इलो राजा तवाज्ञात्वा वनं प्राविशद् अम्बिके तत् क्षमस्व सुरेशानि पुंस्त्वं दातुं त्वम् अर्हसि
तथेत्य् उवाच तान् सर्वान् भवस्य तु मते स्थिता ततः स भगवान् आह देवीवाक्यरतः सदा
अत्राभिषेकमात्रेण पुंस्त्वं प्राप्नोत्व् अयं नृपः
स्नाताया बुधभार्यायाः शरीराद् वारि सुस्रुवे नृत्यं गीतं च लावण्यं यक्षिण्या यद् उपार्जितम्
तत् सर्वं वारिधाराभिर् गङ्गाम्भसि समाविशत् नृत्या गीता च सौभाग्या इमा नद्यो बभूविरे
ताश् चापि संगता गङ्गां ते पुण्याः संगमास् त्रयः तेषु स्नानं च दानं च सुरराज्यफलप्रदम्
इला पुंस्त्वम् अवाप्याथ गौरीशंभोः प्रसादतः महाभ्युदयसिद्ध्यर्थं वाजिमेधम् अथाकरोत्
पुरोधसं वसिष्ठं च भार्यां पुत्रांस् तथैव च अमात्यांश् च बलं कोशम् आनीय स नृपोत्तमः
चतुरङ्गं बलं राज्यं दण्डके ऽस्थापयत् तदा इलस्य नाम्ना विख्यातं तत्र तत् पुरम् उच्यते
पूर्वजातान् अथो पुत्रान् सूर्यवंशक्रमागते राज्ये ऽभिषिच्य पश्चात् तम् ऐलं स्नेहाद् असिञ्चयत्
सोमवंशकरः श्रीमान् अयं राजा भवेद् इति सर्वेभ्यो मतिमानेभ्यो ज्येष्ठः श्रेष्ठो ऽभवन् मुने
यत्र च क्रतवो वृत्ता इलस्य नृपतेः शुभाः यत्र पुंस्त्वम् अवाप्याथ यत्र पुत्राः समागताः
यक्षिणीदत्तनृत्यादिगीतसौभाग्यमङ्गलाः नद्यो भूत्वा यत्र गङ्गां संगतास् तानि नारद
तीर्थानि शुभदान्य् आसन् सहस्राण्य् अथ षोडश उभयोस् तीरयोस् तात तत्र शंभुर् इलेश्वरः तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम्
चक्रतीर्थम् इति ख्यातं ब्रह्महत्यादिनाशनम् यत्र चक्रेश्वरो देवश् चक्रम् आप यतो हरिः
यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शंकरं प्रभुः पूजयाम् आस तत् तीर्थं चक्रतीर्थम् उदाहृतम्
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते दक्षक्रतौ प्रवृत्ते तु देवानां च समागमे
दक्षेण दूषिते देवे शिवे शर्वे महेश्वरे अनाह्वाने सुरेशस्य दक्षचित्ते मलीमसे
दाक्षायण्या श्रुते वाक्ये अनाह्वानस्य कारणे अहल्यायां चोक्तवत्यां कुपिताभूत् सुरेश्वरी
पितरं नाशये पापं क्षमेयं न कथंचन शृण्वती दोषवाक्यानि पित्रा चोक्तानि भर्तरि
पत्युः शृण्वन्ति या निन्दां तासां पापावधिः कुतः यादृशस् तादृशो वापि पतिः स्त्रीणां परा गतिः
किं पुनः सकलाधीशो महादेवो जगद्गुरुः श्रुतं तन्निन्दनं तर्हि धारयामि न देहकम्
तस्मात् त्यक्ष्य इमं देहम् इत्य् उक्त्वा सा महासती कोपेन महताविष्टा प्रजज्वाल सुरेश्वरी
शिवैकचेतना देहं बलाद् योगाच् च तत्यजे महेश्वरो ऽपि सकलं वृत्तम् आकर्ण्य नारदात्
दृष्ट्वा चुकोप पप्रच्छ जयां च विजयां तथा ते ऊचतुर् उभे देवं दक्षक्रतुविनाशनम्
दाक्षायण्या इति श्रुत्वा मखं प्रायान् महेश्वरः भीमैर् गणैः परिवृतो भूतनाथैः समं ययौ
मखस् तैर् वेष्टितः सर्वो देवब्रह्मपुरस्कृतः दक्षेण यजमानेन शुद्धभावेन रक्षितः
वसिष्ठादिभिर् अत्युग्रैर् मुनिभिः परिवारितः इन्द्रादित्याद्यैर् वसुभिः सर्वतःपरिपालितः
ऋग्यजुःसामवेदैश् च स्वाहाशब्दैर् अलंकृतः श्रद्धा पुष्टिस् तथा तुष्टिः शान्तिर् लज्जा सरस्वती
भूमिर् द्यौः शर्वरी क्षान्तिर् उषा आशा जया मतिः एताभिश् च तथान्याभिः सर्वतः समलंकृतः