हैहयान् विजघानाशु क्रुद्धो रुद्रः पशून् इव आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः
ततः शकांश् च यवनान् काम्बोजान् पारदांस् तथा पह्नवांश् चैव निःशेषान् कर्तुं व्यवसितो नृपः
ते वध्यमाना वीरेण सगरेण महात्मना वसिष्ठं शरणं गत्वा प्रणिपेतुर् मनीषिणम्
वसिष्ठस् त्व् अथ तान् दृष्ट्वा समयेन महाद्युतिः सगरं वारयाम् आस तेषां दत्त्वाभयं तदा
सगरः स्वां प्रतिज्ञां तु गुरोर् वाक्यं निशम्य च धर्मं जघान तेषां वै वेषान् अन्यांश् चकार ह
अर्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् यवनानां शिरः सर्वं काम्बोजानां तथैव च
पारदा मुक्तकेशाश् च पह्नवाञ् श्मश्रुधारिणः निःस्वाध्यायवषट्काराः कृतास् तेन महात्मना
शका यवनकाम्बोजाः पारदाश् च द्विजोत्तमाः कोणिसर्पा माहिषका दर्वाश् चोलाः सकेरलाः
सर्वे ते क्षत्रिया विप्रा धर्मस् तेषां निराकृतः वसिष्ठवचनाद् राज्ञा सगरेण महात्मना
स धर्मविजयी राजा विजित्येमां वसुंधराम् अश्वं प्रचारयाम् आस वाजिमेधाय दीक्षितः
तस्य चारयतः सो ऽश्वः समुद्रे पूर्वदक्षिणे वेलासमीपे ऽपहृतो भूमिं चैव प्रवेशितः
स तं देशं तदा पुत्रैः खानयाम् आस पार्थिवः आसेदुस् ते तदा तत्र खन्यमाने महार्णवे
तम् आदिपुरुषं देवं हरिं कृष्णं प्रजापतिम् विष्णुं कपिलरूपेण स्वपन्तं पुरुषं तदा
तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः दग्धाः सर्वे मुनिश्रेष्ठाश् चत्वारस् त्व् अवशेषिताः
बर्हिकेतुः सुकेतुश् च तथा धर्मरथो नृपः शूरः पञ्चनदश् चैव तस्य वंशकरा नृपाः
प्रादाच् च तस्मै भगवान् हरिर् नारायणो वरम् अक्षयं वंशम् इक्ष्वाकोः कीर्तिं चाप्य् अनिवर्तिनीम्
पुत्रं समुद्रं च विभुः स्वर्गे वासं तथाक्षयम् समुद्रश् चार्घम् आदाय ववन्दे तं महीपतिम्
सागरत्वं च लेभे स कर्मणा तेन तस्य ह तं चाश्वमेधिकं सो ऽश्वं समुद्राद् उपलब्धवान्
आजहाराश्वमेधानां शतं स सुमहातपाः पुत्राणां च सहस्राणि षष्टिस् तस्येति नः श्रुतम्
सगरस्यात्मजा वीराः कथं जाता महाबलाः विक्रान्ताः षष्टिसाहस्रा विधिना केन सत्तम
द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः
कनीयसी तु महती पत्नी परमधर्मिणी अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि
और्वस् ताभ्यां वरं प्रादात् तद् बुध्यध्वं द्विजोत्तमाः षष्टिं पुत्रसहस्राणि गृह्णात्व् एका नितम्बिनी
एकं वंशधरं त्व् एका यथेष्टं वरयत्व् इति तत्रैका जगृहे पुत्रान् षष्टिसाहस्रसंमितान्
एकं वंशधरं त्व् एका तथेत्य् आह ततो मुनिः राजा पञ्चजनो नाम बभूव स महाद्युतिः
इतरा सुषुवे तुम्बीं बीजपूर्णाम् इति श्रुतिः तत्र षष्टिसहस्राणि गर्भास् ते तिलसंमिताः
संबभूवुर् यथाकालं ववृधुश् च यथासुखम् घृतपूर्णेषु कुम्भेषु तान् गर्भान् निदधे ततः
धात्रीश् चैकैकशः प्रादात् तावतीः पोषणे नृपः ततो दशसु मासेषु समुत्तस्थुर् यथाक्रमम्
कुमारास् ते यथाकालं सगरप्रीतिवर्धनाः षष्टिपुत्रसहस्राणि तस्यैवम् अभवन् द्विजाः
गर्भाद् अलाबूमध्याद् वै जातानि पृथिवीपतेः तेषां नारायणं तेजः प्रविष्टानां महात्मनाम्