यथा तवाहं विदितो ऽस्मि पापस् तथापि विज्ञापनम् आशृणुष्व संश्रूयते यत्र वचः शिवेति तत्र स्थितिः स्यान् मम सोमनाथ
गौरीपते शंकर सोमनाथ विश्वेश कारुण्यनिधे ऽखिलात्मन् संस्तूयते यत्र सदेति तत्र केषाम् अपि स्यात् कृतिनां निवासः
इत्य् आत्रेयस्तुतिं श्रुत्वा तुतोष भगवान् हरः वरदो ऽस्मीति तं प्राह योगिनं विश्वकृद् भवः
आत्मज्ञानं च मुक्तिं च भुक्तिं च विपुलां त्वयि तीर्थस्यापि च माहात्म्यं वरो ऽयं त्रिदशार्चित
एवम् अस्त्व् इति तं शंभुर् उक्त्वा चान्तरधीयत ततः प्रभृति तत् तीर्थम् आत्मतीर्थं विदुर् बुधाः तत्र स्नानेन दानेन मुक्तिः स्याद् इह नारद
अश्वत्थतीर्थम् आख्यातं पिप्पलं च ततः परम् उत्तरे मन्दतीर्थं तु तत्र व्युष्टिम् इतः शृणु
पुरा त्व् अगस्त्यो भगवान् दक्षिणाशापतिः प्रभुः देवैस् तु प्रेरितः पूर्वं विन्ध्यस्य प्रार्थनं प्रति
स शनैर् विन्ध्यम् अभ्यागात् सहस्रमुनिभिर् वृतः तम् आगत्य नगश्रेष्ठं बहुवृक्षसमाकुलम्
स्पर्धिनं मेरुभानुभ्यां विन्ध्यं शृङ्गशतैर् वृतम् अत्युन्नतं नगं धीरो लोपामुद्रापतिर् मुनिः
कृतातिथ्यो द्विजैः सार्धं प्रशस्य च नगं पुनः इदम् आह मुनिश्रेष्ठो देवकार्यार्थसिद्धये
अहं यामि नगश्रेष्ठ मुनिभिस् तत्त्वदर्शिभिः तीर्थयात्रां करोमीति दक्षिणाशां व्रजाम्य् अहम्
देहि मार्गं नगपते आतिथ्यं देहि याचते यावद् आगमनं मे स्यात् स्थातव्यं तावद् एव हि
नान्यथा भवितव्यं ते तथेत्य् आह नगोत्तमः आक्रामन् दक्षिणाम् आशां तैर् वृतो मुनिभिर् मुनिः
शनैः स गौतमीम् आगात् सत्त्रयागाय दीक्षितः यावत् संवत्सरं सत्त्रम् अकरोद् ऋषिभिर् वृतः
कैटभस्य सुतौ पापौ राक्षसौ धर्मकण्टकौ अश्वत्थः पिप्पलश् चेति विख्यातौ त्रिदशालये
अश्वत्थो ऽश्वत्थरूपेण पिप्पलो ब्रह्मरूपधृक् ताव् उभाव् अन्तरं प्रेप्सू यज्ञविध्वंसनाय तु
कुरुतां काङ्क्षितं रूपं दानवौ पापचेतसौ अश्वत्थो वृक्षरूपेण पिप्पलो ब्राह्मणाकृतिः
उभौ तौ ब्राह्मणान् नित्यं पीडयेतां तपोधन आलभन्ते च ये ऽश्वत्थं तांस् तान् अश्नात्य् असौ तरुः
पिप्पलः सामगो भूत्वा शिष्यान् अश्नाति राक्षसः तस्माद् अद्यापि विप्रेषु सामगो ऽतीव निष्कृपः
क्षीयमाणान् द्विजान् दृष्ट्वा मुनयो राक्षसाव् इमौ इति बुद्ध्वा महाप्राज्ञा दक्षिणं तीरम् आश्रितम्
सौरिं शनैश्चरं मन्दं तपस्यन्तं धृतव्रतम् गत्वा मुनिगणाः सर्वे रक्षःकर्म न्यवेदयन्
सौरिर् मुनिगणान् आह पूर्णे तपसि मे द्विजाः राक्षसौ हन्म्य् अपूर्णे तु तपस्य् अक्षम एव हि
पुनः प्रोचुर् मुनिगणा दास्यामस् ते तपो महत् इत्य् उक्तो ब्राह्मणैः सौरिः कृतम् इत्य् आह तान् अपि
सौरिर् ब्राह्मणवेषेण प्रायाद् अश्वत्थरूपिणम् राक्षसं ब्राह्मणो भूत्वा प्रदक्षिणम् अथाकरोत्
प्रदक्षिणं तु कुर्वाणं मेने ब्राह्मणम् एव तम् नित्यवद् राक्षसः पापो भक्षयाम् आस मायया
तस्य कायं समाविश्य चक्षुषान्त्राण्य् अपश्यत दृष्टः स राक्षसः पापो मन्देन रविसूनुना
भस्मीभूतः क्षणेनैव गिरिर् वज्रहतो यथा अश्वत्थं भस्मसात् कृत्वा अन्यं ब्राह्मणरूपिणम्
राक्षसं पापनिलयम् एक एव तम् अभ्यगात् अधीयानो विप्र इव शिष्यरूपो विनीतवत्
पिप्पलः पूर्ववच् चापि भक्षयाम् आस भानुजम् स भक्षितः पूर्ववच् च कुक्षाव् अन्त्राण्य् अवैक्षत
तेनालोकितमात्रो ऽसौ राक्षसो भस्मसाद् अभूत् उभौ हत्वा भानुसुतः किं कृत्यं मे वदन्त्व् अथ