त्राहि त्राहि गदापाणे भूतनाथकृताद् भयात् महेश्वरगणः कश्चित् प्रमथानां तु नायकः तेन दग्धो मखः सर्वो वैष्णवः पश्यतो हरेः
हरिणा चक्रम् उत्सृष्टं भूतनाथवधं प्रति भूतनाथो ऽपि तच् चक्रम् आपतच् च तदाग्रसत्
ग्रस्ते चक्रे ततो विष्णोर् लोकपाला भयाद् ययुः तथा स्थितान् अवेक्ष्याथ दक्षो यज्ञं सुरान् अपि तुष्टाव शंकरं देवं दक्षो भक्त्या प्रजापतिः
जय शंकर सोमेश जय सर्वज्ञ शंभवे जय कल्याणभृच् छंभो जय कालात्मने नमः
आदिकर्तर् नमस् ते ऽस्तु नीलकण्ठ नमो ऽस्तु ते ब्रह्मप्रिय नमस् ते ऽस्तु ब्रह्मरूप नमो ऽस्तु ते
त्रिमूर्तये नमो देव त्रिधाम परमेश्वर सर्वमूर्ते नमस् ते ऽस्तु त्रैलोक्याधार कामद
नमो वेदान्तवेद्याय नमस् ते परमात्मने यज्ञरूप नमस् ते ऽस्तु यज्ञधाम नमो ऽस्तु ते
यज्ञदान नमस् ते ऽस्तु हव्यवाह नमो ऽस्तु ते यज्ञहर्त्रे नमस् ते ऽस्तु फलदाय नमो ऽस्तु ते
त्राहि त्राहि जगन्नाथ शरणागतवत्सल भक्तानाम् अप्य् अभक्तानां त्वम् एव शरणं प्रभो
एवं तु स्तुवतस् तस्य प्रसन्नो ऽभून् महेश्वरः किं ददामीति तं प्राह क्रतुः पूर्णो ऽस्तु मे प्रभो
तथेत्य् उवाच भगवान् देवदेवो महेश्वरः शंकरः सर्वभूतात्मा करुणावरुणालयः
क्रतुं कृत्वा ततः पूर्णं तस्य दक्षस्य वै मुने एवम् उक्त्वा स भगवान् भूतैर् अन्तरधीयत
यथागतं सुरा जग्मुः स्वम् एव सदनं प्रति ततः कदाचिद् देवानां दैत्यानां विग्रहो महान्
बभूव तत्र दैत्येभ्यो भीता देवाः श्रियः पतिम् तुष्टुवुः सर्वभावेन वचोभिस् तं जनार्दनम्
शक्रादयो ऽपि त्रिदशाः कटाक्षम् अवेक्ष्य यस्यास् तप आचरन्ति सा चापि यत्पादरता च लक्ष्मीस् तं ब्रह्मभूतं शरणं प्रपद्ये
यस्मात् त्रिलोक्यां न परः समानो न चाधिकस् तार्क्ष्यरथान् नृसिंहात् स देवदेवो ऽवतु नः समस्तान् महाभयेभ्यः कृपया प्रपन्नान्
ततः प्रसन्नो भगवाञ् शङ्खचक्रगदाधरः किमर्थम् आगताः सर्वे तत्कर्तास्मीत्य् उवाच तान्
भयं च तीव्रं दैत्येभ्यो देवानां मधुसूदन ततस् त्राणाय देवानां मतिं कुरु जनार्दन
तान् आगतान् हरिः प्राह ग्रस्तं चक्रं हरेण मे किं करोमि गतं चक्रं भवन्तश् चार्तिम् आगताः यान्तु सर्वे देवगणा रक्षा वः क्रियते मया
ततो गतेषु देवेषु विष्णुश् चक्रार्थम् उद्यतः गोदावरीं ततो गत्वा शंभोः पूजां प्रचक्रमे
सुवर्णकमलैर् दिव्यैः सुगन्धैर् दशभिः शतैः भक्तितो नित्यवत् पूजां चक्रे विष्णुर् उमापतेः
एवं संपूज्यमाने तु तयोस् तत्त्वम् इदं शृणु कमलानां सहस्रे तु यदैकं नैव पूर्यते
तदासुरारिः स्वं नेत्रम् उत्पाट्यार्घ्यम् अकल्पयत् अर्घ्यपात्रं करे गृह्य सहस्रकमलान्वितम् ध्यात्वा शंभुं ददाव् अर्घ्यम् अनन्यशरणो हरिः
त्वम् एव देव जानीषे भावम् अन्तर्गतं नृणाम् त्वम् एव शरणो ऽधीशो ऽत्र का भवेद् विचारणा
वदन्न् उदश्रुनयनो निलिल्ये ऽसाव् इतीश्वरे भवानीसहितः शंभुः पुरस्ताद् अभवत् तदा
गाढम् आलिङ्ग्य विविधैर् वरैर् आपूरयद् धरिम् तद् एव चक्रम् अभवन् नेत्रं चापि यथा पुरा
ततः सुरगणाः सर्वे तुष्टुवुर् हरिशंकरौ गङ्गां चापि सरिच्छ्रेष्ठां देवं च वृषभध्वजम्
ततः प्रभृति तत् तीर्थं चक्रतीर्थम् इति स्मृतम् यस्यानुश्रवणेनैव मुच्यते सर्वकिल्बिषैः
तत्र स्नानं च दानं च यः कुर्यात् पितृतर्पणम् सर्वपापविनिर्मुक्तः पितृभिः स्वर्गभाग् भवेत् तत् तु चक्राङ्कितं तीर्थम् अद्यापि परिदृश्यते
पिप्पलं तीर्थम् आख्यातं चक्रतीर्थाद् अनन्तरम् यत्र चक्रेश्वरो देवश् चक्रम् आप यतो हरिः