सोमवंशकरः श्रीमान् अयं राजा भवेद् इति सर्वेभ्यो मतिमानेभ्यो ज्येष्ठः श्रेष्ठो ऽभवन् मुने
यत्र च क्रतवो वृत्ता इलस्य नृपतेः शुभाः यत्र पुंस्त्वम् अवाप्याथ यत्र पुत्राः समागताः
यक्षिणीदत्तनृत्यादिगीतसौभाग्यमङ्गलाः नद्यो भूत्वा यत्र गङ्गां संगतास् तानि नारद
तीर्थानि शुभदान्य् आसन् सहस्राण्य् अथ षोडश उभयोस् तीरयोस् तात तत्र शंभुर् इलेश्वरः तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम्
चक्रतीर्थम् इति ख्यातं ब्रह्महत्यादिनाशनम् यत्र चक्रेश्वरो देवश् चक्रम् आप यतो हरिः
यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शंकरं प्रभुः पूजयाम् आस तत् तीर्थं चक्रतीर्थम् उदाहृतम्
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते दक्षक्रतौ प्रवृत्ते तु देवानां च समागमे
दक्षेण दूषिते देवे शिवे शर्वे महेश्वरे अनाह्वाने सुरेशस्य दक्षचित्ते मलीमसे
दाक्षायण्या श्रुते वाक्ये अनाह्वानस्य कारणे अहल्यायां चोक्तवत्यां कुपिताभूत् सुरेश्वरी
पितरं नाशये पापं क्षमेयं न कथंचन शृण्वती दोषवाक्यानि पित्रा चोक्तानि भर्तरि
पत्युः शृण्वन्ति या निन्दां तासां पापावधिः कुतः यादृशस् तादृशो वापि पतिः स्त्रीणां परा गतिः
किं पुनः सकलाधीशो महादेवो जगद्गुरुः श्रुतं तन्निन्दनं तर्हि धारयामि न देहकम्
तस्मात् त्यक्ष्य इमं देहम् इत्य् उक्त्वा सा महासती कोपेन महताविष्टा प्रजज्वाल सुरेश्वरी
शिवैकचेतना देहं बलाद् योगाच् च तत्यजे महेश्वरो ऽपि सकलं वृत्तम् आकर्ण्य नारदात्
दृष्ट्वा चुकोप पप्रच्छ जयां च विजयां तथा ते ऊचतुर् उभे देवं दक्षक्रतुविनाशनम्
दाक्षायण्या इति श्रुत्वा मखं प्रायान् महेश्वरः भीमैर् गणैः परिवृतो भूतनाथैः समं ययौ
मखस् तैर् वेष्टितः सर्वो देवब्रह्मपुरस्कृतः दक्षेण यजमानेन शुद्धभावेन रक्षितः
वसिष्ठादिभिर् अत्युग्रैर् मुनिभिः परिवारितः इन्द्रादित्याद्यैर् वसुभिः सर्वतःपरिपालितः
ऋग्यजुःसामवेदैश् च स्वाहाशब्दैर् अलंकृतः श्रद्धा पुष्टिस् तथा तुष्टिः शान्तिर् लज्जा सरस्वती
भूमिर् द्यौः शर्वरी क्षान्तिर् उषा आशा जया मतिः एताभिश् च तथान्याभिः सर्वतः समलंकृतः
त्वष्ट्रा महात्मना चापि कारितो विश्वकर्मणा सुरभिर् नन्दिनी धेनुः कामधुक् कामदोहिनी
एताभिः कामवर्षाभिः सर्वकामसमृद्धिमान् कल्पवृक्षः पारिजातो लताः कल्पलतादिकाः
यद् यद् इष्टतमं किंचित् तत्र तस्मिन् मखे स्थितम् स्वयं मघवता पूष्णा हरिणा परिरक्षितः
दीयतां भुज्यतां वापि क्रियतां स्थीयतां सुखम् एतैश् च सर्वतो वाक्यैर् दक्षस्य पूजितं मखम्
आदौ तु वीरभद्रो ऽसौ भद्रकाल्या युतो ययौ शोककोपपरीतात्मा पश्चाच् छूलपिनाकधृक्
अभ्याययौ महादेवो महाभूतैर् अलंकृतः तानि भूतानि परितो मखे वेष्ट्य महेश्वरम्
क्रतुं विध्वंसयाम् आसुस् तत्र क्षोभो महान् अभूत् पलायन्त ततः केचित् केचिद् गत्वा ततः शिवम्
केचित् स्तुवन्ति देवेशं केचित् कुप्यन्ति शंकरम् एवं विध्वंसितं यज्ञं दृष्ट्वा पूषा समभ्यगात्
पूष्णो दन्तान् अथोत्पाट्य इन्द्रं व्यद्रावयत् क्षणात् भगस्य चक्षुषी विप्र वीरभद्रो व्यपाटयत्
दिवाकरं पुनर् दोर्भ्यां परिभ्राम्य समाक्षिपत् ततः सुरगणाः सर्वे विष्णुं ते शरणं ययुः