तदैव पिप्पलाः प्रोचुर् वडवापि महाद्युते माता तव प्रातिथेयी वदन्त्य् एवं दिवं गता
पराभिद्रोहनिरता विस्मृतात्महिता नराः इतस् ततो भ्रान्तचित्ताः पतन्ति नरकावटे
तन् मातृवचनं श्रुत्वा कुपितः पिप्पलाशनः अभिमाने ज्वलत्य् अन्तः साधुवादो निरर्थकः
देहि देहीति तं प्राह कृत्या नेत्रविनिर्गता वडवेति स्मरन् विप्रः कृत्यापि वडवाकृतिः
सर्वसत्त्वविनाशाय प्रभूतानलगर्भिणी गभस्तिनी बालगर्भा या माता पिप्पलाशिनः
तद्ध्यानयोगात् तु जाता कृत्या सानलगर्भिणी उत्पन्ना सा महारौद्रा मृत्युजिह्वेव भीषणा
अवोचत् पिप्पलादं तं किं कृत्यं मे वदस्व तत् पिप्पलादो ऽपि तां प्राह देवान् खाद रिपून् मम
जग्राह सा तथेत्य् उक्त्वा पिप्पलादं पुरस्थितम् स प्राह किम् इदं कृत्ये सा चाप्य् आह त्वयोदितम्
देवैश् च निर्मितं देहं ततो भीतः शिवं ययौ तुष्टाव देवं स मुनिः कृत्यां प्राह तदा शिवः
योजनान्तःस्थिताञ् जीवान् न गृहाण मदाज्ञया तस्माद् याहि ततो दूरं कृत्ये कृत्यं ततः कुरु
तीर्थात् तु पिप्पलात् पूर्वं यावद् योजनसंख्यया प्रातिष्ठद् वडवारूपा कृत्या सा ऋषिनिर्मिता
तस्यां जातो महान् अग्निर् लोकसंहरणक्षमः तं दृष्ट्वा विबुधाः सर्वे त्रस्ताः शंभुम् उपागमन्
चक्रेश्वरं पिप्पलेशं पिप्पलादेन तोषितम् स्तुवन्तो भीतमनसः शंभुम् ऊचुर् दिवौकसः
रक्षस्व शंभो कृत्यास्मान् बाधते तद्भवानलः शरणं भव सर्वेश भीतानाम् अभयप्रद
सर्वतः परिभूतानाम् आर्तानां श्रान्तचेतसाम् सर्वेषाम् एव जन्तूनां त्वम् एव शरणं शिव
ऋषिणाभ्यर्थिता कृत्या त्वच्चक्षुर्वह्निनिर्गता सा जिघांसति लोकांस् त्रींस् त्वं नस् त्राता न चेतरः
तान् अब्रवीज् जगन्नाथो योजनान्तर्निवासिनः न बाधते त्व् असौ कृत्या तस्माद् यूयम् अहर्निशम् इहैवासध्वम् अमरास् तस्या वो न भयं भवेत्
पुनर् ऊचुः सुरेशानं त्वया दत्तं त्रिविष्टपम् तत् त्यक्त्वात्र कथं नाथ वत्स्यामस् त्रिदशार्चित
देवानां वचनं श्रुत्वा शिवो वाक्यम् अथाब्रवीत्
देवो ऽसौ विश्वतश्चक्षुर् यो देवो विश्वतोमुखः यो रश्मिभिस् तु धमते नित्यं यो जनको मतः
स सूर्य एक एवात्र साक्षाद् रूपेण सर्वदा स्थितिं करोतु तन्मूर्तौ भविष्यन्त्य् अखिलाः स्थिताः
तथेति शंभुवचनात् पारिजाततरोस् तदा देवा दिवाकरं चक्रुस् त्वष्टा भास्करम् अब्रवीत्
इहैवास्स्व जगत्स्वामिन् रक्षेमान् विबुधान् स्वयम् स्वांशैश् च वयम् अप्य् अत्र तिष्ठामः शंभुसंनिधौ
चक्रेश्वरस्य परितो यावद् योजनसंख्यया गङ्गाया उभयं तीरम् आसाद्यासन् सुरोत्तमाः
अङ्गुल्यर्धार्धमात्रं तु गङ्गातीरं समाश्रिताः तिस्रः कोट्यस् तथा पञ्च शतानि मुनिसत्तम तीर्थानां तत्र व्युष्टिं च कः शृणोति ब्रवीति वा
ततः सुरगणाः सर्वे विनीताः शिवम् अब्रुवन्
पिप्पलादं सुरेशान शमं नय जगन्मय
ॐ इत्य् उक्त्वा जगन्नाथः पिप्पलादम् अवोचत
नाशितेष्व् अपि देवेषु पिता ते नागमिष्यति दत्ताः पित्रा तव प्राणा देवानां कार्यसिद्धये
दीनार्तकरुणाबन्धुः को हि तादृग्भवे भवेत् तथा याता दिवं तात तव माता पतिव्रता