यागः क्षणी दृष्टफले ऽसमर्थः स नैव कर्तुः फलतीति मत्वा फलस्य दाने प्रतिभूर् जटीति निश्चित्य लोकः प्रतिकर्म यातः
ततः सुरेशः संतुष्टो देवानां कार्यसिद्धये लोकानाम् उपकारार्थं तथेत्य् आह सुरान् प्रति
तद्वक्त्रं पापरूपं यद् भीषणं लोमहर्षणम् निकृत्य नखशस्त्रैश् च क्व स्थाप्यं चेत्य् अथाब्रवीत्
तत्रेला विबुधान् आह नाहं वोढुं शिरः क्षमा रसातलम् अथो यास्ये उदधिश् चाप्य् अथाब्रवीत्
शोषं यास्ये क्षणाद् एव पुनश् चोचुः शिवं सुराः त्वयैवैतद् ब्रह्मशिरो धार्यं लोकानुकम्पया
अच्छेदे जगतां नाशश् छेदे दोषश् च तादृशः एवं विमृश्य सोमेशो दधार कशिरस् तदा
तद् दृष्ट्वा दुष्करं कर्म गौतमीं प्राप्य पावनीम् अस्तुवञ् जगताम् ईशं प्रणयाद् भक्तितः सुराः
देवेष्व् अमित्रं कशिरो ऽतिभीमं तान् भक्षणायोपगतं निकृत्य नखाग्रसूच्या शकलेन्दुमौलिस् त्यागे ऽपि दोषात् कृपयानुधत्ते
तत्र ते विबुधाः सर्वे स्थिता ये ब्रह्मणो ऽन्तिके तुष्टुवुर् विबुधेशानं कर्म दृष्ट्वातिदैवतम्
ततः प्रभृति तत् तीर्थं ब्रह्मतीर्थम् इति श्रुतम् अद्यापि ब्रह्मणो रूपं चतुर्मुखम् अवस्थितम्
शिरोमात्रं तु यः पश्येत् स गच्छेद् ब्रह्मणः पदम् यत्र स्थित्वा स्वयं रुद्रो लूनवान् ब्रह्मणः शिरः
रुद्रतीर्थं तद् एव स्यात् तत्र साक्षाद् दिवाकरः देवानां च स्वरूपेण स्थितो यस्मात् तद् उत्तमम्
सौर्यं तीर्थं तद् आख्यातं सर्वक्रतुफलप्रदम् तत्र स्नात्वा रविं दृष्ट्वा पुनर्जन्म न विद्यते
महादेवेन यच् छिन्नं ब्रह्मणः पञ्चमं शिरः क्षेत्रे ऽविमुक्ते संस्थाप्य देवतानां हितं कृतम्
ब्रह्मतीर्थे शिरोमात्रं यो दृष्ट्वा गौतमीतटे क्षेत्रे ऽविमुक्ते तस्यैव स्थापितं यो ऽनुपश्यति कपालं ब्रह्मणः पुण्यं ब्रह्महा पूततां व्रजेत्
अविघ्नं तीर्थम् आख्यातं सर्वविघ्नविनाशनम् तत्रापि वृत्तम् आख्यास्ये शृणु नारद भक्तितः
देवसत्त्रे प्रवृत्ते तु गौतम्याश् चोत्तरे तटे समाप्तिर् नैव सत्त्रस्य संजाता विघ्नदोषतः
ततः सुरगणाः सर्वे माम् अवोचन् हरिं तदा ततो ध्यानगतो ऽहं तान् अवोचं वीक्ष्य कारणम्
विनायककृतैर् विघ्नैर् नैतत् सत्त्रं समाप्यते तस्मात् स्तुवन्तु ते सर्वे आदिदेवं विनायकम्
तथेत्य् उक्त्वा सुरगणाः स्नात्वा ते गौतमीतटे अस्तुवन् भक्तितो देवा आदिदेवं गणेश्वरम्
यः सर्वकार्येषु सदा सुराणाम् अपीशविष्ण्वम्बुजसंभवानाम् पूज्यो नमस्यः परिचिन्तनीयस् तं विघ्नराजं शरणं व्रजामः
न विघ्नराजेन समो ऽस्ति कश्चिद् देवो मनोवाञ्छितसंप्रदाता निश्चित्य चैतत् त्रिपुरान्तको ऽपि तं पूजयाम् आस वधे पुराणाम्
करोतु सो ऽस्माकम् अविघ्नम् अस्मिन् महाक्रतौ सत्वरम् आम्बिकेयः ध्यातेन येनाखिलदेहभाजां पूर्णा भविष्यन्ति मनोभिलाषाः
महोत्सवो ऽभूद् अखिलस्य देव्या जातः सुतश् चिन्तितमात्र एव अतो ऽवदन् सुरसंघाः कृतार्थाः सद्योजातं विघ्नराजं नमन्तः
यो मातुर् उत्सङ्गगतो ऽथ मात्रा निवार्यमाणो ऽपि बलाच् च चन्द्रम् संगोपयाम् आस पितुर् जटासु गणाधिनाथस्य विनोद एषः
पपौ स्तनं मातुर् अथापि तृप्तो यो भ्रातृमात्सर्यकषायबुद्धिः लम्बोदरस् त्वं भव विघ्नराजो लम्बोदरं नाम चकार शंभुः
संवेष्टितो देवगणैर् महेशः प्रवर्ततां नृत्यम् इतीत्य् उवाच संतोषितो नूपुररावमात्राद् गणेश्वरत्वे ऽभिषिषेच पुत्रम्
यो विघ्नपाशं च करेण बिभ्रत् स्कन्धे कुठारं च तथा परेण अपूजितो विघ्नम् अथो ऽपि मातुः करोति को विघ्नपतेः समो ऽन्यः
धर्मार्थकामादिषु पूर्वपूज्यो देवासुरैः पूज्यत एव नित्यम् यस्यार्चनं नैव विनाशम् अस्ति तं पूर्वपूज्यं प्रथमं नमामि
यस्यार्चनात् प्रार्थनयानुरूपां दृष्ट्वा तु सर्वस्य फलस्य सिद्धिम् स्वतन्त्रसामर्थ्यकृतातिगर्वं भ्रातृप्रियं त्व् आखुरथं तम् ईडे