दधीचिर् जातसंहर्षः सुरान् पूज्य पृथक् पृथक् गृहकृत्यं ततश् चक्रे सुरेभ्यो भार्यया सह
पृष्टाश् च कुशलं तेन कथाश् चक्रुः सुरा अपि दधीचिम् अब्रुवन् देवा भार्यया सुखितं पुनः
आसीनं हृष्टमनस ऋषिं नत्वा पुनः पुनः
किम् अद्य दुर्लभं लोके ऋषे ऽस्माकं भविष्यति त्वादृशः सकृपो येषु मुनिर् भूकल्पपादपः
एतद् एव फलं पुंसां जीवतां मुनिसत्तम तीर्थाप्लुतिर् भूतदया दर्शनं च भवादृशाम्
यत् स्नेहाद् उच्यते ऽस्माभिर् अवधारय तन् मुने जित्वा दैत्यान् इह प्राप्ता हत्वा राक्षसपुंगवान्
वयं च सुखिनो ब्रह्मंस् त्वयि दृष्टे विशेषतः नायुधैः फलम् अस्माकं वोढुं नैव क्षमा वयम्
स्थाप्यदेशं न पश्याम आयुधानां मुनीश्वर स्वर्गे सुरद्विषो ज्ञात्वा स्थापितानि हरन्ति च
नयेयुर् आयुधानीति तथैव च रसातले तस्मात् तवाश्रमे पुण्ये स्थाप्यन्ते ऽस्त्राणि मानद
नैवात्र किंचिद् भयम् अस्ति विप्र न दानवेभ्यो राक्षसेभ्यश् च घोरम् त्वदाज्ञया रक्षितपुण्यदेशो न विद्यते तपसा ते समानः
जितारयो ब्रह्मविदां वरिष्ठं वयं च पूर्वं निहता दैत्यसंघाः अस्त्रैर् अलं भारभूतैः कृतार्थैः स्थाप्यं स्थानं ते समीपे मुनीश
दिव्यान् भोगान् कामिनीभिः समेतान् देवोद्याने नन्दने संभजामः ततो यामः कृतकार्याः सहेन्द्राः स्वं स्वं स्थानं चायुधानां च रक्षा
तद्वाक्यम् आकर्ण्य दधीचिर् एवं वाक्यं जगौ विबुधान् एवम् अस्तु निवार्यमाणः प्रियशीलया स्त्रिया किं देवकार्येण विरुद्धकारिणा
ये ज्ञातशास्त्राः परमार्थनिष्ठाः संसारचेष्टासु गतानुरागाः तेषां परार्थव्यसनेन किं मुने येनात्र वामुत्र सुखं न किंचित्
देवद्विषो द्वेषम् अनुप्रयान्ति दत्ते स्थाने विप्रवर्य शृणुष्व नष्टे हृते चायुधानां मुनीश कुप्यन्ति देवा रिपवस् ते भवन्ति
तस्मान् नेदं वेदविदां वरिष्ठ युक्तं द्रव्ये परकीये ममत्वम् तावच् च मैत्री द्रव्यभावश् च तावन् नष्टे हृते रिपवस् ते भवन्ति
चेद् अस्ति शक्तिर् द्रव्यदाने ततस् ते दातव्यम् एवार्थिने किं विचार्यम् नो चेत् सन्तः परकार्याणि कुर्युर् वाग्भिर् मनोभिः कृतिभिस् तथैव
श्रुत्वेरितं पत्युर् इति प्रियायां दैवं विनान्यन् न नृणां समर्थम् तूष्णीं स्थितायां सुरसत्तमास् ते संस्थाप्य चास्त्राण्य् अतिदीप्तिमन्ति
नत्वा मुनीन्द्रं ययुर् एव लोकान् दैत्यद्विषो न्यस्तशस्त्राः कृतार्थाः गतेषु देवेषु मुनिप्रवर्यो हृष्टो ऽवसद् भार्यया धर्मयुक्तः
गते च काले ह्य् अतिविप्रयुक्ते दैवे वर्षे संख्यया वै सहस्रे न ते सुरा आयुधानां मुनीश वाचं मनश् चापि तथैव चक्रुः
दधीचिर् अप्य् आह गभस्तिम् ओजसा देवारयो मां द्विषतीह भद्रे न ते सुरा नेतुकामा भवन्ति संस्थापितान्य् अत्र वदस्व युक्तम्
सा चाह कान्तं विनयाद् उक्तम् एव त्वं जानीषे नाथ यद् अत्र युक्तम् दैत्या हरिष्यन्ति महाप्रवृद्धास् तपोयुक्ता बलिनः स्वायुधानि
तदस्त्ररक्षार्थम् इदं स चक्रे मन्त्रैस् तु संक्षाल्य जलैश् च पुण्यैः तद् वारि सर्वास्त्रमयं सुपुण्यं तेजोयुक्तं तच् च पपौ दधीचिः
निर्वीर्यरूपाणि तदायुधानि क्षयं जग्मुः क्रमशः कालयोगात् सुराः समागत्य दधीचिम् ऊचुर् महाभयं ह्य् आगतं शात्रवं नः
ददस्व चास्त्राणि मुनिप्रवीर यानि त्वदन्ते निहितानि देवैः दधीचिर् अप्य् आह सुरारिभीत्या अनागत्या भवतां चाचिरेण
अस्त्राणि पीतानि शरीरसंस्थान्य् उक्तानि युक्तं मम तद् वदन्तु श्रुत्वा तदुक्तं वचनं तु देवाः प्रोचुस् तम् इत्थं विनयावनम्राः
अस्त्राणि देहीति च वक्तुम् एतच् छक्यं न वान्यत् प्रतिवक्तुं मुनीन्द्र विना च तैः परिभूयेम नित्यं पुष्टारयः क्व प्रयामो मुनीश
न मर्त्यलोके न तले न नाके वासः सुराणां भविताद्य तात त्वं विप्रवर्यस् तपसा चैव युक्तो नान्यद् वक्तुं युज्यते ते पुरस्तात्
विप्रस् तदोवाच मदस्थिसंस्थान्य् अस्त्राणि गृह्णन्तु न संशयो ऽत्र देवास् तम् अप्य् आहुर् अनेन किं नो ह्य् अस्त्रैर् हीनाः स्त्रीत्वम् आप्ताः सुरेन्द्राः
पुनस् तदा चाह मुनिप्रवीरस् त्यक्ष्ये जीवान् दैहिकान् योगयुक्तः अस्त्राणि कुर्वन्तु मदस्थिभूतान्य् अनुत्तमान्य् उत्तमरूपवन्ति