उभयोस् तीरयोस् तत्र तीर्थानां शतम् उत्तमम् सर्वपापक्षयकरं सर्वसिद्धिप्रदायकम्
पूर्णतीर्थम् इति ख्यातं गङ्गाया उत्तरे तटे तत्र स्नात्वा नरो ऽज्ञानात् तथापि शुभम् आप्नुयात्
पूर्णतीर्थस्य माहात्म्यं वर्ण्यते केन जन्तुना स्वयं संस्थीयते यत्र चक्रिणा च पिनाकिना
पुरा धन्वन्तरिर् नाम कल्पादाव् आयुषः सुतः इष्ट्वा बहुविधैर् यज्ञैर् अश्वमेधपुरःसरैः
दत्त्वा दानान्य् अनेकानि भुक्त्वा भोगांश् च पुष्कलान् विज्ञाय भोगवैषम्यं परं वैराग्यम् आश्रितः
गिरिशृङ्गे ऽम्बुधेः पारे तथा गङ्गानदीतटे शिवविष्ण्वोर् गृहे वापि विशेषात् पुण्यसंगमे
तप्तं हुतं च जप्तं च सर्वम् अक्षयतां व्रजेत् धन्वन्तरिर् इति ज्ञात्वा तत्र तेपे तपो महत्
ज्ञानवैराग्यसंपन्नो भीमेशचरणाश्रयः तपश् चकार विपुलं गङ्गासागरसंगमे
पुरा च निकृतो राज्ञा रणं हित्वा महासुरः सहस्रम् एकं वर्षाणां समुद्रं प्राविशद् भयात्
धन्वन्तरौ वनं प्राप्ते राज्यं प्राप्ते तु तत्सुते विरागं च गते राज्ञि ततः प्रायाद् अथार्णवात्
तपस्यन्तं तमो नाम बलवान् असुरो मुने गङ्गातीरं समाश्रित्य राजा धन्वन्तरिर् यतः
जपहोमरतो नित्यं ब्रह्मज्ञानपरायणः तं रिपुं नाशयामीति तमः प्रायाद् अथार्णवात्
नाशितो बहुशो ऽनेन राज्ञा बलवता त्व् अहम् तं रिपुं नाशयामीति तमः प्रायाद् अथार्णवात्
मायया प्रमदारूपं कृत्वा राजानम् अभ्यगात् नृत्यगीतवती सुभ्रूर् हसन्ती चारुदर्शना
तां दृष्ट्वा चारुसर्वाङ्गीं बहुकालं नयान्विताम् शान्ताम् अनुव्रतां भक्तां कृपया चाब्रवीन् नृपः
कासि त्वं कस्य हेतोर् वा वर्तसे गहने वने कं दृष्ट्वा हर्षसीव त्वं वद कल्याणि पृच्छते
प्रमदा चापि तद्वाक्यं श्रुत्वा राजानम् अब्रवीत्
त्वयि तिष्ठति को लोके हेतुर् हर्षस्य मे भवेत् अहम् इन्द्रस्य या लक्ष्मीस् त्वां दृष्ट्वा कामसंभृतम्
हर्षाच् चरामि पुरतो राजंस् तव पुनः पुनः अगण्यपुण्यविरहाद् अहं सर्वस्य दुर्लभा
एतद् वचो निशम्याशु तपस् त्यक्त्वा सुदुष्करम् ताम् एव मनसा ध्यायंस् तन्निष्ठस् तत्परायणः
तदेकशरणो राजा बभूव स यदा तमः अन्तर्धानं गतो ब्रह्मन् नाशयित्वा तपो बृहत्
एतस्मिन्न् अन्तरे ऽहं वै वरान् दातुं समभ्यगाम् तं दृष्ट्वा विह्वलीभूतं तपोभ्रष्टं यथा मृतम्
तम् आश्वास्याथ विविधैर् हेतुभिर् नृपसत्तमम् तव शत्रुस् तमो नाम कृत्वा तां तपसश् च्युतिम्
चरितार्थो गतो राजन् न त्वं शोचितुम् अर्हसि आनन्दयन्ति प्रमदास् तापयन्ति च मानवम्
सर्वा एव विशेषेण किम् उ मायामयी तु सा ततः कृताञ्जली राजा माम् आह विगतभ्रमः
किं करोमि कथं ब्रह्मंस् तपसः पारम् आप्नुयाम्
ततस् तस्योत्तरं प्रादां देवदेवं जनार्दनम् स्तुहि सर्वप्रयत्नेन ततः सिद्धिम् अवाप्स्यसि
स ह्य् अशेषजगत्स्रष्टा वेदवेद्यः पुरातनः सर्वार्थसिद्धिदः पुंसां नान्यो ऽस्ति भुवनत्रये
स जगाम नगश्रेष्ठं हिमवन्तं नृपोत्तमः कृताञ्जलिपुटो भूत्वा विष्णुं तुष्टाव भक्तितः
जय विष्णो जयाचिन्त्य जय जिष्णो जयाच्युत जय गोपाल लक्ष्मीश जय कृष्ण जगन्मय