कान्तं दर्शय भद्रं ते वृथा याति वयो मम
ततः सा दर्शयाम् आस सर्पं तम् अतिभीषणम् सुगन्धकुसुमाकीर्णे शयने सा रहोगता
तं दृष्ट्वा भीषणं सर्पं भर्तारं रत्नभूषितम् कृताञ्जलिपुटा वाक्यम् अवदत् कान्तम् अञ्जसा
धन्यास्म्य् अनुगृहीतास्मि यस्या मे दैवतं पतिः
इत्य् उक्त्वा शयने स्थित्वा तं सर्पं सर्पभावनैः खेलयाम् आस तन्वङ्गी गीतैश् चैवाङ्गसंगमैः
सुगन्धकुसुमैः पानैस् तोषयाम् आस तं पतिम् तस्याश् चैव प्रसादेन सर्पस्याभूत् स्मृतिर् मुने स्मृत्वा सर्वं दैवकृतं रात्रौ सर्पो ऽब्रवीत् प्रियाम्
राजकन्यापि मां दृष्ट्वा न भीतासि कथं प्रिये सोवाच दैवविहितं को ऽतिक्रमितुम् ईश्वरः पतिर् एव गतिः स्त्रीणां सर्वदैव विशेषतः
श्रुत्वेति हृष्टस् ताम् आह नागः प्रहसिताननः
तुष्टो ऽस्मि तव भक्त्याहं किं ददामि तवेप्सितम् तव प्रसादाच् चार्वङ्गि सर्वस्मृतिर् अभूद् इयम्
शप्तो ऽहं देवदेवेन कुपितेन पिनाकिना महेश्वरकरे नागः शेषपुत्रो महाबलः
सो ऽहं पतिस् त्वं च भार्या नाम्ना भोगवती पुरा उमावाक्याज् जहासोच्चैः शंभुः प्रीतो रहोगतः
ममापि चागतं भद्रे हास्यं तद्देवसंनिधौ ततस् तु कुपितः शंभुः प्रादाच् छापं ममेदृशम्
मनुष्ययोनौ त्वं सर्पो भविता ज्ञानवान् इति
ततः प्रसादितः शंभुस् त्वया भद्रे मया सह ततश् चोक्तं तेन भद्रे गौतम्यां मम पूजनम्
कुर्वतो ज्ञानम् आधास्ये यदा सर्पाकृतेस् तव तदा विशापो भविता भोगवत्याः प्रसादतः
तस्माद् इदं ममापन्नं तव चापि शुभानने तस्मान् नीत्वा गौतमीं मां पूजां कुरु मया सह
ततो विशापो भविता आवां यावः शिवं पुनः सर्वेषां सर्वदार्तानां शिव एव परा गतिः
तच् छ्रुत्वा भर्तृवचनं सा भर्त्रा गौतमीं ययौ ततः स्नात्वा तु गौतम्यां पूजां चक्रे शिवस्य तु
ततः प्रसन्नो भगवान् दिव्यरूपं ददौ मुने आपृच्छ्य पितरौ सर्पो भार्यया गन्तुम् उद्यतः शिवलोकं ततो ज्ञात्वा पिता प्राह महामतिः
युवराज्यधरो ज्येष्ठः पुत्र एको भवान् इति तस्माद् राज्यम् अशेषेण कृत्वोत्पाद्य सुतान् बहून् याते मयि परं धाम ततो याहि शिवं पुरम्
एतच् छ्रुत्वा पितृवचस् तथेत्य् आह स नागराट् कामरूपम् अवाप्याथ भार्यया सह सुव्रतः
पित्रा मात्रा तथा पुत्रै राज्यं कृत्वा सुविस्तरम् याते पितरि स्वर्लोकं पुत्रान् स्थाप्य स्वके पदे
भार्यामात्यादिसहितस् ततः शिवपुरं ययौ ततः प्रभृति तत् तीर्थं नागतीर्थम् इति श्रुतम्
यत्र नागेश्वरो देवो भोगवत्या प्रतिष्ठितः तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम्
मातृतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् आधिभिर् मुच्यते जन्तुस् तत्तीर्थस्मरणाद् अपि
देवानाम् असुराणां च संगरो ऽभूत् सुदारुणः नाशक्नुवंस् तदा जेतुं देवा दानवसंगरम्
तदाहम् अगमं देवैस् तिष्ठन्तं शूलपाणिनम् अस्तवं विविधैर् वाक्यैः कृताञ्जलिपुटः शनैः
संमन्त्र्य देवैर् असुरैश् च सर्वैर् यदाहृतं संमथितुं समुद्रम् यत् कालकूटं समभून् महेश तत् त्वां विना को ग्रसितुं समर्थः
पुष्पप्रहारेण जगत्त्रयं यः स्वाधीनम् आपादयितुं समर्थः मारो हरे ऽप्य् अन्यसुरादिवन्द्यो वितायमानो विलयं प्रयातः
विमथ्य वारीशम् अनङ्गशत्रो यद् उत्तमं तत् तु दिवौकसेभ्यः दत्त्वा विषं संहरन् नीलकण्ठ को वा धर्तुं त्वाम् ऋते वै समर्थः