गङ्गासमीपे यो दद्यात् सर्वकामान् अवाप्नुयात् भूमिं सस्यवतीं गाश् च ओषधीश् च मुदान्वितः
विष्णुब्रह्मेशरूपाय यो दद्याद् भक्तिमान् नरः सर्वं तद् अक्षयं विद्यात् सर्वकामान् अवाप्नुयात्
ओषध्यः सोमराजन्याः सोमश् चाप्य् ओषधीपतिः इति ज्ञात्वा ब्रह्मविद ओषधीर् यः प्रदास्यति
सर्वान् कामान् अवाप्नोति ब्रह्मलोके महीयते ता एव सोमराजन्याः प्रीताः प्रोचुः पुनः पुनः
यो ऽस्मान् ददाति गङ्गायां तं राजन् पारयामसि त्वम् उत्तमश् चौषधीश त्वदधीनं चराचरम्
ओषधयः संवदन्ते सोमेन सह राज्ञा यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि
वयं च ब्रह्मरूपिण्यः प्राणरूपिण्य एव च यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि
अस्मान् ददाति यो नित्यं ब्राह्मणेभ्यो जितव्रतः उपास्तिर् अस्ति सास्माकं तं राजन् पारयामसि
स्थावरं जङ्गमं किंचिद् अस्माभिर् व्यापृतं जगत् यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि
हव्यं कव्यं यद् अमृतं यत् किंचिद् उपभुज्यते तद्गरीयश् च यो दद्यात् तं राजन् पारयामसि
इत्य् एतां वैदिकीं गाथां यः शृणोति स्मरेत वा पठते भक्तिम् आपन्नस् तं राजन् पारयामसि
यत्रैषा पठिता गाथा सोमेन सह राज्ञा गङ्गातीरे चौषधीभिर् धान्यतीर्थं तद् उच्यते
ततः प्रभृति तत् तीर्थम् औषध्यं सौम्यम् एव च अमृतं वेदगाथं च मातृतीर्थं तथैव च
एषु स्नानं जपो होमो दानं च पितृतर्पणम् अन्नदानं तु यः कुर्यात् तद् आनन्त्याय कल्पते
षट्शताधिकसाहस्रं तीर्थानां तीरयोर् द्वयोः सर्वपापनिहन्तॄणां सर्वसंपद्विवर्धनम्
विदर्भासंगमं पुण्यं रेवतीसंगमं तथा तत्र यद् वृत्तम् आख्यास्ये यत् पुराणविदो विदुः
भरद्वाज इति ख्यात ऋषिर् आसीत् तपोधिकः तस्य स्वसा रेवतीति कुरूपा विकृतस्वरा
तां दृष्ट्वा विकृतां भ्राता भरद्वाजः प्रतापवान् चिन्तया परया युक्तो गङ्गाया दक्षिणे तटे
कस्मै दद्याम् इमां कन्यां स्वसारं भीषणाकृतिम् न कश्चित् प्रतिगृह्णाति दातव्या च स्वसा तथा
अहो भूयान् न कस्यापि कन्या दुःखैककारणम् मरणं जीवतो ऽप्य् अस्य प्राणिनस् तु पदे पदे
एवं विमृशतस् तस्य स्वाश्रमे चातिशोभने द्रष्टुं मुनिवरः प्रायाद् भरद्वाजं यतव्रतम्
द्व्यष्टवर्षः शुभवपुः शान्तो दान्तो गुणाकरः नाम्ना कठ इति ख्यातो भरद्वाजं ननाम सः
विधिवत् पूज्य तं विप्रं भरद्वाजः कठं तदा तस्यागमनकार्यं च पप्रच्छ पुरतः स्थितः
कठो ऽप्य् आह भरद्वाजं विद्यार्थ्य् अहम् उपागतः तथा च दर्शनाकाङ्क्षी यद् युक्तं तद् विधीयताम्
भरद्वाजः कठं प्राह अधीष्व यद् अभीप्सितम् पुराणं स्मृतयो वेदा धर्मस्थानान्य् अनेकशः
सर्वं वेद्मि महाप्राज्ञ रुचिरं वद मा चिरम् कुलीनो धर्मनिरतो गुरुशुश्रूषणे रतः अभिमानी श्रुतधरः शिष्यः पुण्यैर् अवाप्यते
अध्यापयस्व भो ब्रह्मञ् शिष्यं मां वीतकल्मषम् शुश्रूषणरतं भक्तं कुलीनं सत्यवादिनम्
तथेत्य् उक्त्वा भरद्वाजः प्रादाद् विद्याम् अशेषतः प्राप्तविद्यः कठः प्रीतो भरद्वाजम् अथाब्रवीत्
इच्छेयं दक्षिणां दातुं गुरो तव मनःप्रियाम् वदस्व दुर्लभं वापि गुरो तुभ्यं नमो ऽस्तु ते
विद्यां प्राप्यापि ये मोहात् स्वगुरोः पारितोषिकम् न प्रयच्छन्ति निरयं ते यान्त्य् आचन्द्रतारकम्