स सूर्य एक एवात्र साक्षाद् रूपेण सर्वदा स्थितिं करोतु तन्मूर्तौ भविष्यन्त्य् अखिलाः स्थिताः
तथेति शंभुवचनात् पारिजाततरोस् तदा देवा दिवाकरं चक्रुस् त्वष्टा भास्करम् अब्रवीत्
इहैवास्स्व जगत्स्वामिन् रक्षेमान् विबुधान् स्वयम् स्वांशैश् च वयम् अप्य् अत्र तिष्ठामः शंभुसंनिधौ
चक्रेश्वरस्य परितो यावद् योजनसंख्यया गङ्गाया उभयं तीरम् आसाद्यासन् सुरोत्तमाः
अङ्गुल्यर्धार्धमात्रं तु गङ्गातीरं समाश्रिताः तिस्रः कोट्यस् तथा पञ्च शतानि मुनिसत्तम तीर्थानां तत्र व्युष्टिं च कः शृणोति ब्रवीति वा
ततः सुरगणाः सर्वे विनीताः शिवम् अब्रुवन्
पिप्पलादं सुरेशान शमं नय जगन्मय
ॐ इत्य् उक्त्वा जगन्नाथः पिप्पलादम् अवोचत
नाशितेष्व् अपि देवेषु पिता ते नागमिष्यति दत्ताः पित्रा तव प्राणा देवानां कार्यसिद्धये
दीनार्तकरुणाबन्धुः को हि तादृग्भवे भवेत् तथा याता दिवं तात तव माता पतिव्रता
समा काप्य् अत्र मतया लोपामुद्राप्य् अरुन्धती यद् अस्थिभिः सुराः सर्वे जयिनः सुखिनः सदा
तेनावाप्तं यशः स्फीतं तव मात्राक्षयं कृतम् त्वया पुत्रेण सर्वत्र नातः परतरं कृतम्
त्वत्प्रतापभयात् स्वर्गाच् च्युतांस् त्वं पातुम् अर्हसि कांदिशीकांस् तव भयाद् अमरांस् त्रातुम् अर्हसि नार्तत्राणाद् अभ्यधिकं सुकृतं क्वापि विद्यते
यावद् यशः स्फुरति चारु मनुष्यलोके अहानि तावन्ति दिवं गतस्य दिने दिने वर्षसंख्या परस्मिंल् लोके वासो जायते निर्विकारः
मृतास् त एवात्र यशो न येषाम् अन्धास् त एव श्रुतवर्जिता ये ये दानशीला न नपुंसकास् ते ये धर्मशीला न त एव शोच्याः
भाषितं देवदेवस्य श्रुत्वा शान्तो ऽभवन् मुनिः कृताञ्जलिपुटो भूत्वा नत्वा नाथम् अथाब्रवीत्
वाग्भिर् मनोभिः कृतिभिः कदाचिन् ममोपकुर्वन्ति हिते रता ये तेभ्यो हितार्थं त्व् इह चापरेषां सोमं नमस्यामि सुरादिपूज्यम्
संरक्षितो यैर् अभिवर्धितश् च समानगोत्रश् च समानधर्मा तेषाम् अभीष्टानि शिवः करोतु बालेन्दुमौलिं प्रणतो ऽस्मि नित्यम्
यैर् अहं वर्धितो नित्यं मातृवत् पितृवत् प्रभो तन्नाम्ना जायतां तीर्थं देवदेव जगत्त्रये
यशस् तु तेषां भविता तेभ्यो ऽहम् अनृणस् ततः यानि क्षेत्राणि देवानां यानि तीर्थानि भूतले
तेभ्यो यद् इदम् अधिकम् अनुमन्यन्तु देवताः ततः क्षमे ऽहं देवानाम् अपराधं निरञ्जनः
ततः समक्षं सुरसाक्षरां गिरं सहस्रचक्षुःप्रमुखांस् तथाग्रतः उवाच देवा अपि मेनिरे वचो दधीचिपुत्रोदितम् आदरेण
बालस्य बुद्धिं विनयं च विद्यां शौर्यं बलं साहसं सत्यवाचम् पित्रोर् भक्तिं भावशुद्धिं विदित्वा तदावादीच् छंकरः पिप्पलादम्
वत्स यद् वै प्रियं कामं यच् चापि सुरवल्लभम् प्राप्स्यसे वद कल्याणं नान्यथा त्वं मनः कृथाः
ये गङ्गायाम् आप्लुता धर्मनिष्ठाः संपश्यन्ति त्वत्पदाब्जं महेश सर्वान् कामान् आप्नुवन्तु प्रसह्य देहान्ते ते पदम् आयान्तु शैवम्
तातः प्राप्तस् त्वत्पदं चाम्बिका मे नाथ प्राप्ता पिप्पलश् चामराश् च सुखं प्राप्ता नाथनाथं विलोक्य त्वां पश्येयुस् त्वत्पदं ते प्रयान्तु
तथेत्य् उक्त्वा पिप्पलादं देवदेवो महेश्वरः अभिनन्द्य च तं देवैः सार्धं वाक्यम् अथाब्रवीत्
देवा अपि मुदा युक्ता निर्भयास् तत्कृताद् भयात् इदम् ऊचुः सर्व एव दाधीचं शिवसंनिधौ
सुराणां यद् अभीष्टं च त्वया कृतम् असंशयम् पालिता देवदेवस्य आज्ञा त्रैलोक्यमण्डनी
याचितं च त्वया पूर्वं परार्थं नात्मने द्विज तस्माद् अन्यतमं ब्रूहि किंचिद् दास्यामहे वयम्