सौरिं शनैश्चरं मन्दं तपस्यन्तं धृतव्रतम् गत्वा मुनिगणाः सर्वे रक्षःकर्म न्यवेदयन्
सौरिर् मुनिगणान् आह पूर्णे तपसि मे द्विजाः राक्षसौ हन्म्य् अपूर्णे तु तपस्य् अक्षम एव हि
पुनः प्रोचुर् मुनिगणा दास्यामस् ते तपो महत् इत्य् उक्तो ब्राह्मणैः सौरिः कृतम् इत्य् आह तान् अपि
सौरिर् ब्राह्मणवेषेण प्रायाद् अश्वत्थरूपिणम् राक्षसं ब्राह्मणो भूत्वा प्रदक्षिणम् अथाकरोत्
प्रदक्षिणं तु कुर्वाणं मेने ब्राह्मणम् एव तम् नित्यवद् राक्षसः पापो भक्षयाम् आस मायया
तस्य कायं समाविश्य चक्षुषान्त्राण्य् अपश्यत दृष्टः स राक्षसः पापो मन्देन रविसूनुना
भस्मीभूतः क्षणेनैव गिरिर् वज्रहतो यथा अश्वत्थं भस्मसात् कृत्वा अन्यं ब्राह्मणरूपिणम्
राक्षसं पापनिलयम् एक एव तम् अभ्यगात् अधीयानो विप्र इव शिष्यरूपो विनीतवत्
पिप्पलः पूर्ववच् चापि भक्षयाम् आस भानुजम् स भक्षितः पूर्ववच् च कुक्षाव् अन्त्राण्य् अवैक्षत
तेनालोकितमात्रो ऽसौ राक्षसो भस्मसाद् अभूत् उभौ हत्वा भानुसुतः किं कृत्यं मे वदन्त्व् अथ
मुनयो जातसंहर्षाः सर्व एव तपस्विनः ततः प्रसन्ना ह्य् अभवन्न् ऋषयो ऽगस्त्यपूर्वकाः
वरान् ददुर् यथाकामं सौरये मन्दगामिने स प्रीतो ब्राह्मणान् आह शनिः सूर्यसुतो बली
मद्द्वारे नियता ये च कुर्वन्त्य् अश्वत्थलम्भनम् तेषां सर्वाणि कार्याणि स्युः पीडा मद्भवा न च
तीर्थे चाश्वत्थसंज्ञे वै स्नानं कुर्वन्ति ये नराः तेषां सर्वाणि कार्याणि भवेयुर् अपरो वरः
मन्दवारे तु ये ऽश्वत्थं प्रातर् उत्थाय मानवाः आलभन्ते च तेषां वै ग्रहपीडा व्यपोहतु
ततः प्रभृति तत् तीर्थम् अश्वत्थं पिप्पलं विदुः तीर्थं शनैश्चरं तत्र तत्रागस्त्यं च सात्त्रिकम्
याज्ञिकं चापि तत् तीर्थं सामगं तीर्थम् एव च इत्याद्यष्टोत्तराण्य् आसन् सहस्राण्य् अथ षोडश तेषु स्नानं च दानं च सत्त्रयागफलप्रदम्
सोमतीर्थम् इति ख्यातं तद् अप्य् उक्तं महात्मभिः तत्र स्नानेन दानेन सोमपानफलं लभेत्
जगतां मातरः पूर्वम् ओषध्यो जीवसंमताः ममापि मातरो देव्यः पूर्वासां पूर्ववत्तराः
आसु प्रतिष्ठितो धर्मः स्वाध्यायो यज्ञकर्म च आभिर् एव धृतं सर्वं त्रैलोक्यं सचराचरम्
अशेषरोगोपशमो भवत्य् आभिर् असंशयम् अन्नम् एताभिर् एव स्याद् अशेषप्राणरक्षणम् अत्रौषध्यो जगद्वन्द्या माम् ऊचुर् अनहंकृताः
अस्माकं त्वं पतिं देहि राजानं सुरसत्तम
तच् छ्रुत्वा वचनं तासां मयोक्ता ओषधीर् इदम् पतिं प्राप्स्यथ सर्वाश् च राजानं प्रीतिवर्धनम्
राजानम् इति तच् छ्रुत्वा ता माम् ऊचुः पुनर् मुने गन्तव्यं क्व पुनश् चोक्ता गौतमीं यान्तु मातरः
तुष्टायाम् अथ तस्यां वो राजा स्याल् लोकपूजितः ताश् च गत्वा मुनिश्रेष्ठ तुष्टुवुर् गौतमीं नदीम्
किं वाकरिष्यन् भववर्तिनो जना नानाघसंघाभिभवाच् च दुःखिताः न चागमिष्यद् भवती भुवं चेत् पुण्योदके गौतमि शंभुकान्ते
को वेत्ति भाग्यं नरदेहभाजां महीगतानां सरिताम् अधीशे एषां महापातकसंघहन्त्री त्वम् अम्ब गङ्गे सुलभा सदैव
न ते विभूतिं ननु वेत्ति को ऽपि त्रैलोक्यवन्द्ये जगदम्ब गङ्गे गौरीसमालिङ्गितविग्रहो ऽपि धत्ते स्मरारिः शिरसापि यत् त्वाम्
नमो ऽस्तु ते मातर् अभीष्टदायिनि नमो ऽस्तु ते ब्रह्ममये ऽघनाशिनि नमो ऽस्तु ते विष्णुपदाब्जनिःसृते नमो ऽस्तु ते शंभुजटाविनिःसृते
इत्य् एवं स्तुवताम् ईशा किं ददामीत्य् अवोचत