लक्षितो ऽसि महाराज यत् ते मनसि वर्तते यच् छूरसेन कृत्यं स्याद् अनुजानीहि मां ततः
वृद्धामात्यवचः श्रुत्वा भूषणाच्छादनोक्तिभिः संपूज्य प्रेषयाम् आस महत्या सेनया सह
स पूर्वदेशम् आगत्य महाराजं समेत्य च संपूज्य विविधैर् वाक्यैर् उपायैर् नीतिसंभवैः
महाराजसुतायाश् च भोगवत्या महामतिः शूरसेनस्य नृपतेः सूनोर् नागस्य धीमतः
विवाहायाकरोत् संधिं मिथ्यामिथ्यावचोउक्तिभिः पूजयाम् आस नृपतिं भूषणाच्छादनादिभिः
अवाप्य पूजां नृपतिर् ददामीत्य् अवदत् तदा तत आगत्य राज्ञे ऽसौ वृद्धामात्यो महामतिः
शूरसेनाय तद् वृत्तं वैवाहिकम् अवेदयत् ततो बहुतिथे काले वृद्धामात्यो महामतिः
पुनर् बलेन महता वस्त्रालंकारभूषितः जगाम तरसा सर्वैर् अन्यैश् च सचिवैर् वृतः
विवाहाय महामात्यो महाराजाय बुद्धिमान् सर्वं प्रोवाच वृद्धो ऽसाव् अमात्यः सचिवैर् वृतः
अत्रागन्तुं न चायाति शूरसेनस्य भूपतेः पुत्रो नाग इति ख्यातो बुद्धिमान् गुणसागरः
क्षत्रियाणां विवाहाश् च भवेयुर् बहुधा नृप तस्माच् छस्त्रैर् अलंकारैर् विवाहः स्यान् महामते
क्षत्रिया ब्राह्मणाश् चैव सत्यां वाचं वदन्ति हि तस्माच् छस्त्रैर् अलंकारैर् विवाहस् त्व् अनुमन्यताम्
वृद्धामात्यवचः श्रुत्वा विजयो राजसत्तमः मेने वाक्यं तथा सत्यम् अमात्यं भूपतिं तदा
विवाहम् अकरोद् राजा भोगवत्याः सविस्तरम् शस्त्रेण च यथाशास्त्रं प्रेषयाम् आस तां पुनः
स्वान् अमात्यांस् तथा गाश् च हिरण्यतुरगादिकम् बहु दत्त्वाथ विजयो हर्षेण महता युतः
ताम् आदायाथ सचिवा वृद्धामात्यपुरोगमाः प्रतिष्ठानम् अथाभ्येत्य शूरसेनाय तां स्नुषाम्
न्यवेदयंस् तथोचुस् ते विजयस्य वचो बहु भूषणानि विचित्राणि दास्यो वस्त्रादिकं च यत्
निवेद्य शूरसेनाय कृतकृत्या बभूविरे विजयस्य तु ये ऽमात्या भोगवत्या सहागताः
तान् पूजयित्वा राजासौ बहुमानपुरःसरम् विजयाय यथा प्रीतिस् तथा कृत्वा व्यसर्जयत्
विजयस्य सुता बाला रूपयौवनशालिनी श्वश्रूश्वशुरयोर् नित्यं शुश्रूषन्ती सुमध्यमा
भोगवत्याश् च यो भर्ता महासर्पो ऽतिभीषणः एकान्तदेशे विजने गृहे रत्नसुशोभिते
सुगन्धकुसुमाकीर्णे तत्रास्ते सुखशीतले स सर्पो मातरं प्राह पितरं च पुनः पुनः
मम भार्या राजपुत्री किं मां नैवोपसर्पति तत् पुत्रवचनं श्रुत्वा सर्पमातेदम् अब्रवीत्
धात्रिके गच्छ सुभगे शीघ्रं भोगवतीं वद तव भर्ता सर्प इति ततः सा किं वदिष्यति
धात्रिका च तथेत्य् उक्त्वा गत्वा भोगवतीं तदा रहोगता उवाचेदं विनीतवद् अपूर्ववत्
जाने ऽहं सुभगे भद्रे भर्तारं तव दैवतम् न चाख्येयं त्वया क्वापि सर्पो न पुरुषो ध्रुवम्
तस्यास् तद् वचनं श्रुत्वा भोगवत्य् अब्रवीद् इदम्
मानुषीणां मनुष्यो हि भर्ता सामान्यतो भवेत् किं पुनर् देवजातिस् तु भर्ता पुण्येन लभ्यते
भोगवत्यास् तु तद् वाक्यं सा च सर्वं न्यवेदयत् सर्पाय सर्पमात्रे च राज्ञे चैव यथाक्रमम्
रुरोद राजा तद्वाक्यात् स्मृत्वा तां कर्मणो गतिम् भोगवत्य् अपि तां प्राह उक्तपूर्वां पुनः सखीम्