यस्य शब्दाद् अपि त्रासं यान्ति शूराश् च पूरुषाः तस्मै कन्यां तु को दद्याद् वद पुत्र करोमि किम्
तत् पितुर् वचनं श्रुत्वा सर्पः प्राह विचक्षणः
विवाहा बहवो राजन् राज्ञां सन्ति जनेश्वर प्रसह्याहरणं चापि शस्त्रैर् वैवाह एव च
जाते विवाहे पुत्रस्य पितासौ कृतकृद् भवेत् नो चेद् अत्रैव गङ्गायां मरिष्ये नात्र संशयः
तत् पुत्रनिश्चयं ज्ञात्वा अपुत्रो नृपसत्तमः विवाहार्थम् अमात्यांस् तान् आहूयेदं वचो ऽब्रवीत्
नागेश्वरो मम सुतो युवराजो गुणाकरः गुणवान् मतिमाञ् शूरो दुर्जयः शत्रुतापनः
रथे नागे स धनुषि पृथिव्यां नोपमीयते विवाहस् तस्य कर्तव्यो ह्य् अहं वृद्धस् तथैव च
राज्यभारं सुते न्यस्य निश्चिन्तो ऽहं भवाम्य् अतः न दारसंग्रहो यावत् तावत् पुत्रो मम प्रियः
बालभावं नो जहाति तस्मात् सर्वे ऽनुमन्य च विवाहायाथ कुर्वन्तु यत्नं मम हिते रताः
न मे काचित् तदा चिन्ता कृतोद्वाहो यदात्मजः सुते न्यस्तभरा यान्ति कृतिनस् तपसे वनम्
अमात्या राजवचनं श्रुत्वा सर्वे विनीतवत् ऊचुः प्राञ्जलयो हर्षाद् राजानं भूरितेजसम्
तव पुत्रो गुणज्येष्ठस् त्वं च सर्वत्र विश्रुतः विवाहे तव पुत्रस्य किं मन्त्र्यं किं तु चिन्त्यते
अमात्येषु तथोक्तेषु गम्भीरो नृपसत्तमः पुत्रं सर्पं त्व् अमात्यानां न चाख्याति न ते विदुः
राजा पुनस् तान् उवाच का स्यात् कन्या गुणाधिका महावंशभवः श्रीमान् को राजा स्याद् गुणाश्रयः
संबन्धयोग्यः शूरश् च यत्संबन्धः प्रशस्यते तद् राजवचनं श्रुत्वा अमात्यानां महामतिः
कुलीनः साधुर् अत्यन्तं राजकार्यहिते रतः राज्ञो मतिं विदित्वा तु इङ्गितज्ञो ऽब्रवीद् इदम्
पूर्वदेशे महाराज विजयो नाम भूपतिः वाजिवारणरत्नानां यस्य संख्या न विद्यते
अष्टौ पुत्रा महेष्वासा महाराजस्य धीमतः तेषां स्वसा भोगवती साक्षाल् लक्ष्मीर् इवापरा तव पुत्रस्य योग्या सा भार्या राजन् मयोदिता
वृद्धामात्यवचः श्रुत्वा राजा तं प्रत्यभाषत
सुता तस्य कथं मे ऽस्य सुतस्य स्याद् वदस्व तत्
लक्षितो ऽसि महाराज यत् ते मनसि वर्तते यच् छूरसेन कृत्यं स्याद् अनुजानीहि मां ततः
वृद्धामात्यवचः श्रुत्वा भूषणाच्छादनोक्तिभिः संपूज्य प्रेषयाम् आस महत्या सेनया सह
स पूर्वदेशम् आगत्य महाराजं समेत्य च संपूज्य विविधैर् वाक्यैर् उपायैर् नीतिसंभवैः
महाराजसुतायाश् च भोगवत्या महामतिः शूरसेनस्य नृपतेः सूनोर् नागस्य धीमतः
विवाहायाकरोत् संधिं मिथ्यामिथ्यावचोउक्तिभिः पूजयाम् आस नृपतिं भूषणाच्छादनादिभिः
अवाप्य पूजां नृपतिर् ददामीत्य् अवदत् तदा तत आगत्य राज्ञे ऽसौ वृद्धामात्यो महामतिः
शूरसेनाय तद् वृत्तं वैवाहिकम् अवेदयत् ततो बहुतिथे काले वृद्धामात्यो महामतिः
पुनर् बलेन महता वस्त्रालंकारभूषितः जगाम तरसा सर्वैर् अन्यैश् च सचिवैर् वृतः
विवाहाय महामात्यो महाराजाय बुद्धिमान् सर्वं प्रोवाच वृद्धो ऽसाव् अमात्यः सचिवैर् वृतः
अत्रागन्तुं न चायाति शूरसेनस्य भूपतेः पुत्रो नाग इति ख्यातो बुद्धिमान् गुणसागरः