यस्मिन् देशे यत्र काले यस्मिन् देवे च मन्त्रके यत्र तीर्थे च सिध्येत मत्संकल्पः सुरोत्तम
चन्द्रः प्राह चिरं ध्यात्वा भुक्तिर् वा मुक्तिर् एव वा सर्वं महेश्वराद् देवाज् जायते नात्र संशयः
स सोमं पुनर् अप्य् आह कथं द्रक्ष्ये महेश्वरम् बालो ऽहं बालबुद्धिश् च न सामर्थ्यं तपस् तथा
गौतमीं गच्छ भद्र त्वं स्तुहि चक्रेश्वरं हरम् प्रसन्नस् तु तवेशानो ह्य् अल्पायासेन वत्सक
प्रीतो भवेन् महादेवः साक्षात् कारुणिकः शिवः आस्ते साक्षात्कृतः शंभुर् विष्णुना प्रभविष्णुना
वरं च दत्तवान् विष्णोश् चक्रं च त्रिदशार्चितम् गच्छ तत्र महाबुद्धे दण्डके गौतमीं नदीम्
चक्रेश्वरं नाम तीर्थं जानन्त्य् ओषधयस् तु तत् तं गत्वा स्तुहि देवेशं सर्वभावेन शंकरम् स ते प्रीतमनास् तात सर्वान् कामान् प्रदास्यति
तद् राजवचनाद् ब्रह्मन् पिप्पलादो महामुनिः आजगाम जगन्नाथो यत्र रुद्रः स चक्रदः
तं बालं कृपयाविष्टाः पिप्पलाः स्वाश्रमान् ययुः गोदावर्यां ततः स्नात्वा नत्वा त्रिभुवनेश्वरम् तुष्टाव सर्वभावेन पिप्पलादः शिवं शुचिः
सर्वाणि कर्माणि विहाय धीरास् त्यक्तैषणा निर्जितचित्तवाताः यं यान्ति मुक्त्यै शरणं प्रयत्नात् तम् आदिदेवं प्रणमामि शंभुम्
यः सर्वसाक्षी सकलान्तरात्मा सर्वेश्वरः सर्वकलानिधानम् विज्ञाय मच्चित्तगतं समस्तं स मे स्मरारिः करुणां करोतु
दिगीश्वराञ् जित्य सुरार्चितस्य कैलासम् आन्दोलयतः पुरारेः अङ्गुष्ठकृत्यैव रसातलाद् अधो गतस्य तस्यैव दशाननस्य
आलूनकायस्य गिरं निशम्य विहस्य देव्या सह दत्तम् इष्टम् तस्मै प्रसन्नः कुपितो ऽपि तद्वद् अयुक्तदातासि महेश्वर त्वम्
सौत्रामणीम् ऋद्धिम् अधः स चक्रे यो ऽर्चां हरौ नित्यम् अतीव कृत्वा बाणः प्रशस्यः कृतवान् उच्चपूजां रम्यां मनोज्ञां शशिखण्डमौलेः
जित्वा रिपून् देवगणान् प्रपूज्य गुरुं नमस्कर्तुम् अगाद् विशाखः चुकोप दृष्ट्वा गणनाथम् ऊढम् अङ्के तम् आरोप्य जहास सोमः
ईशाङ्करूढो ऽपि शिशुस्वभावान् न मातुर् अङ्कं प्रमुमोच बालः क्रुद्धं सुतं बोधितुम् अप्य् अशक्तस् ततो ऽर्धनारित्वम् अवाप सोमः
ततः स्वयंभूः सुप्रीतः पिप्पलादम् अभाषत
वरं वरय भद्रं ते पिप्पलाद यथेप्सितम्
हतो देवैर् महादेव पिता मम महायशाः अदाम्भिकः सत्यवादी तथा माता पतिव्रता
देवेभ्यश् च तयोर् नाशं श्रुत्वा नाथ सविस्तरम् दुःखकोपसमाविष्टो नाहं जीवितुम् उत्सहे
तस्मान् मे देहि सामर्थ्यं नाशयेयं सुरान् यथा अवध्यसेव्यस् त्रैलोक्ये त्वम् एव शशिशेखर
तृतीयं नयनं द्रष्टुं यदि शक्नोषि मे ऽनघ ततः समर्थो भविता देवांश् छेदयितुं भवान्
ततो द्रष्टुं मनश् चक्रे तृतीयं लोचनं विभोः न शशाक तदोवाच न शक्तो ऽस्मीति शंकरम्
किंचित् कुरु तपो बाल यदा द्रक्ष्यसि लोचनम् तृतीयं त्वं तदाभीष्टं प्राप्स्यसे नात्र संशयः
एतच् छ्रुत्वेशानवाक्यं तपसे कृतनिश्चयः दधीचिसूनुर् धर्मात्मा तत्रैव बहुलाः समाः
शिवध्यानैकनिरतो बालो ऽपि बलवान् इव प्रत्यहं प्रातर् उत्थाय स्नात्वा नत्वा गुरून् क्रमात्
सुखासीनो मनः कृत्वा सुषुम्नायाम् अनन्यधीः हस्तस्वस्तिकम् आरोप्य नाभौ विस्मृतसंसृतिः
स्थानात् स्थानान्तरोत्कर्षान् विदध्यौ शांभवं महः ददर्श चक्षुर् देवस्य तृतीयं पिप्पलाशनः कृताञ्जलिपुटो भूत्वा विनीत इदम् अब्रवीत्
शंभुना देवदेवेन वरो दत्तः पुरा मम तार्तीयचक्षुषो ज्योतिर् यदा पश्यसि तत्क्षणात्
सर्वं ते प्रार्थितं सिध्येद् इत्य् आह त्रिदशेश्वरः तस्माद् रिपुविनाशाय हेतुभूतां प्रयच्छ मे