द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः
कनीयसी तु महती पत्नी परमधर्मिणी अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि
और्वस् ताभ्यां वरं प्रादात् तद् बुध्यध्वं द्विजोत्तमाः षष्टिं पुत्रसहस्राणि गृह्णात्व् एका नितम्बिनी
एकं वंशधरं त्व् एका यथेष्टं वरयत्व् इति तत्रैका जगृहे पुत्रान् षष्टिसाहस्रसंमितान्
एकं वंशधरं त्व् एका तथेत्य् आह ततो मुनिः राजा पञ्चजनो नाम बभूव स महाद्युतिः
इतरा सुषुवे तुम्बीं बीजपूर्णाम् इति श्रुतिः तत्र षष्टिसहस्राणि गर्भास् ते तिलसंमिताः
संबभूवुर् यथाकालं ववृधुश् च यथासुखम् घृतपूर्णेषु कुम्भेषु तान् गर्भान् निदधे ततः
धात्रीश् चैकैकशः प्रादात् तावतीः पोषणे नृपः ततो दशसु मासेषु समुत्तस्थुर् यथाक्रमम्
कुमारास् ते यथाकालं सगरप्रीतिवर्धनाः षष्टिपुत्रसहस्राणि तस्यैवम् अभवन् द्विजाः
गर्भाद् अलाबूमध्याद् वै जातानि पृथिवीपतेः तेषां नारायणं तेजः प्रविष्टानां महात्मनाम्
एकः पञ्चजनो नाम पुत्रो राजा बभूव ह शूरः पञ्चजनस्यासीद् अंशुमान् नाम वीर्यवान्
दिलीपस् तस्य तनयः खट्वाङ्ग इति विश्रुतः येन स्वर्गाद् इहागत्य मुहूर्तं प्राप्य जीवितम्
त्रयो ऽभिसंधिता लोका बुद्ध्या सत्येन चानघाः दिलीपस्य तु दायादो महाराजो भगीरथः
यः स गङ्गां सरिच्छ्रेष्ठाम् अवातारयत प्रभुः समुद्रम् आनयच् चैनां दुहितृत्वे ऽप्य् अकल्पयत्
तस्माद् भागीरथी गङ्गा कथ्यते वंशचिन्तकैः भगीरथसुतो राजा श्रुत इत्य् अभिविश्रुतः
नाभागस् तु श्रुतस्यासीत् पुत्रः परमधार्मिकः अम्बरीषस् तु नाभागिः सिन्धुद्वीपपिताभवत्
अयुताजित् तु दायादः सिन्धुद्वीपस्य वीर्यवान् अयुताजित्सुतस् त्व् आसीद् ऋतुपर्णो महायशाः
दिव्याक्षहृदयज्ञो वै राजा नलसखो बली ऋतुपर्णसुतस् त्व् आसीद् आर्तपर्णिर् महायशाः
सुदासस् तस्य तनयो राजा इन्द्रसखो ऽभवत् सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः
ख्यातः कल्माषपादो वै राजा मित्रसहो ऽभवत् कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः
अनरण्यस् तु पुत्रो ऽभूद् विश्रुतः सर्वकर्मणः अनरण्यसुतो निघ्नो निघ्नतो द्वौ बभूवतुः
अनमित्रो रघुश् चैव पार्थिवर्षभसत्तमौ अनमित्रसुतो राजा विद्वान् दुलिदुहो ऽभवत्
दिलीपस् तनयस् तस्य रामस्य प्रपितामहः दीर्घबाहुर् दिलीपस्य रघुर् नाम्ना सुतो ऽभवत्
अयोध्यायां महाराजो यः पुरासीन् महाबलः अजस् तु राघवो जज्ञे तथा दशरथो ऽप्य् अजात्
रामो दशरथाज् जज्ञे धर्मात्मा सुमहायशाः रामस्य तनयो जज्ञे कुश इत्य् अभिसंज्ञितः
अतिथिस् तु कुशाज् जज्ञे धर्मात्मा सुमहायशाः अतिथेस् त्व् अभवत् पुत्रो निषधो नाम वीर्यवान्
निषधस्य नलः पुत्रो नभः पुत्रो नलस्य च नभस्य पुण्डरीकस् तु क्षेमधन्वा ततः स्मृतः
क्षेमधन्वसुतस् त्व् आसीद् देवानीकः प्रतापवान् आसीद् अहीनगुर् नाम देवानीकात्मजः प्रभुः
अहीनगोस् तु दायादः सुधन्वा नाम पार्थिवः सुधन्वनः सुतश् चापि ततो जज्ञे शलो नृपः
उक्यो नाम स धर्मात्मा शलपुत्रो बभूव ह वज्रनाभः सुतस् तस्य नलस् तस्य महात्मनः