्पतिर् हरिं प्राह ब्रह्माणं पृच्छ गच्छ तम् स तु जानाति यद् भूतं भविष्यच् चापि वर्तनम्
स तु वक्ष्यति येनेदं जातं तच् च महामते ताव् आगत्य महाप्राज्ञौ नमस्कृत्य ममान्तिकम् कृताञ्जलिपुटो भूत्वा माम् ऊचतुर् इदं वचः
भगवन् केन दोषेण शचीभर्ता उदारधीः राज्यात् प्रभ्रश्यते नाथ संशयं छेत्तुम् अर्हसि
तदाहम् अब्रवं ब्रह्मंश् चिरं ध्यात्वा बृहस्पतिम् खण्डधर्माख्यदोषेण तेन राज्यपदाच् च्युतः
देशकालादिदोषेण श्रद्धामन्त्रविपर्ययात् यथावद्दक्षिणादानाद् असद्द्रव्यप्रदानतः
देवभूदेवतावज्ञापातकाच् च विशेषतः यत् खण्डत्वं स्वधर्मस्य देहिनाम् उपजायते
तेनातिमानसस् तापः पदहानिश् च दुस्त्यजा कृतो ऽपि धर्मो ऽनिष्टाय जायते क्षुब्धचेतसा
कार्यस्य न भवेत् सिद्ध्यै तस्माद् अव्याकुलाय च असंपूर्णे स्वधर्मे हि किम् अनिष्टं न जायते
ताभ्यां यत् पूर्ववृत्तान्तं तद् अप्य् उक्तं मयानघ आयुषस् तु सुतः श्रीमान् धन्वन्तरिर् उदारधीः
तमसा च कृतं विघ्नं विष्णुना तच् च नाशितम् पूर्वजन्मसु वृत्तान्तम् इत्यादि परिकीर्तितम्
तच् छ्रुत्वा विस्मितौ चोभौ माम् एव पुनर् ऊचतुः
तद्दोषप्रतिबन्धस् तु केन स्यात् सुरसत्तम
पुनर् ध्यात्वा ताव् अवदं श्रूयतां दोषकारकम् कारणं सर्वसिद्धीनां दुःखसंसारतारणम्
शरणं तप्तचित्तानां निर्वाणं जीवताम् अपि गत्वा तु गौतमीं देवीं स्तूयेतां हरिशंकरौ
नोपायो ऽन्यो ऽस्ति संशुद्ध्यै तौ तां हित्वा जगत्त्रये तदैव जग्मतुर् उभौ गौतमीं मुनिसत्तम स्नातौ कृतक्षणौ चोभौ देवौ तुष्टुवतुर् मुदा
नमो मत्स्याय कूर्माय वराहाय नमो नमः नरसिंहाय देवाय वामनाय नमो नमः
नमो ऽस्तु हयरूपाय त्रिविक्रम नमो ऽस्तु ते नमो ऽस्तु बुद्धरूपाय रामरूपाय कल्किने