निवेदयस्व मे मातस् तद् एव प्रथमं मम
इला चैनम् उवाचेदं रहोवाचं कथं वदे तथापि पुत्र ते वच्मि पित्रोः पुत्रो यतो गतिः मग्नानां दुःखपाथोब्धौ पुत्रः प्रवहणं परम्
तन् मातृवचनं श्रुत्वा विनीतः प्राह मातरम् पादयोः पतितश् चापि वद मातर् यथा तथा
सा पुरूरवसं प्राह इक्ष्वाकूणां तथा कुलम् तत्रोत्पत्तिं स्वस्य नाम राज्यप्राप्तिं प्रियान् सुतान्
पुरोधसं वसिष्ठं च प्रियां भार्यां स्वकं पदम् वननिर्याणम् एवाथ अमात्यानां पुरोधसः
प्रेषणं च नगर्यां तां मृगयासक्तिम् एव च हिमवत्कन्दरगतिं यक्षेश्वरगृहे गतिम्
उमावनप्रवेशं च स्त्रीत्वप्राप्तिम् अशेषतः महेश्वराज्ञया तत्र चाप्रवेशं नरस्य तु
यक्षिणीवाक्यम् अप्य् अस्य वरदानं तथैव च बुधप्राप्तिं तथा प्रीतिं पुत्रोत्पत्त्याद्य् अशेषतः
कथयाम् आस तत् सर्वं श्रुत्वा मातरम् अब्रवीत् पुरूरवाः किं करोमि किं कृत्वा सुकृतं भवेत्
एतावता ते तृप्तिश् चेद् अलम् एतेन चाम्बिके यद् अप्य् अन्यन् मनोवर्ति तद् अप्य् आज्ञापयस्व मे
इच्छेयं पुंस्त्वम् उत्कृष्टम् इच्छेयं राज्यम् उत्तमम् अभिषेकं च पुत्राणां तव चापि विशेषतः
दानं दातुं च यष्टुं च मुक्तिमार्गस्य वीक्षणम् सर्वं च कर्तुम् इच्छामि तव पुत्र प्रसादतः
उपायं त्वा तु पृच्छामि येन पुंस्त्वम् अवाप्स्यसि तपसो वान्यतो वापि वदस्व मम तत्त्वतः
बुधं त्वं पितरं पृच्छ गत्वा पुत्र यथार्थवत् स तु सर्वं तु जानाति उपदेक्ष्यति ते हितम्
तन्मातृवचनाद् ऐलो गत्वा पितरम् अञ्जसा उवाच प्रणतो भूत्वा मातुः कृत्यं तथात्मनः
इलं जाने महाप्राज्ञ इलां जातां पुनस् तथा उमावनप्रवेशं च शंभोर् आज्ञां तथैव च
तस्माच् छंभुप्रसादेन उमायाश् च प्रसादतः विशापो भविता पुत्र ताव् आराध्य न चान्यथा
पश्येयं तं कथं देवं कथं वा मातरं शिवाम् तीर्थाद् वा तपसो वापि तत् पितः प्रथमं वद
गौतमीं गच्छ पुत्र त्वं तत्रास्ते सर्वदा शिवः उमया सहितः श्रीमाञ् शापहन्ता वरप्रदः
पुरूरवाः पितुर् वाक्यं श्रुत्वा तु मुदितो ऽभवत् गौतमीं तपसे धीमान् गङ्गां त्रैलोक्यपावनीम्
पुंस्त्वम् इच्छंस् तथा मातुर् जगाम तपसे त्वरन् हिमवन्तं गिरिं नत्वा मातरं पितरं गुरुम्
गच्छन्तम् अन्वगात् पुत्रम् इला सोमसुतस् तथा ते सर्वे गौतमीं प्राप्ता हिमवत्पर्वतोत्तमात्
तत्र स्नात्वा तपः किंचित् कृत्वा चक्रुः स्तुतिं पराम् भवस्य देवदेवस्य स्तुतिक्रमम् इमं शृणु
बुधस् तुष्टाव प्रथमम् इला च तदनन्तरम् ततः पुरूरवाः पुत्रो गौरीं देवीं च शंकरम्
यौ कुङ्कुमेन स्वशरीरजेन स्वभावहेमप्रतिमौ सरूपौ याव् अर्चितौ स्कन्दगणेश्वराभ्यां तौ मे शरण्यौ शरणं भवेताम्
संसारतापत्रयदावदग्धाः शरीरिणो यौ परिचिन्तयन्तः सद्यः परां निर्वृतिम् आप्नुवन्ति तौ शंकरौ मे शरणं भवेताम्
आर्ता ह्य् अहं पीडितमानसा ते क्लेशादिगोप्ता न परो ऽस्ति कश्चित् देव त्वदीयौ चरणौ सुपुण्यौ तौ मे शरण्यौ शरणं भवेताम्
ययोः सकाशाद् इदम् अभ्युदैति प्रयाति चान्ते लयम् एव सर्वम् जगच्छरण्यौ जगदात्मकौ तु गौरीहरौ मे शरणं भवेताम्
यौ देववृन्देषु महोत्सवे तु पादौ गृहाणेश गिरीशपुत्र्याः प्रोक्तं धृतौ प्रीतिवशाच् छिवेन तौ मे शरण्यौ शरणं भवेताम्
किम् अभीष्टं प्रदास्यामि युष्मभ्यं तद् वदन्तु मे कृतकृत्याः स्थ भद्रं वो देवानाम् अपि दुष्करम्