महानलम् इति ख्यातं वडवानलम् उच्यते महानलो यत्र देवो वडवा यत्र सा नदी
तत् तीर्थं पुत्र वक्ष्यामि मृत्युदोषजरापहम् पुरासन् नैमिषारण्ये ऋषयः सत्त्रकारिणः
शमितारं च ऋषयो मृत्युं चक्रुस् तपस्विनः वर्तमाने सत्त्रयागे मृत्यौ शमितरि स्थिते
न ममार तदा कश्चिद् उभयं स्थास्नु जङ्गमम् विना पशून् मुनिश्रेष्ठ मर्त्यं चामर्त्यतां गतम्
ततस् त्रिविष्टपे शून्ये मर्त्ये चैवातिसंभृते मृत्युनोपेक्षिते देवा राक्षसान् ऊचिरे तदा
गच्छध्वम् ऋषिसत्त्रं तन् नाशयध्वं महाध्वरम् इति देववचः श्रुत्वा प्रोचुस् ते राक्षसाः सुरान्
विध्वंसयामस् तं यज्ञम् अस्माकं किं फलं ततः प्रवर्तते विना हेतुं न कोपि क्वापि जातुचित्
देवा अप्य् असुरान् ऊचुर् यज्ञार्धं भवताम् अपि भवेद् एव ततो यान्तु ऋषीणां सत्त्रम् उत्तमम्
ते श्रुत्वा त्वरिताः सर्वे यत्र यज्ञः प्रवर्तते जग्मुस् तत्र विनाशाय देववाक्याद् विशेषतः
तज् ज्ञात्वा ऋषयो मृत्युम् आहुः किं कुर्महे वयम् आगता देववचनाद् राक्षसा यज्ञनाशिनः
मृत्युना सह संमन्त्र्य नैमिषारण्यवासिनः सर्वे त्यक्त्वा स्वाश्रमं तं शमित्रा सह नारद
अग्निमात्रम् उपादाय त्यक्त्वा पात्रादिकं तु यत् क्रतुनिष्पत्तये जग्मुर् गौतमीं प्रति सत्वराः
तत्र स्नात्वा महेशानं रक्षणायोपतस्थिरे कृताञ्जलिपुटास् ते तु तुष्टुवुस् त्रिदशेश्वरम्
यो लीलया विश्वम् इदं चकार धाता विधाता भुवनत्रयस्य यो विश्वरूपः सदसत्परो यः सोमेश्वरं तं शरणं व्रजामः
इच्छामात्रेण यः सर्वं हन्ति पाति करोति च तम् अहं त्रिदशेशानं शरणं यामि शंकरम्
महानलं महाकायं महानागविभूषणम् महामूर्तिधरं देवं शरणं यामि शंकरम्
ततः प्रोवाच भगवान् मृत्यो का प्रीतिर् अस्तु ते
राक्षसेभ्यो भयं घोरम् आपन्नं त्रिदशेश्वर यज्ञम् अस्मांश् च रक्षस्व यावत् सत्त्रं समाप्यते
तथा चकार भगवांस् त्रिनेत्रो वृषभध्वजः शमित्रा मृत्युना सत्त्रम् ऋषीणां पूर्णतां ययौ
हविषां भागधेयाय आजग्मुर् अमराः क्रमात् तान् अवोचन् मुनिगणाः संक्षुब्धा मृत्युना सह
अस्मन्मखविनाशाय राक्षसाः प्रेषिता यतः तस्माद् भवद्भ्यः पापिष्ठा राक्षसाः सन्तु शत्रवः
ततः प्रभृति देवानां राक्षसा वैरिणो ऽभवन् कृत्यां च वडवां तत्र देवाश् च ऋषयो ऽमलाः
मृत्योर् भार्या भव त्वं ताम् इत्य् उक्त्वा ते ऽभ्यषेचयन् अभिषेकोदकं यत् तु सा नदी वडवाभवत्
मृत्युना स्थापितं लिङ्गं महानलम् इति श्रुतम् ततः प्रभृति तत् तीर्थं वडवासंगमं विदुः
महानलो यत्र देवस् तत् तीर्थं भुक्तिमुक्तिदम् सहस्रं तत्र तीर्थानां सर्वाभीष्टप्रदायिनाम् उभयोस् तीरयोस् तत्र स्मरणाद् अघघातिनाम्
आत्मतीर्थम् इति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् तस्य प्रभावं वक्ष्यामि यत्र ज्ञानेश्वरः शिवः
दत्त इत्य् अपि विख्यातः सो ऽत्रिपुत्रो हरप्रियः दुर्वाससः प्रियो भ्राता सर्वज्ञानविशारदः स गत्वा पितरं प्राह विनयेन प्रणम्य च
ब्रह्मज्ञानं कथं मे स्यात् कं पृच्छामि क्व यामि च
तच् छ्रुत्वात्रिः पुत्रवाक्यं ध्यात्वा वचनम् अब्रवीत्
गौतमीं पुत्र गच्छ त्वं तत्र स्तुहि महेश्वरम् स तु प्रीतो यदैव स्यात् तदा ज्ञानम् अवाप्स्यसि