आगच्छन्तीं तां प्रातिथेयीं तदानीं निवारयाम् आस तदोल्कपातः सा संभ्रमाद् आगता चाश्रमं स्वं नैवापश्यत् तत्र भर्तारम् अग्रे
क्व वा गतश् चेति सविस्मया सा पप्रच्छ चाग्निं प्रातिथेयी तदानीम् अग्निस् तदोवाच सविस्तरं तां देवागमं याचनं वै शरीरे
अस्थ्नाम् उपादानम् अथ प्रयाणं श्रुत्वा सर्वं दुःखिता सा बभूव दुःखोद्वेगात् सा पपाताथ पृथ्व्यां मन्दं मन्दं वह्निनाश्वासिता च
उत्पद्यते यत् तु विनाशि सर्वं न शोच्यम् अस्तीति मनुष्यलोके गोविप्रदेवार्थम् इह त्यजन्ति प्राणान् प्रियान् पुण्यभाजो मनुष्याः
संसारचक्रे परिवर्तमाने देहं समर्थं धर्मयुक्तं त्व् अवाप्य प्रियान् प्राणान् देवविप्रार्थहेतोस् ते वै धन्याः प्राणिनो ये त्यजन्ति
प्राणाः सर्वे ऽस्यापि देहान्वितस्य यातारो वै नात्र संदेहलेशः एवं ज्ञात्वा विप्रगोदेवदीनाद्य् अर्थं चैनान् उत्सृजन्तीश्वरास् ते
निवार्यमाणो ऽपि मया प्रपन्नया चकार देवास्त्रपरिग्रहं सः मनोगतं वेत्त्य् अथवा विधातुः को मर्त्यलोकातिगचेष्टितस्य
इत्य् एवम् उक्त्वापूज्य चाग्नीन् यथावद् भर्तुस् त्वचा लोमभिः सा विवेश गर्भस्थितं बालकं प्रातिथेयी कुक्षिं विदार्याथ करे गृहीत्वा
पित्रा हीनो बन्धुभिर् गोत्रजैश् च मात्रा हीनो बालकः सर्व एव रक्षन्तु सर्वे ऽपि च भूतसंघास् तथौषध्यो बालकं लोकपालाः
ये बालकं मातृपितृप्रहीणं सनिर्विशेषं स्वतनुप्ररूढैः पश्यन्ति रक्षन्ति त एव नूनं ब्रह्मादिकानाम् अपि वन्दनीयाः
इत्य् उक्त्वा चात्यजद् बालं भर्तृचित्तपरायणा पिप्पलानां समीपे तु न्यस्य बालं नमस्य च
अग्निं प्रदक्षिणीकृत्य यज्ञपात्रसमन्विता विवेशाग्निं प्रातिथेयी भर्त्रा सह दिवं ययौ
रुरुदुश् चाश्रमस्था ये वृक्षाश् च वनवासिनः पुत्रवत् पोषिता येन ऋषिणा च दधीचिना
विना तेन न जीवामस् तया मात्रा विना तथा मृगाश् च पक्षिणः सर्वे वृक्षाः प्रोचुः परस्परम्
स्वर्गम् आसेदुषोः पित्रोस् तदपत्येष्व् अकृत्रिमम् ये कुर्वन्त्य् अनिशं स्नेहं त एव कृतिनो नराः
दधीचिः प्रातिथेयी वा वीक्षते ऽस्मान् यथा पुरा तथा पिता न माता वा धिग् अस्मान् पापिनो वयम्
अस्माकम् अपि सर्वेषाम् अतः प्रभृति निश्चितम् बालो दधीचिः प्रातिथेयी बालो धर्मः सनातनः
एवम् उक्त्वा तदौषध्यो वनस्पतिसमन्विताः सोमं राजानम् अभ्येत्य याचिरे ऽमृतम् उत्तमम्
स चापि दत्तवांस् तेभ्यः सोमो ऽमृतम् अनुत्तमम् ददुर् बालाय ते चापि अमृतं सुरवल्लभम्
स तेन तृप्तो ववृधे शुक्लपक्षे यथा शशी पिप्पलैः पालितो यस्मात् पिप्पलादः स बालकः प्रवृद्धः पिप्पलान् एवम् उवाच त्व् अतिविस्मितः
मानुषेभ्यो मानुषास् तु जायन्ते पक्षिभिः खगाः बीजेभ्यो वीरुधो लोके वैषम्यं नैव दृश्यते वार्क्षस् त्व् अहं कथं जातो हस्तपादादिजीववान्
वृक्षास् तद्वचनं श्रुत्वा सर्वम् ऊचुर् यथाक्रमम् दधीचेर् मरणं साध्व्यास् तथा चाग्निप्रवेशनम्
अस्थ्नां संहरणं देवैर् एतत् सर्वं सविस्तरम् श्रुत्वा दुःखसमाविष्टो निपपात तदा भुवि
आश्वासितः पुनर् वृक्षैर् वाक्यैर् धर्मार्थसंहितैः आश्वस्तः स पुनः प्राह तदौषधिवनस्पतीन्
पितृहन्तॄन् हनिष्ये ऽहं नान्यथा जीवितुं क्षमः पितुर् मित्राणि शत्रूंश् च तथा पुत्रो ऽनुवर्तते
स एव पुत्रो यो ऽन्यस् तु पुत्ररूपो रिपुः स्मृतः वदन्ति पितृमित्राणि तारयन्त्य् अहितान् अपि
वृक्षास् तं बालम् आदाय सोमान्तिकम् अथाययुः बालवाक्यं तु ते वृक्षाः सोमायाथ न्यवेदयन् श्रुत्वा सोमो ऽपि तं बालं पिप्पलादम् अभाषत
गृहाण विद्यां विधिवत् समग्रां तपःसमृद्धिं च शुभां च वाचम् शौर्यं च रूपं च बलं च बुद्धिं संप्राप्स्यसे पुत्र मदाज्ञया त्वम्
पिप्पलादस् तम् अप्य् आह ओषधीशं विनीतवत्
सर्वम् एतद् वृथा मन्ये पितृहन्तृविनिष्कृतिम् न करोम्य् अत्र यावच् च तस्मात् तत् प्रथमं वद