दिवाकरो देवमयस् तत्रास्माभिः प्रतिष्ठितः यत्र गङ्गा जगद्धात्री यत्र वै त्र्यम्बकः स्वयम् सुरवासं प्रतिष्ठानं भवेद् यत्र च त्र्यम्बकम्
आपृच्छ्य पिप्पलादं तं सुराः स्वं सदनं ययुः पिप्पलाः कालपर्याये स्वर्गं जग्मुर् अथाक्षयम्
पादपानां पदं विप्रः पिप्पलादः प्रतापवान् क्षेत्राधिपत्ये संस्थाप्य पूजयाम् आस शंकरम्
दधीचिसूनुर् मुनिर् उग्रतेजा अवाप्य भार्यां गौतमस्यात्मजां च पुत्रान् अथावाप्य श्रियं यशश् च सुहृज्जनैः स्वर्गम् अवाप धीरः
ततः प्रभृति तत् तीर्थं पिप्पलेश्वरम् उच्यते सर्वक्रतुफलं पुण्यं स्मरणाद् अघनाशनम्
किं पुनः स्नानदानाभ्याम् आदित्यस्य तु दर्शनात् चक्रेश्वरः पिप्पलेशो देवदेवस्य नामनी
सरहस्यं विदित्वा तु सर्वकामान् अवाप्नुयात् सूर्यस्य च प्रतिष्ठानात् सुरवासे प्रतिष्ठिते प्रतिष्ठानं तु तत् क्षेत्रं सुराणाम् अपि वल्लभम्
इतीदम् आख्यानम् अतीव पुण्यं पठेत वा यः शृणुयात् स्मरेद् वा स दीर्घजीवी धनवान् धर्मयुक्तश् चान्ते स्मरञ् शंभुम् उपैति नित्यम्
नागतीर्थम् इति ख्यातं सर्वकामप्रदं शुभम् यत्र नागेश्वरो देवः शृणु तस्यापि विस्तरम्
प्रतिष्ठानपुरे राजा शूरसेन इति श्रुतः सोमवंशभवः श्रीमान् मतिमान् गुणसागरः
पुत्रार्थं स महायत्नम् अकरोत् प्रियया सह तस्य पुत्रश् चिराद् आसीत् सर्पो वै भीषणाकृतिः
पुत्रं तं गोपयाम् आस शूरसेनो महीपतिः राज्ञः पुत्रः सर्प इति न कश्चिद् विन्दते जनः
अन्तर्वर्ती परो वापि मातरं पितरं विना धात्रेय्य् अपि न जानाति नामात्यो न पुरोहितः
तं दृष्ट्वा भीषणं सर्पं सभार्यो नृपसत्तमः संतापं नित्यम् आप्नोति सर्पाद् वरम् अपुत्रता
एतद् अस्ति महासर्पो वक्ति नित्यं मनुष्यवत् स सर्पः पितरं प्राह कुरु चूडाम् अपि क्रियाम्
तथोपनयनं चापि वेदाध्ययनम् एव च यावद् वेदं न चाधीते तावच् छूद्रसमो द्विजः
एतच् छ्रुत्वा पुत्रवचः शूरसेनो ऽतिदुःखितः ब्राह्मणं कंचनानीय संस्कारादि तदाकरोत् अधीतवेदः सर्पो ऽपि पितरं चाब्रवीद् इदम्
विवाहं कुरु मे राजन् स्त्रीकामो ऽहं नृपोत्तम अन्यथापि च कृत्यं ते न सिध्येद् इति मे मतिः
जनयित्वात्मजान् वेदविधिनाखिलसंस्कृतीः न कुर्याद् यः पिता तस्य नरकान् नास्ति निष्कृतिः
विस्मितः स पिता प्राह सुतं तम् उरगाकृतिम्
यस्य शब्दाद् अपि त्रासं यान्ति शूराश् च पूरुषाः तस्मै कन्यां तु को दद्याद् वद पुत्र करोमि किम्
तत् पितुर् वचनं श्रुत्वा सर्पः प्राह विचक्षणः
विवाहा बहवो राजन् राज्ञां सन्ति जनेश्वर प्रसह्याहरणं चापि शस्त्रैर् वैवाह एव च
जाते विवाहे पुत्रस्य पितासौ कृतकृद् भवेत् नो चेद् अत्रैव गङ्गायां मरिष्ये नात्र संशयः
तत् पुत्रनिश्चयं ज्ञात्वा अपुत्रो नृपसत्तमः विवाहार्थम् अमात्यांस् तान् आहूयेदं वचो ऽब्रवीत्
नागेश्वरो मम सुतो युवराजो गुणाकरः गुणवान् मतिमाञ् शूरो दुर्जयः शत्रुतापनः
रथे नागे स धनुषि पृथिव्यां नोपमीयते विवाहस् तस्य कर्तव्यो ह्य् अहं वृद्धस् तथैव च
राज्यभारं सुते न्यस्य निश्चिन्तो ऽहं भवाम्य् अतः न दारसंग्रहो यावत् तावत् पुत्रो मम प्रियः
बालभावं नो जहाति तस्मात् सर्वे ऽनुमन्य च विवाहायाथ कुर्वन्तु यत्नं मम हिते रताः
न मे काचित् तदा चिन्ता कृतोद्वाहो यदात्मजः सुते न्यस्तभरा यान्ति कृतिनस् तपसे वनम्