यो मातरं सरसैर् नृत्यगीतैस् तथाभिलाषैर् अखिलैर् विनोदैः संतोषयाम् आस तदातितुष्टं तं श्रीगणेशं शरणं प्रपद्ये
सुरोपकारैर् असुरैश् च युद्धैः स्तोत्रैर् नमस्कारपरैश् च मन्त्रैः पितृप्रसादेन सदा समृद्धं तं श्रीगणेशं शरणं प्रपद्ये
जये पुराणाम् अकरोत् प्रतीपं पित्रापि हर्षात् प्रतिपूजितो यः निर्विघ्नतां चापि पुनश् चकार तस्मै गणेशाय नमस्करोमि
इति स्तुतः सुरगणैर् विघ्नेशः प्राह तान् पुनः
इतो निर्विघ्नता सत्त्रे मत्तः स्याद् असुरारिणः
देवसत्त्रे निवृत्ते तु गणेशः प्राह तान् सुरान्
स्तोत्रेणानेन ये भक्त्या मां स्तोष्यन्ति यतव्रताः तेषां दारिद्र्यदुःखानि न भवेयुः कदाचन
अत्र ये भक्तितः स्नानं दानं कुर्युर् अतन्द्रिताः तेषां सर्वाणि कार्याणि भवेयुर् इति मन्यताम्
तद्वाक्यसमकालं तु तथेत्य् ऊचुः सुरा अपि निवृत्ते तु मखे तस्मिन् सुरा जग्मुः स्वम् आलयम्
ततः प्रभृति तत् तीर्थम् अविघ्नम् इति गद्यते सर्वकामप्रदं पुंसां सर्वविघ्नविनाशनम्
शेषतीर्थम् इति ख्यातं सर्वकामप्रदायकम् तस्य रूपं प्रवक्ष्यामि यन् मया परिभाषितम्
शेषो नाम महानागो रसातलपतिः प्रभुः सर्वनागैः परिवृतो रसातलम् अथाभ्यगात्
राक्षसा दैत्यदनुजाः प्रविष्टा ये रसातलम् तैर् निरस्तो भोगिपतिर् माम् उवाचाथ विह्वलः
रसातलं त्वया दत्तं राक्षसानां ममापि च ते मे स्थानं न दास्यन्ति तस्मात् त्वां शरणं गतः
ततो ऽहम् अब्रवं नागं गौतमीं याहि पन्नग तत्र स्तुत्वा महादेवं लप्स्यसे त्वं मनोरथम्
नान्यो ऽस्ति लोकत्रितये मनोरथसमर्पकः मद्वाक्यप्रेरितो नागो गङ्गाम् आप्लुत्य यत्नतः कृताञ्जलिपुटो भूत्वा तुष्टाव त्रिदशेश्वरम्
नमस् त्रैलोक्यनाथाय दक्षयज्ञविभेदिने आदिकर्त्रे नमस् तुभ्यं नमस् त्रैलोक्यरूपिणे
नमः सहस्रशिरसे नमः संहारकारिणे सोमसूर्याग्निरूपाय जलरूपाय ते नमः
सर्वदा सर्वरूपाय कालरूपाय ते नमः पाहि शंकर सर्वेश पाहि सोमेश सर्वग जगन्नाथ नमस् तुभ्यं देहि मे मनसेप्सितम्
ततो महेश्वरः प्रीतः प्रादान् नागेप्सितान् वरान् विनाशाय सुरारीणां दैत्यदानवरक्षसाम्
शेषाय प्रददौ शूलं जह्य् अनेनारिपुंगवान् ततः प्रोक्तः शिवेनासौ शेषः शूलेन भोगिभिः
रसातलम् अथो गत्वा निजघान रिपून् रणे निहत्य नागः शूलेन दैत्यदानवराक्षसान्
न्यवर्तत पुनर् देवो यत्र शेषेश्वरो हरः पथा येन समायातो देवं द्रष्टुं स नागराट्
रसातलाद् यत्र देवो बिलं तत्र व्यजायत तस्माद् बिलतलाद् यातं गाङ्गं वार्य् अतिपुण्यदम्
तद् वारि गङ्गाम् अगमद् गङ्गायाः संगमस् ततः देवस्य पुरतश् चापि कुण्डं तत्र सुविस्तरम्
नागस् तत्राकरोद् धोमं यत्र चाग्निः सदा स्थितः सोष्णं तद् अभवद् वारि गङ्गायास् तत्र संगमः
देवदेवं समाराध्य नागः प्रीतो महायशाः रसातलं ततो ऽभीष्टं शिवात् प्राप्य तलं ययौ
ततः प्रभृति तत् तीर्थं नागतीर्थम् उदाहृतम् सर्वकामप्रदं पुण्यं रोगदारिद्र्यनाशनम्
आयुर्लक्ष्मीकरं पुण्यं स्नानदानाच् च मुक्तिदम् शृणुयाद् वा पठेद् भक्त्या यो वापि स्मरते तु तत्
तीर्थं शेषेश्वरो यत्र यत्र शक्तिप्रदः शिवः एकविंशतितीर्थानाम् उभयोस् तत्र तीरयोः शतानि मुनिशार्दूल सर्वसंपत्प्रदायिनाम्