पतिं देहि जगन्माता राजानम् अतितेजसम्
तदोवाच नदी गङ्गा ओषधीस् ता इदं वचः
अहं चामृतरूपास्मि ओषध्यो मातरो ऽमृताः तादृशं चामृतात्मानं पतिं सोमं ददामि वः
देवाश् च ऋषयो वाक्यं मेनिरे सोम एव च ओषध्यश् चापि तद् वाक्यं ततो जग्मुः स्वम् आलयम्
यत्र चापुर् महौषध्यो राजानम् अमृतात्मकम् सोमं समस्तसंतापपापसंघनिवारकम्
सोमतीर्थं तु तत् ख्यातं सोमपानफलप्रदम् तत्र स्नानेन दानेन पितरः स्वर्गम् आप्नुयुः
य इदं शृणुयान् नित्यं पठेद् वा भक्तितः स्मरेत् दीर्घम् आयुर् अवाप्नोति स पुत्री धनवान् भवेत्
धान्यतीर्थम् इति ख्यातं सर्वकामप्रदं नृणाम् सुभिक्षं क्षेमदं पुंसां सर्वापद्विनिवारणम्
ओषध्यः सोमराजानं पतिं प्राप्य मुदान्विताः ऊचुः सर्वस्य लोकस्य गङ्गायाश् चेप्सितं वचः
वैदिकी पुण्यगाथास्ति यां वै वेदविदो विदुः भूमिं सस्यवतीं कश्चिन् मातरं मातृसंमिताम्
गङ्गासमीपे यो दद्यात् सर्वकामान् अवाप्नुयात् भूमिं सस्यवतीं गाश् च ओषधीश् च मुदान्वितः
विष्णुब्रह्मेशरूपाय यो दद्याद् भक्तिमान् नरः सर्वं तद् अक्षयं विद्यात् सर्वकामान् अवाप्नुयात्
ओषध्यः सोमराजन्याः सोमश् चाप्य् ओषधीपतिः इति ज्ञात्वा ब्रह्मविद ओषधीर् यः प्रदास्यति
सर्वान् कामान् अवाप्नोति ब्रह्मलोके महीयते ता एव सोमराजन्याः प्रीताः प्रोचुः पुनः पुनः
यो ऽस्मान् ददाति गङ्गायां तं राजन् पारयामसि त्वम् उत्तमश् चौषधीश त्वदधीनं चराचरम्
ओषधयः संवदन्ते सोमेन सह राज्ञा यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि
वयं च ब्रह्मरूपिण्यः प्राणरूपिण्य एव च यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि
अस्मान् ददाति यो नित्यं ब्राह्मणेभ्यो जितव्रतः उपास्तिर् अस्ति सास्माकं तं राजन् पारयामसि
स्थावरं जङ्गमं किंचिद् अस्माभिर् व्यापृतं जगत् यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि
हव्यं कव्यं यद् अमृतं यत् किंचिद् उपभुज्यते तद्गरीयश् च यो दद्यात् तं राजन् पारयामसि
इत्य् एतां वैदिकीं गाथां यः शृणोति स्मरेत वा पठते भक्तिम् आपन्नस् तं राजन् पारयामसि
यत्रैषा पठिता गाथा सोमेन सह राज्ञा गङ्गातीरे चौषधीभिर् धान्यतीर्थं तद् उच्यते
ततः प्रभृति तत् तीर्थम् औषध्यं सौम्यम् एव च अमृतं वेदगाथं च मातृतीर्थं तथैव च
एषु स्नानं जपो होमो दानं च पितृतर्पणम् अन्नदानं तु यः कुर्यात् तद् आनन्त्याय कल्पते
षट्शताधिकसाहस्रं तीर्थानां तीरयोर् द्वयोः सर्वपापनिहन्तॄणां सर्वसंपद्विवर्धनम्
विदर्भासंगमं पुण्यं रेवतीसंगमं तथा तत्र यद् वृत्तम् आख्यास्ये यत् पुराणविदो विदुः
भरद्वाज इति ख्यात ऋषिर् आसीत् तपोधिकः तस्य स्वसा रेवतीति कुरूपा विकृतस्वरा
तां दृष्ट्वा विकृतां भ्राता भरद्वाजः प्रतापवान् चिन्तया परया युक्तो गङ्गाया दक्षिणे तटे
कस्मै दद्याम् इमां कन्यां स्वसारं भीषणाकृतिम् न कश्चित् प्रतिगृह्णाति दातव्या च स्वसा तथा
अहो भूयान् न कस्यापि कन्या दुःखैककारणम् मरणं जीवतो ऽप्य् अस्य प्राणिनस् तु पदे पदे