पुनः पुनस् तद् एवोचुः सुरसंघा द्विजोत्तमम् कृताञ्जलिपुटः पूर्वं नत्वा शंभुसुरान् इदम् उवाच पिप्पलादश् च उमां नत्वा च पिप्पलान्
पितरौ द्रष्टुकामो ऽस्मि सदा मे शब्दगोचरौ ते धन्याः प्राणिनो लोके मातापित्रोर् वशे स्थिताः
शुश्रूषणपरा नित्यं तत्पादाज्ञाप्रतीक्षकाः इन्द्रियाणि शरीरं च कुलं शक्तिं धियं वपुः
परिलभ्य तयोः कृत्ये कृतकृत्यो भवेत् स्वयम् पशूनां पक्षिणां चापि सुलभं मातृदर्शनम्
दुर्लभं मम तच् चापि पृच्छे पापफलं नु किम् दुर्लभं च तथा चेत् स्यात् सर्वेषां यस्य कस्यचित्
नोपपद्येत सुलभं मत्तो नान्यो ऽस्ति पापकृत् तयोर् दर्शनमात्रं च यदि प्राप्स्ये सुरोत्तमाः
मनोवाक्कायकर्मभ्यः फलं प्राप्तं भविष्यति पितरौ ये न पश्यन्ति समुत्पन्ना न संसृतौ तेषां महापातकानां कः संख्यां कर्तुम् ईश्वरः
तद् ऋषेर् वचनं श्रुत्वा मिथः संमन्त्र्य ते सुराः विमानवरम् आरूढौ पितरौ दंपती शुभौ
तव संदर्शनाकाङ्क्षौ द्रक्ष्यसे वाद्य निश्चितम् विषादं लोभमोहौ च त्यक्त्वा चित्तं शमं नय
पश्य पश्येति तं प्राहुर् दाधीचं सुरसत्तमाः विमानवरम् आरूढौ स्वर्गिणौ स्वर्णभूषणौ
तव संदर्शनाकाङ्क्षौ पितरौ दंपती शुभौ वीज्यमानौ सुरस्त्रीभिः स्तूयमानौ च किंनरैः
दृष्ट्वा स मातापितरौ ननाम शिवसंनिधौ हर्षबाष्पाश्रुनयनौ स कथंचिद् उवाच तौ
तारयन्त्य् एव पितराव् अन्ये पुत्राः कुलोद्वहाः अहं तु मातुर् उदरे केवलं भेदकारणम् एवंभूतो ऽपि तौ मोहात् पश्येयम् अतिदुर्मतिः
ताव् आलोक्य ततो दुःखाद् वक्तुं नैव शशाक सः देवाश् च मातापितरौ पिप्पलादम् अथाब्रुवन्
धन्यस् त्वं पुत्र लोकेषु यस्य कीर्तिर् गता दिवम् साक्षात्कृतस् त्वया त्र्यक्षो देवाश् चाश्वासितास् त्वया त्वया पुत्रेण सल्लोका न क्षीयन्ते कदाचन
पुष्पवृष्टिस् तदा स्वर्गात् पपात तस्य मूर्धनि जयशब्दः सुरैर् उक्तः प्रादुर्भूतो महामुने
आशिषं तु सुते दत्त्वा दधीचिः सह भार्यया शंभुं गङ्गां सुरान् नत्वा पुत्रं वाक्यम् अथाब्रवीत्
प्राप्य भार्यां शिवे भक्तिं कुरु गङ्गां च सेवय पुत्रान् उत्पाद्य विधिवद् यज्ञान् इष्ट्वा सदक्षिणान् कृतकृत्यस् ततो वत्स आक्रमस्व चिरं दिवम्
करोम्य् एवम् इति प्राह दधीचिं पिप्पलाशनः दधीचिः पुत्रम् आश्वास्य भार्यया च पुनः पुनः
अनुज्ञातः सुरगणैः पुनः स दिवम् आक्रमत् देवा अप्य् ऊचिरे सर्वे पिप्पलादं ससंभ्रमाः
कृत्यां शमय भद्रं ते तद् उत्पन्नं महानलम्
पिप्पलादस् तु तान् आह न शक्तो ऽहं निवारणे असत्यं नैव वक्ताहं यूयं कृत्यां तु ब्रूत ताम्
मां दृष्ट्वा सा महारौद्रा विपरीतं करिष्यति ताम् एव गत्वा विबुधाः प्रोचुस् ते शान्तिकारणम्
अनलं च यथाप्रीति ते उभे नेत्य् अवोचताम् सर्वेषां भक्षणायैव सृष्टा चाहं द्विजन्मना
तथा च मत्प्रसूतो ऽग्निर् अन्यथा तत् कथं भवेत् महाभूतानि पञ्चापि स्थावरं जङ्गमं तथा
सर्वम् अस्मन्मुखे विद्याद् वक्तव्यं नावशिष्यते मया संमन्त्र्य ते देवाः पुनर् ऊचुर् उभाव् अपि
भक्षयेताम् उभौ सर्वं यथानुक्रमतस् तथा वडवापि सुरान् एवम् उवाच शृणु नारद
भवताम् इच्छया सर्वं भक्ष्यं मे सुरसत्तमाः
वडवा सा नदी जाता गङ्गया संगता मुने तद्भवस् तु महान् अग्निर् य आसीद् अतिभीषणः तम् आहुर् अमरा वह्निं भूतानाम् आदितो विदुः
आपो ज्येष्ठतमा ज्ञेयास् तथैव प्रथमं भवान् तत्राप्य् अपांपतिं ज्येष्ठं समुद्रम् अशनं कुरु यथैव तु वयं ब्रूमो गच्छ भुङ्क्ष्व यथासुखम्