गृहाण कन्यां विधिवद् भार्यां कुरु मम स्वसाम् अस्यां प्रीत्या वर्तितव्यं याचेयं दक्षिणाम् इमाम्
भ्रातृवत् पुत्रवच् चापि शिष्यः स्यात् तु गुरोः सदा गुरुश् च पितृवच् च स्यात् संबन्धो ऽत्र कथं भवेत्
मद्वाक्यं कुरु सत्यं त्वं ममाज्ञा तव दक्षिणा सर्वं स्मृत्वा कठाद्य त्वं रेवतीं भर तन्मनाः
तथेत्य् उक्त्वा गुरोर् वाक्यात् कठो जग्राह पाणिना रेवतीं विधिवद् दत्तां तां समीक्ष्य कठस् त्व् अथ
तत्रैव पूजयाम् आस देवेशं शंकरं तदा रेवत्या रूपसंपत्त्यै शिवप्रीत्यै च रेवती
सुरूपा चारुसर्वाङ्गी न रूपेणोपमीयते अभिषेकोदकं तत्र रेवत्या यद् विनिःसृतम्
साभवत् तत्र गङ्गायां तस्मात् तन्नामतो नदी रेवतीति समाख्याता रूपसौभाग्यदायिनी
पुनर् दर्भैश् च विविधैर् अभिषेकं चकार सः पुण्यरूपत्वसंसिद्ध्यै विदर्भा तद् अभून् नदी
श्रद्धया संगमे स्नात्वा रेवतीगङ्गयोर् नरः सर्वपापविनिर्मुक्तो विष्णुलोके महीयते
तथा विदर्भागौतम्योः संगमे श्रद्धया मुने स्नानं करोत्य् असौ याति भुक्तिं मुक्तिं च तत्क्षणात्
उभयोस् तीरयोस् तत्र तीर्थानां शतम् उत्तमम् सर्वपापक्षयकरं सर्वसिद्धिप्रदायकम्
पूर्णतीर्थम् इति ख्यातं गङ्गाया उत्तरे तटे तत्र स्नात्वा नरो ऽज्ञानात् तथापि शुभम् आप्नुयात्
पूर्णतीर्थस्य माहात्म्यं वर्ण्यते केन जन्तुना स्वयं संस्थीयते यत्र चक्रिणा च पिनाकिना
पुरा धन्वन्तरिर् नाम कल्पादाव् आयुषः सुतः इष्ट्वा बहुविधैर् यज्ञैर् अश्वमेधपुरःसरैः
दत्त्वा दानान्य् अनेकानि भुक्त्वा भोगांश् च पुष्कलान् विज्ञाय भोगवैषम्यं परं वैराग्यम् आश्रितः
गिरिशृङ्गे ऽम्बुधेः पारे तथा गङ्गानदीतटे शिवविष्ण्वोर् गृहे वापि विशेषात् पुण्यसंगमे
तप्तं हुतं च जप्तं च सर्वम् अक्षयतां व्रजेत् धन्वन्तरिर् इति ज्ञात्वा तत्र तेपे तपो महत्
ज्ञानवैराग्यसंपन्नो भीमेशचरणाश्रयः तपश् चकार विपुलं गङ्गासागरसंगमे
पुरा च निकृतो राज्ञा रणं हित्वा महासुरः सहस्रम् एकं वर्षाणां समुद्रं प्राविशद् भयात्
धन्वन्तरौ वनं प्राप्ते राज्यं प्राप्ते तु तत्सुते विरागं च गते राज्ञि ततः प्रायाद् अथार्णवात्
तपस्यन्तं तमो नाम बलवान् असुरो मुने गङ्गातीरं समाश्रित्य राजा धन्वन्तरिर् यतः
जपहोमरतो नित्यं ब्रह्मज्ञानपरायणः तं रिपुं नाशयामीति तमः प्रायाद् अथार्णवात्
नाशितो बहुशो ऽनेन राज्ञा बलवता त्व् अहम् तं रिपुं नाशयामीति तमः प्रायाद् अथार्णवात्
मायया प्रमदारूपं कृत्वा राजानम् अभ्यगात् नृत्यगीतवती सुभ्रूर् हसन्ती चारुदर्शना
तां दृष्ट्वा चारुसर्वाङ्गीं बहुकालं नयान्विताम् शान्ताम् अनुव्रतां भक्तां कृपया चाब्रवीन् नृपः
कासि त्वं कस्य हेतोर् वा वर्तसे गहने वने कं दृष्ट्वा हर्षसीव त्वं वद कल्याणि पृच्छते
प्रमदा चापि तद्वाक्यं श्रुत्वा राजानम् अब्रवीत्
त्वयि तिष्ठति को लोके हेतुर् हर्षस्य मे भवेत् अहम् इन्द्रस्य या लक्ष्मीस् त्वां दृष्ट्वा कामसंभृतम्
हर्षाच् चरामि पुरतो राजंस् तव पुनः पुनः अगण्यपुण्यविरहाद् अहं सर्वस्य दुर्लभा
एतद् वचो निशम्याशु तपस् त्यक्त्वा सुदुष्करम् ताम् एव मनसा ध्यायंस् तन्निष्ठस् तत्परायणः