अस्मन्मखविनाशाय राक्षसाः प्रेषिता यतः तस्माद् भवद्भ्यः पापिष्ठा राक्षसाः सन्तु शत्रवः
ततः प्रभृति देवानां राक्षसा वैरिणो ऽभवन् कृत्यां च वडवां तत्र देवाश् च ऋषयो ऽमलाः
मृत्योर् भार्या भव त्वं ताम् इत्य् उक्त्वा ते ऽभ्यषेचयन् अभिषेकोदकं यत् तु सा नदी वडवाभवत्
मृत्युना स्थापितं लिङ्गं महानलम् इति श्रुतम् ततः प्रभृति तत् तीर्थं वडवासंगमं विदुः
महानलो यत्र देवस् तत् तीर्थं भुक्तिमुक्तिदम् सहस्रं तत्र तीर्थानां सर्वाभीष्टप्रदायिनाम् उभयोस् तीरयोस् तत्र स्मरणाद् अघघातिनाम्
आत्मतीर्थम् इति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् तस्य प्रभावं वक्ष्यामि यत्र ज्ञानेश्वरः शिवः
दत्त इत्य् अपि विख्यातः सो ऽत्रिपुत्रो हरप्रियः दुर्वाससः प्रियो भ्राता सर्वज्ञानविशारदः स गत्वा पितरं प्राह विनयेन प्रणम्य च
ब्रह्मज्ञानं कथं मे स्यात् कं पृच्छामि क्व यामि च
तच् छ्रुत्वात्रिः पुत्रवाक्यं ध्यात्वा वचनम् अब्रवीत्
गौतमीं पुत्र गच्छ त्वं तत्र स्तुहि महेश्वरम् स तु प्रीतो यदैव स्यात् तदा ज्ञानम् अवाप्स्यसि
तथेत्य् उक्त्वा तदात्रेयो गङ्गां गत्वा शुचिर् यतः कृताञ्जलिपुटो भूत्वा भक्त्या तुष्टाव शंकरम्
संसारकूपे पतितो ऽस्मि दैवान् मोहेन गुप्तो भवदुःखपङ्के अज्ञाननाम्ना तमसावृतो ऽहं परं न विन्दामि सुराधिनाथ
भिन्नस् त्रिशूलेन बलीयसाहं पापेन चिन्ताक्षुरपाटितश् च तप्तो ऽस्मि पञ्चेन्द्रियतीव्रतापैः श्रान्तो ऽस्मि संतारय सोमनाथ
बद्धो ऽस्मि दारिद्र्यमयैश् च बन्धैर् हतो ऽस्मि रोगानलतीव्रतापैः क्रान्तो ऽस्म्य् अहं मृत्युभुजंगमेन भीतो भृशं किं करवाणि शंभो
भवाभवाभ्याम् अतिपीडितो ऽहं तृष्णाक्षुधाभ्यां च रजस्तमोभ्याम् ईदृक्षया जरया चाभिभूतः पश्यावस्थां कृपया मे ऽद्य नाथ
कामेन कोपेन च मत्सरेण दम्भेन दर्पादिभिर् अप्य् अनेकैः एकैकशः कष्टगतो ऽस्मि विद्धस् त्वं नाथवद् वारय नाथ शत्रून्
कस्यापि कश्चित् पतितस्य पुंसो दुःखप्रणोदी भवतीति सत्यम् विना भवन्तं मम सोमनाथ कुत्रापि कारुण्यवचो ऽपि नास्ति
तावत् स कोपो भयमोहदुःखान्य् अज्ञानदारिद्र्यरुजस् तथैव कामादयो मृत्युर् अपीह यावन् नमः शिवायेति न वच्मि वाक्यम्
न मे ऽस्ति धर्मो न च मे ऽस्ति भक्तिर् नाहं विवेकी करुणा कुतो मे दातासि तेनाशु शरण्य चित्ते निधेहि सोमेति पदं मदीये
याचे न चाहं सुरभूपतित्वं हृत्पद्ममध्ये मम सोमनाथ श्रीसोमपादाम्बुजसंनिधानं याचे विचार्यैव च तत् कुरुष्व
यथा तवाहं विदितो ऽस्मि पापस् तथापि विज्ञापनम् आशृणुष्व संश्रूयते यत्र वचः शिवेति तत्र स्थितिः स्यान् मम सोमनाथ
गौरीपते शंकर सोमनाथ विश्वेश कारुण्यनिधे ऽखिलात्मन् संस्तूयते यत्र सदेति तत्र केषाम् अपि स्यात् कृतिनां निवासः
इत्य् आत्रेयस्तुतिं श्रुत्वा तुतोष भगवान् हरः वरदो ऽस्मीति तं प्राह योगिनं विश्वकृद् भवः
आत्मज्ञानं च मुक्तिं च भुक्तिं च विपुलां त्वयि तीर्थस्यापि च माहात्म्यं वरो ऽयं त्रिदशार्चित
एवम् अस्त्व् इति तं शंभुर् उक्त्वा चान्तरधीयत ततः प्रभृति तत् तीर्थम् आत्मतीर्थं विदुर् बुधाः तत्र स्नानेन दानेन मुक्तिः स्याद् इह नारद
अश्वत्थतीर्थम् आख्यातं पिप्पलं च ततः परम् उत्तरे मन्दतीर्थं तु तत्र व्युष्टिम् इतः शृणु
पुरा त्व् अगस्त्यो भगवान् दक्षिणाशापतिः प्रभुः देवैस् तु प्रेरितः पूर्वं विन्ध्यस्य प्रार्थनं प्रति
स शनैर् विन्ध्यम् अभ्यागात् सहस्रमुनिभिर् वृतः तम् आगत्य नगश्रेष्ठं बहुवृक्षसमाकुलम्
स्पर्धिनं मेरुभानुभ्यां विन्ध्यं शृङ्गशतैर् वृतम् अत्युन्नतं नगं धीरो लोपामुद्रापतिर् मुनिः
कृतातिथ्यो द्विजैः सार्धं प्रशस्य च नगं पुनः इदम् आह मुनिश्रेष्ठो देवकार्यार्थसिद्धये