तव संदर्शनाकाङ्क्षौ पितरौ दंपती शुभौ वीज्यमानौ सुरस्त्रीभिः स्तूयमानौ च किंनरैः
दृष्ट्वा स मातापितरौ ननाम शिवसंनिधौ हर्षबाष्पाश्रुनयनौ स कथंचिद् उवाच तौ
तारयन्त्य् एव पितराव् अन्ये पुत्राः कुलोद्वहाः अहं तु मातुर् उदरे केवलं भेदकारणम् एवंभूतो ऽपि तौ मोहात् पश्येयम् अतिदुर्मतिः
ताव् आलोक्य ततो दुःखाद् वक्तुं नैव शशाक सः देवाश् च मातापितरौ पिप्पलादम् अथाब्रुवन्
धन्यस् त्वं पुत्र लोकेषु यस्य कीर्तिर् गता दिवम् साक्षात्कृतस् त्वया त्र्यक्षो देवाश् चाश्वासितास् त्वया त्वया पुत्रेण सल्लोका न क्षीयन्ते कदाचन
पुष्पवृष्टिस् तदा स्वर्गात् पपात तस्य मूर्धनि जयशब्दः सुरैर् उक्तः प्रादुर्भूतो महामुने
आशिषं तु सुते दत्त्वा दधीचिः सह भार्यया शंभुं गङ्गां सुरान् नत्वा पुत्रं वाक्यम् अथाब्रवीत्
प्राप्य भार्यां शिवे भक्तिं कुरु गङ्गां च सेवय पुत्रान् उत्पाद्य विधिवद् यज्ञान् इष्ट्वा सदक्षिणान् कृतकृत्यस् ततो वत्स आक्रमस्व चिरं दिवम्
करोम्य् एवम् इति प्राह दधीचिं पिप्पलाशनः दधीचिः पुत्रम् आश्वास्य भार्यया च पुनः पुनः
अनुज्ञातः सुरगणैः पुनः स दिवम् आक्रमत् देवा अप्य् ऊचिरे सर्वे पिप्पलादं ससंभ्रमाः
कृत्यां शमय भद्रं ते तद् उत्पन्नं महानलम्
पिप्पलादस् तु तान् आह न शक्तो ऽहं निवारणे असत्यं नैव वक्ताहं यूयं कृत्यां तु ब्रूत ताम्
मां दृष्ट्वा सा महारौद्रा विपरीतं करिष्यति ताम् एव गत्वा विबुधाः प्रोचुस् ते शान्तिकारणम्
अनलं च यथाप्रीति ते उभे नेत्य् अवोचताम् सर्वेषां भक्षणायैव सृष्टा चाहं द्विजन्मना
तथा च मत्प्रसूतो ऽग्निर् अन्यथा तत् कथं भवेत् महाभूतानि पञ्चापि स्थावरं जङ्गमं तथा
सर्वम् अस्मन्मुखे विद्याद् वक्तव्यं नावशिष्यते मया संमन्त्र्य ते देवाः पुनर् ऊचुर् उभाव् अपि
भक्षयेताम् उभौ सर्वं यथानुक्रमतस् तथा वडवापि सुरान् एवम् उवाच शृणु नारद
भवताम् इच्छया सर्वं भक्ष्यं मे सुरसत्तमाः
वडवा सा नदी जाता गङ्गया संगता मुने तद्भवस् तु महान् अग्निर् य आसीद् अतिभीषणः तम् आहुर् अमरा वह्निं भूतानाम् आदितो विदुः
आपो ज्येष्ठतमा ज्ञेयास् तथैव प्रथमं भवान् तत्राप्य् अपांपतिं ज्येष्ठं समुद्रम् अशनं कुरु यथैव तु वयं ब्रूमो गच्छ भुङ्क्ष्व यथासुखम्
अनलस् त्व् अमरान् आह आपस् तत्र कथं त्व् अहम् व्रजेयं यदि मां तत्र प्रापयन्त्य् उदकं महत्
भवन्त एव ते ऽप्य् आहुः कथं ते ऽग्ने गतिर् भवेत् अग्निर् अप्य् आह तान् देवान् कन्या मां गुणशालिनी
हिरण्यकलशे स्थाप्य नयेद् यत्र गतिर् मम तस्य तद् वचनं श्रुत्वा कन्याम् ऊचुः सरस्वतीम्
नयैनम् अनलं शीघ्रं शिरसा वरुणालयम्
सरस्वती सुरान् आह नैका शक्ता च धारणे युक्ता चतसृभिः शीघ्रं वहेयं वरुणालयम्
सरस्वत्या वचः श्रुत्वा गङ्गां च यमुनां तथा नर्मदां तपतीं चैव सुराः प्रोचुः पृथक् पृथक्
ताभिः समन्वितोवाह हिरण्यकलशे ऽनलम् संस्थाप्य शिरसाधार्य ता जग्मुर् वरुणालयम्
संस्थाप्य यत्र देवेशः सोमनाथो जगत्पतिः अध्यास्ते विबुधैः सार्धं प्रभासे शशिभूषणः
प्रापयाम् आसुर् अनलं पञ्चनद्यः सरस्वती अध्यास्ते च महान् अग्निः पिबन् वारि शनैः शनैः
ततः सुरगणाः सर्वे शिवम् ऊचुः सुरोत्तमम्