ततश् च तुष्टो भगवान् आदिकर्ता त्रिलोचनः
दास्ये ऽहं यद् अभीष्टं वो ब्रुवन्तु सुरसत्तमाः
दानवेभ्यो भयं घोरं तत्रैहि वृषभध्वज जहि शत्रून् सुरान् पाहि नाथवन्तस् त्वया प्रभो
निष्कारणः सुहृच् छंभो नाभविष्यद् भवान् यदि तदाकरिष्यन् किम् इव दुःखार्ताः सर्वदेहिनः
इत्य् उक्तस् तत्क्षणात् प्रायाद् यत्र ते देवशत्रवः तत्र तद् युद्धम् अभवच् छंकरेण सुरद्विषाम्
ततस् त्रिलोचनः श्रान्तस् तमोरूपधरः शिवः ललाटाद् व्यपतंस् तस्य युध्यतः स्वेदबिन्दवः
स संहरन् दैत्यगणांस् तामसीं मूर्तिम् आश्रितः तां मूर्तिम् असुरा दृष्ट्वा मेरुपृष्ठाद् भुवं ययुः
स संहरन् सर्वदैत्यांस् तदागच्छद् भुवं हरः इतश् चेतश् च भीतास् ते ऽधावन् सर्वां महीम् इमाम्
तथैव कोपाद् रुद्रो ऽपि शत्रूंस् तान् अनुधावति तथैव युध्यतः शंभोः पतिताः स्वेदबिन्दवः
यत्र यत्र भुवं प्राप्तो बिन्दुर् माहेश्वरो मुने तत्र तत्र शिवाकारा मातरो जज्ञिरे ततः
प्रोचुर् महेश्वरं सर्वाः खादामस् त्व् असुरान् इति ततः प्रोवाच भगवान् सर्वैः सुरगणैर् वृतः
स्वर्गाद् भुवम् अनुप्राप्ता राक्षसास् ते रसातलम् अनुप्राप्तास् ततः सर्वाः शृण्वन्तु मम भाषितम्
यत्र यत्र द्विषो यान्ति तत्र गच्छन्तु मातरः रसातलम् अनुप्राप्ता इदानीं मद्भयाद् द्विषः भवत्यो ऽप्य् अनुगच्छन्तु रसातलम् अनु द्विषः
ताश् च जग्मुर् भुवं भित्त्वा यत्र ते दैत्यदानवाः तान् हत्वा मातरः सर्वान् देवारीन् अतिभीषणान्
पुनर् देवान् उपाजग्मुः पथा तेनैव मातरः गताश् च मातरो यावद् यावच् च पुनर् आगताः
तावद् देवाः स्थिता आसन् गौतमीतीरम् आश्रिताः प्रस्थानात् तत्र मातॄणां सुराणां च प्रतिष्ठितेः
प्रतिष्ठानं तु तत् क्षेत्रं पुण्यं विजयवर्धनम् मातॄणां यत्र चोत्पत्तिर् मातृतीर्थं पृथक् पृथक्
तत्र तत्र बिलान्य् आसन् रसातलगतानि च सुरास् ताभ्यो वरान् प्रोचुर् लोके पूजां यथा शिवः
प्राप्नोति तद्वन् मातृभ्यः पूजा भवतु सर्वदा इत्य् उक्त्वान्तर्दधुर् देवा आसंस् तत्रैव मातरः
यत्र यत्र स्थिता देव्यो मातृतीर्थं ततो विदुः सुराणाम् अपि सेव्यानि किं पुनर् मानुषादिभिः
तेषु स्नानम् अथो दानं पितॄणां चैव तर्पणम् सर्वं तद् अक्षयं ज्ञेयं शिवस्य वचनं यथा
यस् त्व् इदं शृणुयान् नित्यं स्मरेद् अपि पठेत् तथा आख्यानं मातृतीर्थानाम् आयुष्मान् स सुखी भवेत्
इदम् अप्य् अपरं तीर्थं देवानाम् अपि दुर्लभम् ब्रह्मतीर्थम् इति ख्यातं भुक्तिमुक्तिप्रदं नृणाम्
स्थितेषु देवसैन्येषु प्रविष्टेषु रसातलम् दैत्येषु च मुनिश्रेष्ठ तथा मातृषु तान् अनु
मदीयं पञ्चमं वक्त्रं गर्दभाकृति भीषणम् तद् वक्त्रं देवसैन्येषु मयि तिष्ठत्य् उवाच ह
हे दैत्याः किं पलायन्ते न भयं वो ऽस्तु सत्वरम् आगच्छन्तु सुरान् सर्वान् भक्षयिष्ये क्षणाद् इति
निवारयन्तं माम् एवं भक्षणायोद्यतं तथा तं दृष्ट्वा विबुधाः सर्वे वित्रस्ता विष्णुम् अब्रुवन्
त्राहि विष्णो जगन्नाथ ब्रह्मणो ऽस्य मुखं लुन चक्रधृग् विबुधान् आह च्छेद्मि चक्रेण वै शिरः
किं तु तच् छिन्नम् एवेदं संहरेत् सचराचरम् मन्त्रं ब्रूमो ऽत्र विबुधाः श्रूयतां सर्वम् एव हि
त्रिनेत्रः कशिरश् छेत्ता स च धत्ते न संशयः मया च शंभुः सर्वैश् च स्तुतः प्रोक्तस् तथैव च