अस्थ्नां च पावनं ब्रूहि अस्माकं च गवां तथा
शिवः प्राह तदा सर्वान् गङ्गाम् आप्लुत्य यत्नतः देवाश् च गावस् तत्पापान् मुच्यन्ते नात्र संशयः
प्रक्षालितानि चास्थीनि ऋषिदेहभवान्य् अथ तानि प्रक्षालनाद् एव तत्र प्राप्तानि पूतताम्
यत्र देवा मुक्तपापास् तत् तीर्थं पापनाशनम् तत्र स्नानं च दानं च ब्रह्महत्याविनाशनम्
गवां च पावनं यत्र गोतीर्थं तद् उदाहृतम् तत्र स्नानान् महाबुद्धिर् गोमेधफलम् आप्नुयात्
यत्र तद्ब्राह्मणास्थीनि आसन् पुण्यानि नारद पितृतीर्थं तु वै ज्ञेयं पितॄणां प्रीतिवर्धनम्
भस्मास्थिनखरोमाणि प्राणिनो यस्य कस्यचित् तत्र तीर्थे संक्रमेरन् यावच् चन्द्रार्कतारकम्
स्वर्गे वासो भवेत् तस्य अपि दुष्कृतकर्मणः तथा चक्रेश्वरात् तीर्थात् त्रीणि तीर्थानि नारद ततः पूताः सुरगणा गावः शंभुम् अथाब्रुवन्
यामः स्वं स्वम् अधिष्ठानम् अत्र सूर्यः प्रतिष्ठितः अस्मिन् स्थिते दिनकरे सुराः सर्वे प्रतिष्ठिताः
भवेयुर् जगताम् ईश तद् अनुज्ञातुम् अर्हसि सूर्यो ह्य् आत्मास्य जगतस् तस्थुषश् च सनातनः
दिवाकरो देवमयस् तत्रास्माभिः प्रतिष्ठितः यत्र गङ्गा जगद्धात्री यत्र वै त्र्यम्बकः स्वयम् सुरवासं प्रतिष्ठानं भवेद् यत्र च त्र्यम्बकम्
आपृच्छ्य पिप्पलादं तं सुराः स्वं सदनं ययुः पिप्पलाः कालपर्याये स्वर्गं जग्मुर् अथाक्षयम्
पादपानां पदं विप्रः पिप्पलादः प्रतापवान् क्षेत्राधिपत्ये संस्थाप्य पूजयाम् आस शंकरम्
दधीचिसूनुर् मुनिर् उग्रतेजा अवाप्य भार्यां गौतमस्यात्मजां च पुत्रान् अथावाप्य श्रियं यशश् च सुहृज्जनैः स्वर्गम् अवाप धीरः
ततः प्रभृति तत् तीर्थं पिप्पलेश्वरम् उच्यते सर्वक्रतुफलं पुण्यं स्मरणाद् अघनाशनम्
किं पुनः स्नानदानाभ्याम् आदित्यस्य तु दर्शनात् चक्रेश्वरः पिप्पलेशो देवदेवस्य नामनी
सरहस्यं विदित्वा तु सर्वकामान् अवाप्नुयात् सूर्यस्य च प्रतिष्ठानात् सुरवासे प्रतिष्ठिते प्रतिष्ठानं तु तत् क्षेत्रं सुराणाम् अपि वल्लभम्
इतीदम् आख्यानम् अतीव पुण्यं पठेत वा यः शृणुयात् स्मरेद् वा स दीर्घजीवी धनवान् धर्मयुक्तश् चान्ते स्मरञ् शंभुम् उपैति नित्यम्
नागतीर्थम् इति ख्यातं सर्वकामप्रदं शुभम् यत्र नागेश्वरो देवः शृणु तस्यापि विस्तरम्
प्रतिष्ठानपुरे राजा शूरसेन इति श्रुतः सोमवंशभवः श्रीमान् मतिमान् गुणसागरः
पुत्रार्थं स महायत्नम् अकरोत् प्रियया सह तस्य पुत्रश् चिराद् आसीत् सर्पो वै भीषणाकृतिः
पुत्रं तं गोपयाम् आस शूरसेनो महीपतिः राज्ञः पुत्रः सर्प इति न कश्चिद् विन्दते जनः
अन्तर्वर्ती परो वापि मातरं पितरं विना धात्रेय्य् अपि न जानाति नामात्यो न पुरोहितः
तं दृष्ट्वा भीषणं सर्पं सभार्यो नृपसत्तमः संतापं नित्यम् आप्नोति सर्पाद् वरम् अपुत्रता
एतद् अस्ति महासर्पो वक्ति नित्यं मनुष्यवत् स सर्पः पितरं प्राह कुरु चूडाम् अपि क्रियाम्
तथोपनयनं चापि वेदाध्ययनम् एव च यावद् वेदं न चाधीते तावच् छूद्रसमो द्विजः
एतच् छ्रुत्वा पुत्रवचः शूरसेनो ऽतिदुःखितः ब्राह्मणं कंचनानीय संस्कारादि तदाकरोत् अधीतवेदः सर्पो ऽपि पितरं चाब्रवीद् इदम्
विवाहं कुरु मे राजन् स्त्रीकामो ऽहं नृपोत्तम अन्यथापि च कृत्यं ते न सिध्येद् इति मे मतिः
जनयित्वात्मजान् वेदविधिनाखिलसंस्कृतीः न कुर्याद् यः पिता तस्य नरकान् नास्ति निष्कृतिः
विस्मितः स पिता प्राह सुतं तम् उरगाकृतिम्