अशेषरोगोपशमो भवत्य् आभिर् असंशयम् अन्नम् एताभिर् एव स्याद् अशेषप्राणरक्षणम् अत्रौषध्यो जगद्वन्द्या माम् ऊचुर् अनहंकृताः
अस्माकं त्वं पतिं देहि राजानं सुरसत्तम
तच् छ्रुत्वा वचनं तासां मयोक्ता ओषधीर् इदम् पतिं प्राप्स्यथ सर्वाश् च राजानं प्रीतिवर्धनम्
राजानम् इति तच् छ्रुत्वा ता माम् ऊचुः पुनर् मुने गन्तव्यं क्व पुनश् चोक्ता गौतमीं यान्तु मातरः
तुष्टायाम् अथ तस्यां वो राजा स्याल् लोकपूजितः ताश् च गत्वा मुनिश्रेष्ठ तुष्टुवुर् गौतमीं नदीम्
किं वाकरिष्यन् भववर्तिनो जना नानाघसंघाभिभवाच् च दुःखिताः न चागमिष्यद् भवती भुवं चेत् पुण्योदके गौतमि शंभुकान्ते
को वेत्ति भाग्यं नरदेहभाजां महीगतानां सरिताम् अधीशे एषां महापातकसंघहन्त्री त्वम् अम्ब गङ्गे सुलभा सदैव
न ते विभूतिं ननु वेत्ति को ऽपि त्रैलोक्यवन्द्ये जगदम्ब गङ्गे गौरीसमालिङ्गितविग्रहो ऽपि धत्ते स्मरारिः शिरसापि यत् त्वाम्
नमो ऽस्तु ते मातर् अभीष्टदायिनि नमो ऽस्तु ते ब्रह्ममये ऽघनाशिनि नमो ऽस्तु ते विष्णुपदाब्जनिःसृते नमो ऽस्तु ते शंभुजटाविनिःसृते
इत्य् एवं स्तुवताम् ईशा किं ददामीत्य् अवोचत
पतिं देहि जगन्माता राजानम् अतितेजसम्
तदोवाच नदी गङ्गा ओषधीस् ता इदं वचः
अहं चामृतरूपास्मि ओषध्यो मातरो ऽमृताः तादृशं चामृतात्मानं पतिं सोमं ददामि वः
देवाश् च ऋषयो वाक्यं मेनिरे सोम एव च ओषध्यश् चापि तद् वाक्यं ततो जग्मुः स्वम् आलयम्
यत्र चापुर् महौषध्यो राजानम् अमृतात्मकम् सोमं समस्तसंतापपापसंघनिवारकम्
सोमतीर्थं तु तत् ख्यातं सोमपानफलप्रदम् तत्र स्नानेन दानेन पितरः स्वर्गम् आप्नुयुः
य इदं शृणुयान् नित्यं पठेद् वा भक्तितः स्मरेत् दीर्घम् आयुर् अवाप्नोति स पुत्री धनवान् भवेत्
धान्यतीर्थम् इति ख्यातं सर्वकामप्रदं नृणाम् सुभिक्षं क्षेमदं पुंसां सर्वापद्विनिवारणम्
ओषध्यः सोमराजानं पतिं प्राप्य मुदान्विताः ऊचुः सर्वस्य लोकस्य गङ्गायाश् चेप्सितं वचः
वैदिकी पुण्यगाथास्ति यां वै वेदविदो विदुः भूमिं सस्यवतीं कश्चिन् मातरं मातृसंमिताम्
गङ्गासमीपे यो दद्यात् सर्वकामान् अवाप्नुयात् भूमिं सस्यवतीं गाश् च ओषधीश् च मुदान्वितः
विष्णुब्रह्मेशरूपाय यो दद्याद् भक्तिमान् नरः सर्वं तद् अक्षयं विद्यात् सर्वकामान् अवाप्नुयात्
ओषध्यः सोमराजन्याः सोमश् चाप्य् ओषधीपतिः इति ज्ञात्वा ब्रह्मविद ओषधीर् यः प्रदास्यति
सर्वान् कामान् अवाप्नोति ब्रह्मलोके महीयते ता एव सोमराजन्याः प्रीताः प्रोचुः पुनः पुनः
यो ऽस्मान् ददाति गङ्गायां तं राजन् पारयामसि त्वम् उत्तमश् चौषधीश त्वदधीनं चराचरम्
ओषधयः संवदन्ते सोमेन सह राज्ञा यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि
वयं च ब्रह्मरूपिण्यः प्राणरूपिण्य एव च यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि
अस्मान् ददाति यो नित्यं ब्राह्मणेभ्यो जितव्रतः उपास्तिर् अस्ति सास्माकं तं राजन् पारयामसि
स्थावरं जङ्गमं किंचिद् अस्माभिर् व्यापृतं जगत् यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि
हव्यं कव्यं यद् अमृतं यत् किंचिद् उपभुज्यते तद्गरीयश् च यो दद्यात् तं राजन् पारयामसि