कुरुष्व चेत्य् आहुर् अदीनसत्त्वं दधीचिम् इत्य् उत्तरम् अग्निकल्पम् तदा तु तस्य प्रियम् ईरयन्ती न सांनिध्ये प्रातिथेयी मुनीश
ते चापि देवास् ताम् अदृष्ट्वैव शीघ्रं तस्या भीता विप्रम् ऊचुः कुरुष्व तत्याज जीवान् दुस्त्यजान् प्रीतियुक्तो यथासुखं देहम् इमं जुषध्वम्
इत्य् उक्त्वासौ बद्धपद्मासनस्थो नासाग्रदत्ताक्षिप्रकाशप्रसन्नः वायुं सवह्निं मध्यमोद्घाटयोगान् नीत्वा शनैर् दहराकाशगर्भम्
यद् अप्रमेयं परमं पदं यद् यद् ब्रह्मरूपं यद् उपासितव्यम् तत्रैव विन्यस्य धियं महात्मा सायुज्यतां ब्रह्मणो ऽसौ जगाम
निर्जीवतां प्राप्तम् अभीक्ष्य देवाः कलेवरं तस्य सुराश् च सम्यक् त्वष्टारम् अप्य् ऊचुर् अतित्वरन्तः कुरुष्व चास्त्राणि बहूनि सद्यः
स चापि तान् आह कथं नु कार्यं कलेवरं ब्राह्मणस्येह देवाः बिभेमि कर्तुं दारुणं चाक्षमो ऽहं विदारितान्य् आयुधान्य् उत्तमानि
वज्रं मुखं वः क्रियते हितार्थं गावो देवैर् आयुधार्थं क्षणेन दधीचिदेहं तु विदार्य यूयम् अस्थीनि शुद्धानि प्रयच्छताद्य
ता देववाक्याच् च तथैव चक्रुः संलिह्य चास्थीनि ददुः सुराणाम् सुरास् त्वरा जग्मुर् अदीनसत्त्वाः स्वम् आलयं चापि तथैव गावः
कृत्वा तथास्त्राणि च देवतानां त्वष्टा जगामाथ सुराज्ञया तदा ततश् चिराच् छीलवती सुभद्रा भर्तुः प्रिया बालगर्भा त्वरन्ती
करे गृहीत्वा कलशं वारिपूर्णम् उमां नत्वा फलपुष्पैः समेत्य अग्निं च भर्तारम् अथाश्रमं च संद्रष्टुकामा ह्य् आजगामाथ शीघ्रम्
आगच्छन्तीं तां प्रातिथेयीं तदानीं निवारयाम् आस तदोल्कपातः सा संभ्रमाद् आगता चाश्रमं स्वं नैवापश्यत् तत्र भर्तारम् अग्रे
क्व वा गतश् चेति सविस्मया सा पप्रच्छ चाग्निं प्रातिथेयी तदानीम् अग्निस् तदोवाच सविस्तरं तां देवागमं याचनं वै शरीरे
अस्थ्नाम् उपादानम् अथ प्रयाणं श्रुत्वा सर्वं दुःखिता सा बभूव दुःखोद्वेगात् सा पपाताथ पृथ्व्यां मन्दं मन्दं वह्निनाश्वासिता च
उत्पद्यते यत् तु विनाशि सर्वं न शोच्यम् अस्तीति मनुष्यलोके गोविप्रदेवार्थम् इह त्यजन्ति प्राणान् प्रियान् पुण्यभाजो मनुष्याः
संसारचक्रे परिवर्तमाने देहं समर्थं धर्मयुक्तं त्व् अवाप्य प्रियान् प्राणान् देवविप्रार्थहेतोस् ते वै धन्याः प्राणिनो ये त्यजन्ति
प्राणाः सर्वे ऽस्यापि देहान्वितस्य यातारो वै नात्र संदेहलेशः एवं ज्ञात्वा विप्रगोदेवदीनाद्य् अर्थं चैनान् उत्सृजन्तीश्वरास् ते
निवार्यमाणो ऽपि मया प्रपन्नया चकार देवास्त्रपरिग्रहं सः मनोगतं वेत्त्य् अथवा विधातुः को मर्त्यलोकातिगचेष्टितस्य
इत्य् एवम् उक्त्वापूज्य चाग्नीन् यथावद् भर्तुस् त्वचा लोमभिः सा विवेश गर्भस्थितं बालकं प्रातिथेयी कुक्षिं विदार्याथ करे गृहीत्वा
पित्रा हीनो बन्धुभिर् गोत्रजैश् च मात्रा हीनो बालकः सर्व एव रक्षन्तु सर्वे ऽपि च भूतसंघास् तथौषध्यो बालकं लोकपालाः
ये बालकं मातृपितृप्रहीणं सनिर्विशेषं स्वतनुप्ररूढैः पश्यन्ति रक्षन्ति त एव नूनं ब्रह्मादिकानाम् अपि वन्दनीयाः
इत्य् उक्त्वा चात्यजद् बालं भर्तृचित्तपरायणा पिप्पलानां समीपे तु न्यस्य बालं नमस्य च
अग्निं प्रदक्षिणीकृत्य यज्ञपात्रसमन्विता विवेशाग्निं प्रातिथेयी भर्त्रा सह दिवं ययौ
रुरुदुश् चाश्रमस्था ये वृक्षाश् च वनवासिनः पुत्रवत् पोषिता येन ऋषिणा च दधीचिना
विना तेन न जीवामस् तया मात्रा विना तथा मृगाश् च पक्षिणः सर्वे वृक्षाः प्रोचुः परस्परम्
स्वर्गम् आसेदुषोः पित्रोस् तदपत्येष्व् अकृत्रिमम् ये कुर्वन्त्य् अनिशं स्नेहं त एव कृतिनो नराः
दधीचिः प्रातिथेयी वा वीक्षते ऽस्मान् यथा पुरा तथा पिता न माता वा धिग् अस्मान् पापिनो वयम्
अस्माकम् अपि सर्वेषाम् अतः प्रभृति निश्चितम् बालो दधीचिः प्रातिथेयी बालो धर्मः सनातनः
एवम् उक्त्वा तदौषध्यो वनस्पतिसमन्विताः सोमं राजानम् अभ्येत्य याचिरे ऽमृतम् उत्तमम्
स चापि दत्तवांस् तेभ्यः सोमो ऽमृतम् अनुत्तमम् ददुर् बालाय ते चापि अमृतं सुरवल्लभम्
स तेन तृप्तो ववृधे शुक्लपक्षे यथा शशी पिप्पलैः पालितो यस्मात् पिप्पलादः स बालकः प्रवृद्धः पिप्पलान् एवम् उवाच त्व् अतिविस्मितः