तदेकशरणो राजा बभूव स यदा तमः अन्तर्धानं गतो ब्रह्मन् नाशयित्वा तपो बृहत्
एतस्मिन्न् अन्तरे ऽहं वै वरान् दातुं समभ्यगाम् तं दृष्ट्वा विह्वलीभूतं तपोभ्रष्टं यथा मृतम्
तम् आश्वास्याथ विविधैर् हेतुभिर् नृपसत्तमम् तव शत्रुस् तमो नाम कृत्वा तां तपसश् च्युतिम्
चरितार्थो गतो राजन् न त्वं शोचितुम् अर्हसि आनन्दयन्ति प्रमदास् तापयन्ति च मानवम्
सर्वा एव विशेषेण किम् उ मायामयी तु सा ततः कृताञ्जली राजा माम् आह विगतभ्रमः
किं करोमि कथं ब्रह्मंस् तपसः पारम् आप्नुयाम्
ततस् तस्योत्तरं प्रादां देवदेवं जनार्दनम् स्तुहि सर्वप्रयत्नेन ततः सिद्धिम् अवाप्स्यसि
स ह्य् अशेषजगत्स्रष्टा वेदवेद्यः पुरातनः सर्वार्थसिद्धिदः पुंसां नान्यो ऽस्ति भुवनत्रये
स जगाम नगश्रेष्ठं हिमवन्तं नृपोत्तमः कृताञ्जलिपुटो भूत्वा विष्णुं तुष्टाव भक्तितः
जय विष्णो जयाचिन्त्य जय जिष्णो जयाच्युत जय गोपाल लक्ष्मीश जय कृष्ण जगन्मय
जय भूतपते नाथ जय पन्नगशायिने जय सर्वग गोविन्द जय विश्वकृते नमः
जय विश्वभुजे देव जय विश्वधृते नमः जयेश सदसत् त्वं वै जय माधव धर्मिणे
जय कामद काम त्वं जय राम गुणार्णव जय पुष्टिद पुष्टीश जय कल्याणदायिने
जय भूतप भूतेश जय मानविधायिने जय कर्मद कर्म त्वं जय पीताम्बरच्छद
जय सर्वेश सर्वस् त्वं जय मङ्गलरूपिणे जय सत्त्वाधिनाथाय जय वेदविदे नमः
जय जन्मद जन्मिस्थ परमात्मन् नमो ऽस्तु ते जय मुक्तिद मुक्तिस् त्वं जय भुक्तिद केशव
जय लोकद लोकेश जय पापविनाशन जय वत्सल भक्तानां जय चक्रधृते नमः
जय मानद मानस् त्वं जय लोकनमस्कृत जय धर्मद धर्मस् त्वं जय संसारपारग
जय अन्नद अन्नं त्वं जय वाचस्पते नमः जय शक्तिद शक्तिस् त्वं जय जैत्रवरप्रद
जय यज्ञद यज्ञस् त्वं जय पद्मदलेक्षण जय दानद दानं त्वं जय कैटभसूदन
जय कीर्तिद कीर्तिस् त्वं जय मूर्तिद मूर्तिधृक् जय सौख्यद सौख्यात्मञ् जय पावनपावन
जय शान्तिद शान्तिस् त्वं जय शंकरसंभव जय पानद पानस् त्वं जय ज्योतिःस्वरूपिणे
जय वामन वित्तेश जय धूमपताकिने जय सर्वस्य जगतो दातृमूर्ते नमो ऽस्तु ते
त्वम् एव लोकत्रयवर्तिजीव निकायसंक्लेशविनाशदक्ष श्रीपुण्डरीकाक्ष कृपानिधे त्वं निधेहि पाणिं मम मूर्ध्नि विष्णो
एवं स्तुवन्तं भगवाञ् शङ्खचक्रगदाधरः वरेण च्छन्दयाम् आस सर्वकामसमृद्धिदः
धन्वन्तरिः प्रीतमना वरदानेन चक्रिणः वरदानाय देवेशं गोविन्दं संस्थितं पुरः
तम् आह नृपतिः प्रह्वः सुरराज्यं ममेप्सितम् तच् च दत्तं त्वया विष्णो प्राप्तो ऽस्मि कृतकृत्यताम्
स्तुतः संपूजितो विष्णुस् तत्रैवान्तरधीयत तथैव त्रिदशेशत्वम् अवाप नृपतिः क्रमात्
प्रागर्जितानेककर्मपरिपाकवशात् ततः त्रिःकृत्वो नाशम् अगमत् सहस्राक्षः स्वकात् पदात्
नहुषाद् वृत्रहत्यायाः सिन्धुसेनवधात् ततः अहल्यायां च गमनाद् येन केन च हेतुना