तेषु स्नानम् अथो दानं पितॄणां चैव तर्पणम् सर्वं तद् अक्षयं ज्ञेयं शिवस्य वचनं यथा
यस् त्व् इदं शृणुयान् नित्यं स्मरेद् अपि पठेत् तथा आख्यानं मातृतीर्थानाम् आयुष्मान् स सुखी भवेत्
इदम् अप्य् अपरं तीर्थं देवानाम् अपि दुर्लभम् ब्रह्मतीर्थम् इति ख्यातं भुक्तिमुक्तिप्रदं नृणाम्
स्थितेषु देवसैन्येषु प्रविष्टेषु रसातलम् दैत्येषु च मुनिश्रेष्ठ तथा मातृषु तान् अनु
मदीयं पञ्चमं वक्त्रं गर्दभाकृति भीषणम् तद् वक्त्रं देवसैन्येषु मयि तिष्ठत्य् उवाच ह
हे दैत्याः किं पलायन्ते न भयं वो ऽस्तु सत्वरम् आगच्छन्तु सुरान् सर्वान् भक्षयिष्ये क्षणाद् इति
निवारयन्तं माम् एवं भक्षणायोद्यतं तथा तं दृष्ट्वा विबुधाः सर्वे वित्रस्ता विष्णुम् अब्रुवन्
त्राहि विष्णो जगन्नाथ ब्रह्मणो ऽस्य मुखं लुन चक्रधृग् विबुधान् आह च्छेद्मि चक्रेण वै शिरः
किं तु तच् छिन्नम् एवेदं संहरेत् सचराचरम् मन्त्रं ब्रूमो ऽत्र विबुधाः श्रूयतां सर्वम् एव हि
त्रिनेत्रः कशिरश् छेत्ता स च धत्ते न संशयः मया च शंभुः सर्वैश् च स्तुतः प्रोक्तस् तथैव च
यागः क्षणी दृष्टफले ऽसमर्थः स नैव कर्तुः फलतीति मत्वा फलस्य दाने प्रतिभूर् जटीति निश्चित्य लोकः प्रतिकर्म यातः
ततः सुरेशः संतुष्टो देवानां कार्यसिद्धये लोकानाम् उपकारार्थं तथेत्य् आह सुरान् प्रति
तद्वक्त्रं पापरूपं यद् भीषणं लोमहर्षणम् निकृत्य नखशस्त्रैश् च क्व स्थाप्यं चेत्य् अथाब्रवीत्
तत्रेला विबुधान् आह नाहं वोढुं शिरः क्षमा रसातलम् अथो यास्ये उदधिश् चाप्य् अथाब्रवीत्
शोषं यास्ये क्षणाद् एव पुनश् चोचुः शिवं सुराः त्वयैवैतद् ब्रह्मशिरो धार्यं लोकानुकम्पया
अच्छेदे जगतां नाशश् छेदे दोषश् च तादृशः एवं विमृश्य सोमेशो दधार कशिरस् तदा
तद् दृष्ट्वा दुष्करं कर्म गौतमीं प्राप्य पावनीम् अस्तुवञ् जगताम् ईशं प्रणयाद् भक्तितः सुराः
देवेष्व् अमित्रं कशिरो ऽतिभीमं तान् भक्षणायोपगतं निकृत्य नखाग्रसूच्या शकलेन्दुमौलिस् त्यागे ऽपि दोषात् कृपयानुधत्ते
तत्र ते विबुधाः सर्वे स्थिता ये ब्रह्मणो ऽन्तिके तुष्टुवुर् विबुधेशानं कर्म दृष्ट्वातिदैवतम्
ततः प्रभृति तत् तीर्थं ब्रह्मतीर्थम् इति श्रुतम् अद्यापि ब्रह्मणो रूपं चतुर्मुखम् अवस्थितम्
शिरोमात्रं तु यः पश्येत् स गच्छेद् ब्रह्मणः पदम् यत्र स्थित्वा स्वयं रुद्रो लूनवान् ब्रह्मणः शिरः
रुद्रतीर्थं तद् एव स्यात् तत्र साक्षाद् दिवाकरः देवानां च स्वरूपेण स्थितो यस्मात् तद् उत्तमम्
सौर्यं तीर्थं तद् आख्यातं सर्वक्रतुफलप्रदम् तत्र स्नात्वा रविं दृष्ट्वा पुनर्जन्म न विद्यते
महादेवेन यच् छिन्नं ब्रह्मणः पञ्चमं शिरः क्षेत्रे ऽविमुक्ते संस्थाप्य देवतानां हितं कृतम्
ब्रह्मतीर्थे शिरोमात्रं यो दृष्ट्वा गौतमीतटे क्षेत्रे ऽविमुक्ते तस्यैव स्थापितं यो ऽनुपश्यति कपालं ब्रह्मणः पुण्यं ब्रह्महा पूततां व्रजेत्
अविघ्नं तीर्थम् आख्यातं सर्वविघ्नविनाशनम् तत्रापि वृत्तम् आख्यास्ये शृणु नारद भक्तितः
देवसत्त्रे प्रवृत्ते तु गौतम्याश् चोत्तरे तटे समाप्तिर् नैव सत्त्रस्य संजाता विघ्नदोषतः
ततः सुरगणाः सर्वे माम् अवोचन् हरिं तदा ततो ध्यानगतो ऽहं तान् अवोचं वीक्ष्य कारणम्
विनायककृतैर् विघ्नैर् नैतत् सत्त्रं समाप्यते तस्मात् स्तुवन्तु ते सर्वे आदिदेवं विनायकम्
तथेत्य् उक्त्वा सुरगणाः स्नात्वा ते गौतमीतटे अस्तुवन् भक्तितो देवा आदिदेवं गणेश्वरम्