तथेत्य् उवाच भगवान् देवदेवो महेश्वरः शंकरः सर्वभूतात्मा करुणावरुणालयः
क्रतुं कृत्वा ततः पूर्णं तस्य दक्षस्य वै मुने एवम् उक्त्वा स भगवान् भूतैर् अन्तरधीयत
यथागतं सुरा जग्मुः स्वम् एव सदनं प्रति ततः कदाचिद् देवानां दैत्यानां विग्रहो महान्
बभूव तत्र दैत्येभ्यो भीता देवाः श्रियः पतिम् तुष्टुवुः सर्वभावेन वचोभिस् तं जनार्दनम्
शक्रादयो ऽपि त्रिदशाः कटाक्षम् अवेक्ष्य यस्यास् तप आचरन्ति सा चापि यत्पादरता च लक्ष्मीस् तं ब्रह्मभूतं शरणं प्रपद्ये
यस्मात् त्रिलोक्यां न परः समानो न चाधिकस् तार्क्ष्यरथान् नृसिंहात् स देवदेवो ऽवतु नः समस्तान् महाभयेभ्यः कृपया प्रपन्नान्
ततः प्रसन्नो भगवाञ् शङ्खचक्रगदाधरः किमर्थम् आगताः सर्वे तत्कर्तास्मीत्य् उवाच तान्
भयं च तीव्रं दैत्येभ्यो देवानां मधुसूदन ततस् त्राणाय देवानां मतिं कुरु जनार्दन
तान् आगतान् हरिः प्राह ग्रस्तं चक्रं हरेण मे किं करोमि गतं चक्रं भवन्तश् चार्तिम् आगताः यान्तु सर्वे देवगणा रक्षा वः क्रियते मया
ततो गतेषु देवेषु विष्णुश् चक्रार्थम् उद्यतः गोदावरीं ततो गत्वा शंभोः पूजां प्रचक्रमे
सुवर्णकमलैर् दिव्यैः सुगन्धैर् दशभिः शतैः भक्तितो नित्यवत् पूजां चक्रे विष्णुर् उमापतेः
एवं संपूज्यमाने तु तयोस् तत्त्वम् इदं शृणु कमलानां सहस्रे तु यदैकं नैव पूर्यते
तदासुरारिः स्वं नेत्रम् उत्पाट्यार्घ्यम् अकल्पयत् अर्घ्यपात्रं करे गृह्य सहस्रकमलान्वितम् ध्यात्वा शंभुं ददाव् अर्घ्यम् अनन्यशरणो हरिः
त्वम् एव देव जानीषे भावम् अन्तर्गतं नृणाम् त्वम् एव शरणो ऽधीशो ऽत्र का भवेद् विचारणा
वदन्न् उदश्रुनयनो निलिल्ये ऽसाव् इतीश्वरे भवानीसहितः शंभुः पुरस्ताद् अभवत् तदा
गाढम् आलिङ्ग्य विविधैर् वरैर् आपूरयद् धरिम् तद् एव चक्रम् अभवन् नेत्रं चापि यथा पुरा
ततः सुरगणाः सर्वे तुष्टुवुर् हरिशंकरौ गङ्गां चापि सरिच्छ्रेष्ठां देवं च वृषभध्वजम्
ततः प्रभृति तत् तीर्थं चक्रतीर्थम् इति स्मृतम् यस्यानुश्रवणेनैव मुच्यते सर्वकिल्बिषैः
तत्र स्नानं च दानं च यः कुर्यात् पितृतर्पणम् सर्वपापविनिर्मुक्तः पितृभिः स्वर्गभाग् भवेत् तत् तु चक्राङ्कितं तीर्थम् अद्यापि परिदृश्यते
पिप्पलं तीर्थम् आख्यातं चक्रतीर्थाद् अनन्तरम् यत्र चक्रेश्वरो देवश् चक्रम् आप यतो हरिः
यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शंकरं विभुम् पूजयाम् आस तत् तीर्थं चक्रतीर्थम् उदाहृतम्
यत्र प्रीतो ऽभवद् विष्णोः शंभुस् तत् पिप्पलं विदुः महिमानं यस्य वक्तुं न क्षमो ऽप्य् अहिनायकः
चक्रेश्वरो पिप्पलेशो नामधेयस्य कारणम् शृणु नारद तद् भक्त्या साक्षाद् वेदोदितं मया
दधीचिर् इति विख्यातो मुनिर् आसीद् गुणान्वितः तस्य भार्या महाप्राज्ञा कुलीना च पतिव्रता
लोपामुद्रेति या ख्याता स्वसा तस्या गभस्तिनी इति नाम्ना च विख्याता वडवेति प्रकीर्तिता
दधीचेः सा प्रिया नित्यं तपस् तेपे तया महत् दधीचिर् अग्निमान् नित्यं गृहधर्मपरायणः
भागीरथीं समाश्रित्य देवातिथिपरायणः स्वकलत्ररतः शान्तः कुम्भयोनिर् इवापरः
तस्य प्रभावात् तं देशं नारयो दैत्यदानवाः आजग्मुर् मुनिशार्दूल यत्रागस्त्यस्य चाश्रमः
तत्र देवाः समाजग्मू रुद्रादित्यास् तथाश्विनौ इन्द्रो विष्णुर् यमो ऽग्निश् च जित्वा दैत्यान् उपागतान्
जयेन जातसंहर्षाः स्तुताश् चैव मरुद्गणैः दधीचिं मुनिशार्दूलं दृष्ट्वा नेमुः सुरेश्वराः